भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 213

213.1

अहो कृष्णस्य माहात्म्यम् अद्भुतं चातिमानुषम्
रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥

213.2

न तृप्तिम् अधिगच्छामः शृण्वन्तो भगवत्कथाम्
तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥

213.3

प्रादुर्भावः पुराणेषु विष्णोर् अमिततेजसः
सतां कथयताम् एव वराह इति नः श्रुतम् ॥

213.4

न जानीमो ऽस्य चरितं न विधिं न च विस्तरम्
न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥

213.5

किमात्मको वराहो ऽसौ का मूर्तिः का च देवता
किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥

213.6

यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम्
महावराहचरितं सर्वलोकसुखावहम् ॥

213.7

यथा नारायणो ब्रह्मन् वाराहं रूपम् आस्थितः
दंष्ट्रया गां समुद्रस्थाम् उज्जहारारिमर्दनः ॥

213.8

विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः
श्रोतुं नो वर्तते बुद्धिर् हरेः कृष्णस्य धीमतः ॥

213.9

कर्मणाम् आनुपूर्व्या च प्रादुर्भावाश् च ये विभो
या वास्य प्रकृतिर् ब्रह्मंस् ताश् चाख्यातुं त्वम् अर्हसि ॥

213.10

प्रश्नभारो महान् एष भवद्भिः समुदाहृतः
यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥

213.11

विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिर् उत्थिता
तस्माद् विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः ॥

213.12

सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्
सहस्रशिरसं देवं सहस्रकरम् अव्ययम् ॥

213.13

सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम्
सहस्रदं सहस्रादिं सहस्रभुजम् अव्ययम् ॥

213.14

हवनं सवनं चैव होतारं हव्यम् एव च
पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम् ॥

213.15

स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम्
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥

213.16

यूपं चक्रं ध्रुवां दर्वीं चरूंश् चोलूखलानि च
प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥

213.17

ह्रस्वाण्य् अतिप्रमाणानि स्थावराणि चराणि च
प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास् तथा ॥

213.18

मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत्
अग्रासिनं सोमभुजं हुतार्चिषम् उदायुधम् ॥

213.19

आहुर् वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम्
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥

213.20

प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः
भूयश् चैव भविष्यन्ति ह्य् एवम् आह पितामहः ॥

213.21

यत् पृच्छध्वं महाभागा दिव्यां पुण्याम् इमां कथाम्
प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥

213.22

शृणुध्वं तां महाभागास् तद्गतेनान्तरात्मना
प्रवक्ष्याम्य् आनुपूर्व्येण यत् पृच्छध्वं ममानघाः ॥

213.23

वासुदेवस्य माहात्म्यं चरितं च महामतेः
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥

213.24

बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान्
प्रादुर्भावांश् च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान् ॥

213.25

सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः
पूर्णे युगसहस्रे ऽथ देवदेवो जगत्पतिः ॥

213.26

ब्रह्मा च कपिलश् चैव त्र्यम्बकस् त्रिदशास् तथा
देवाः सप्तर्षयश् चैव नागाश् चाप्सरसस् तथा ॥

213.27

सनत्कुमारश् च महानुभावो मनुर् महात्मा भगवान् प्रजाकरः
पुराणदेवो ऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः

213.28

यो ऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे
नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥

213.29

योद्धुकामौ दुराधर्षौ ताव् उभौ मधुकैटभौ
हतौ भगवता तेन तयोर् दत्त्वामितं वरम् ॥

213.30

पुरा कमलनाभस्य स्वपतः सागराम्भसि
पुष्करे तत्र संभूता देवाः सर्षिगणास् तथा ॥

213.31

एष पौष्करको नाम प्रादुर्भावो महात्मनः
पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥

213.32

वाराहस् तु श्रुतिमुखः प्रादुर्भावो महात्मनः
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः ॥

213.33

वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥

213.34

अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः
आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥

213.35

सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः
प्रायश्चित्तनखो घोरः पशुजानुर् मुखाकृतिः ॥

213.36

उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः
वाद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥

213.37

वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् अन्वितः ॥

213.38

दक्षिणाहृदयो योगी महासत्त्रमयो महान्
उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥

213.39

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः
छायापत्नीसहायो ऽसौ मणिशृङ्ग इवोत्थितः ॥

213.40

महीं सागरपर्यन्तां सशैलवनकाननाम्
एकार्णवजलभ्रष्टाम् एकार्णवगतः प्रभुः ॥

213.41

दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया
सहस्रशीर्षो लोकादिश् चकार जगतीं पुनः ॥

213.42

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥

213.43

वाराह एष कथितो नारसिंहस् ततो द्विजाः
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः ॥

213.44

पुरा कृतयुगे नाम सुरारिर् बलदर्पितः
दैत्यानाम् आदिपुरुषश् चकार सुमहत् तपः ॥

213.45

दश वर्षसहस्राणि शतानि दश पञ्च च
जपोपवासनिरतस् तस्थौ मौनव्रतस्थितः ॥

213.46

ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि
प्रीतो ऽभवत् ततस् तस्य तपसा नियमेन च ॥

213.47

तं वै स्वयंभूर् भगवान् स्वयम् आगम्य भो द्विजाः
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥

213.48

आदित्यैर् वसुभिः सार्धं मरुद्भिर् दैवतैस् तथा
रुद्रैर् विश्वसहायैश् च यक्षराक्षसकिंनरैः ॥

213.49

दिशाभिः प्रदिशाभिश् च नदीभिः सागरैस् तथा
नक्षत्रैश् च मुहूर्तैश् च खेचरैश् च महाग्रहैः ॥

213.50

देवर्षिभिस् तपोवृद्धैः सिद्धैर् विद्वद्भिर् एव च
राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः ॥

213.51

चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस् तथा
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनम् अब्रवीत् ॥

213.52

प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत
वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि ॥

213.53

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह ॥

213.54

शपेयुस् तपसा युक्ता वर एष वृतो मया
न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा ॥

213.55

न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्य् अधः
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥

213.56

यो मां नाशयितुं शक्तः स मे मृत्युर् भविष्यति
भवेयम् अहम् एवार्कः सोमो वायुर् हुताशनः ॥

213.57

सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः
अहं क्रोधश् च कामश् च वरुणो वासवो यमः
धनदश् च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥

213.58

एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः
सर्वान् कामान् इमांस् तात प्राप्स्यसि त्वं न संशयः ॥

213.59

एवम् उक्त्वा तु भगवाञ् जगामाशु पितामहः
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥

213.60

ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा
वरप्रदानं श्रुत्वैव पितामहम् उपस्थिताः ॥

213.61

वरेणानेन भगवन् बाधिष्यति स नो ऽसुरः
तत् प्रसीदाशु भगवन् वधो ऽप्य् अस्य विचिन्त्यताम् ॥

213.62

भगवन् सर्वभूतानां स्वयंभूर् आदिकृत् प्रभुः
स्रष्टा च हव्यकव्यानाम् अव्यक्तं प्रकृतिर् ध्रुवम् ॥

213.63

ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
प्रोवाच भगवान् वाक्यं सर्वदेवगणांस् तथा ॥

213.64

अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम्
तपसो ऽन्ते च भगवान् वधं विष्णुः करिष्यति ॥

213.65

एतच् छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः
स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदान्विताः ॥

213.66

लब्धमात्रे वरे चापि सर्वाः सो ऽबाधत प्रजाः
हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः ॥

213.67

आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान्
सत्यधर्मरतान् दान्तांस् तदा धर्षितवांस् तथा ॥

213.68

त्रिदिवस्थांस् तथा देवान् पराजित्य महाबलः
त्रैलोक्यं वशम् आनीय स्वर्गे वसति सो ऽसुरः ॥

213.69

यदा वरमदोन्मत्तो विचरन् दानवो भुवि
यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश् च देवताः ॥

213.70

आदित्या वसवः साध्या विश्वे च मरुतस् तथा
शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम् ॥

213.71

देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम्
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम्
नारायणं विभुं देवं शरण्यं शरणं गताः ॥

213.72

त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् भयात्
त्वं हि नः परमो देवस् त्वं हि नः परमो गुरुः ॥

213.73

त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम
उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयंकर
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥

213.74

भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम्
तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥

213.75

एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम्
अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥

213.76

एवम् उक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान्
हिरण्यकशिपोः स्थानम् आजगाम महाबलः ॥

213.77

नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥

213.78

घनजीमूतसंकाशो घनजीमूतनिस्वनः
घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥

213.79

दैत्यं सो ऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः
दृप्तैर् दैत्यगणैर् गुप्तं हतवान् एकपाणिना ॥

213.80

नृसिंह एष कथितो भूयो ऽयं वामनः परः
यत्र वामनम् आस्थाय रूपं दैत्यविनाशनम् ॥

213.81

बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा
विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः ॥

213.82

विप्रचित्तिः शिवः शङ्कुर् अयःशङ्कुस् तथैव च
अयःशिरा अश्वशिरा हयग्रीवश् च वीर्यवान् ॥

213.83

वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः
पुष्करः पुष्कलश् चैव शाश्वो ऽश्वपतिर् एव च ॥

213.84

प्रह्लादो ऽश्वपतिः कुम्भः संह्रादो गमनप्रियः
अनुह्रादो हरिहयो वाराहः संहरो ऽनुजः ॥

213.85

शरभः शलभश् चैव कुपथः क्रोधनः क्रथः
बृहत्कीर्तिर् महाजिह्वः शङ्कुकर्णो महास्वनः ॥

213.86

दीप्तजिह्वो ऽर्कनयनो मृगपादो मृगप्रियः
वायुर् गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥

213.87

चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च
कालकः कालकोपश् च वृत्रः क्रोधो विरोचनः ॥

213.88

गरिष्ठश् च वरिष्ठश् च प्रलम्बनरकाव् उभौ
इन्द्रतापनवातापी केतुमान् बलदर्पितः ॥

213.89

असिलोमा पुलोमा च बाष्कलः प्रमदो मदः
स्वमिश्रः कालवदनः करालः केशिर् एव च ॥

213.90

एकाक्षश् चन्द्रमा राहुः संह्रादः सम्बरः स्वनः
शतघ्नीचक्रहस्ताश् च तथा मुशलपाणयः ॥

213.91

अश्वयन्त्रायुधोपेता भिन्दिपालायुधास् तथा
शूलोलूखलहस्ताश् च परश्वधधरास् तथा ॥

213.92

पाशमुद्गरहस्ताश् च तथा परिघपाणयः
महाशिलाप्रहरणाः शूलहस्ताश् च दानवाः ॥

213.93

नानाप्रहरणा घोरा नानावेशा महाबलाः
कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा ॥

213.94

खरोष्ट्रवदनाश् चैव वराहवदनास् तथा
मार्जारशिखिवक्त्राश् च महावक्त्रास् तथा परे ॥

213.95

नक्रमेषाननाः शूरा गोजाविमहिषाननाः
गोधाशल्लकिवक्त्राश् च क्रोष्टुवक्त्राश् च दानवाः ॥

213.96

आखुदर्दुरवक्त्राश् च घोरा वृकमुखास् तथा
भीमा मकरवक्त्राश् च क्रौञ्चवक्त्राश् च दानवाः ॥

213.97

अश्वाननाः खरमुखा मयूरवदनास् तथा
गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः ॥

213.98

चीरसंवृतगात्राश् च तथा नीलकवाससः
उष्णीषिणो मुकुटिनस् तथा कुण्डलिनो ऽसुराः ॥

213.99

किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः
नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥

213.100

स्वान्य् आयुधानि संगृह्य प्रदीप्तानि च तेजसा
क्रममाणं हृषीकेशम् उपावर्तन्त सर्वशः ॥

213.101

प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैर् विभुः
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥

213.102

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे
नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥

213.103

परम् आक्रममाणस्य जानुदेशे व्यवस्थितौ
विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः ॥

213.104

हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान्
ददौ शक्राय वसुधां विष्णुर् बलवतां वरः ॥

213.105

एष वो वामनो नाम प्रादुर्भावो महात्मनः
वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः ॥

213.106

भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥

213.107

तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च
चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते ॥

213.108

अतिवर्धति चाधर्मे सत्ये नष्टे ऽनृते स्थिते
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥

213.109

सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै
चातुर्वर्ण्यम् असंकीर्णं कृतं तेन महात्मना ॥

213.110

तेन हैहयराजस्य कार्तवीर्यस्य धीमतः
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥

213.111

एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप
शतानि दश बाहूनां भविष्यन्ति न संशयः ॥

213.112

पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर
दुर्निरीक्ष्यो ऽरिवृन्दानां युद्धस्थश् च भविष्यसि ॥

213.113

एष वो वैष्णवः श्रीमान् प्रादुर्भावो ऽद्भुतः शुभः
भूयश् च जामदग्न्यो ऽयं प्रादुर्भावो महात्मनः ॥

213.114

यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे
रामो ऽर्जुनम् अनीकस्थं जघान नृपतिं प्रभुः ॥

213.115

रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि
धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत् ॥

213.116

कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥

213.117

कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥

213.118

कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥

213.119

यस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥

213.120

वारणांस् तुरगाञ् शुभ्रान् रथांश् च रथिनां वरः
हिरण्यम् अक्षयं धेनुर् गजेन्द्रांश् च महीपतिः ॥

213.121

ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥

213.122

चरमाणस् तपो घोरं जामदग्न्यः पुनः प्रभुः
आस्ते वै देववच् छ्रीमान् महेन्द्रे पर्वतोत्तमे ॥

213.123

एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥

213.124

चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः
जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥

213.125

कृत्वात्मानं महाबाहुश् चतुर्धा प्रभुर् ईश्वरः
लोके राम इति ख्यातस् तेजसा भास्करोपमः ॥

213.126

प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥

213.127

तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतहिते रतम्
यः समाः सर्वधर्मज्ञश् चतुर्दश वने ऽवसत् ॥

213.128

लक्ष्मणानुचरो रामः सर्वभूतहिते रतः
चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः ॥

213.129

रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने
पूर्वोदिता तु या लक्ष्मीर् भर्तारम् अनुगच्छति ॥

213.130

जनस्थाने वसन् कार्यं त्रिदशानां चकार सः
तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥

213.131

सीतायाः पदम् अन्विच्छन् निजघान महायशाः
देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥

213.132

यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम्
युक्तं राक्षसकोटीभिर् नीलाञ्जनचयोपमम् ॥

213.133

त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम्
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥

213.134

दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम्
जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥

213.135

महाभ्रगणसंकाशं महाकायं महाबलम्
रावणं निजघानाशु रामो भूतपतिः पुरा ॥

213.136

सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः
वाली विनिहतः संख्ये सुग्रीवश् चाभिषेचितः ॥

213.137

मधोश् च तनयो दृप्तो लवणो नाम दानवः
हतो मधुवने वीरो वरमत्तो महासुरः ॥

213.138

यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम्
मारीचश् च सुबाहुश् च बलेन बलिनां वरौ ॥

213.139

निहतौ च निराशौ च कृतौ तेन महात्मना
समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥

213.140

विराधश् च कबन्धश् च राक्षसौ भीमविक्रमौ
जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ ॥

213.141

हुताशनार्कांशुतडिद्गुणाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः
महेन्द्रवज्राशनितुल्यसारै रिपून् स रामः समरे निजघ्ने

213.142

तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता
वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैर् अपि ॥

213.143

वर्तमाने मखे येन जनकस्य महात्मनः
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥

213.144

एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः
दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान् ॥

213.145

नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ
न वित्तहरणं चासीद् रामे राज्यं प्रशासति ॥

213.146

परिदेवन्ति विधवा नानर्थाश् च कदाचन
सर्वम् आसीच् छुभं तत्र रामे राज्यं प्रशासति ॥

213.147

न प्राणिनां भयं चासीज् जलाग्न्यनिलघातजम्
न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥

213.148

ब्रह्मचर्यपरं क्षत्रं विशस् तु क्षत्रिये रताः
शूद्राश् चैव हि वर्णांस् त्रीञ् शुश्रूषन्त्य् अनहंकृताः ॥

213.149

नार्यो नात्यचरन् भर्तॄन् भार्यां नात्यचरत् पतिः
सर्वम् आसीज् जगद् दान्तं निर्दस्युर् अभवन् मही ॥

213.150

राम एको ऽभवद् भर्ता रामः पालयिताभवत्
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥

213.151

अरोगाः प्राणिनश् चासन् रामे राज्यं प्रशासति
देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः ॥

213.152

पृथिव्यां समवायो ऽभूद् रामे राज्यं प्रशासति
गाथाम् अप्य् अत्र गायन्ति ये पुराणविदो जनाः ॥

213.153

रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥

213.154

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः
दश वर्षसहस्राणि रामो राज्यम् अकारयत् ॥

213.155

ऋक्सामयजुषां घोषो ज्याघोषश् च महात्मनः
अव्युच्छिन्नो ऽभवद् राष्ट्रे दीयतां भुज्यताम् इति ॥

213.156

सत्त्ववान् गुणसंपन्नो दीप्यमानः स्वतेजसा
अति चन्द्रं च सूर्यं च रामो दाशरथिर् बभौ ॥

213.157

ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः
हित्वायोध्यां दिवं यातो राघवो हि महाबलः ॥

213.158

एवम् एव महाबाहुर् इक्ष्वाकुकुलनन्दनः
रावणं सगणं हत्वा दिवम् आचक्रमे विभुः ॥

213.159

अपरः केशवस्यायं प्रादुर्भावो महात्मनः
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥

213.160

यत्र शाल्वं च चैद्यं च कंसं द्विविदम् एव च
अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥

213.161

नागं कुवलयापीडं चाणूरं मुष्टिकं तथा
दैत्यान् मानुषदेहेन सूदयाम् आस वीर्यवान् ॥

213.162

छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः
नरकश् च हतः संख्ये यवनश् च महाबलः ॥

213.163

हृतानि च महीपानां सर्वरत्नानि तेजसा
दुराचाराश् च निहिताः पार्थिवा ये महीतले ॥

213.164

एष लोकहितार्थाय प्रादुर्भावो महात्मनः
कल्की विष्णुयशा नाम शम्भलग्रामसंभवः ॥

213.165

सर्वलोकहितार्थाय भूयो देवो महायशाः
एते चान्ये च बहवो दिव्या देवगणैर् वृताः ॥

213.166

प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः
यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥

213.167

पुराणं वर्तते यत्र वेदश्रुतिसमाहितम्
एतद् उद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥

213.168

कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर् विभोः
प्रीयन्ते पितरस् तस्य प्रादुर्भावानुकीर्तनात् ॥

213.169

विष्णोर् अमितवीर्यस्य यः शृणोति कृताञ्जलिः ॥

213.170

एताश् च योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः
ऋद्धिं समृद्धिं विपुलांश् च भोगान् प्राप्नोति शीघ्रं भगवत्प्रसादात्

213.171

एवं मया मुनिश्रेष्ठा विष्णोर् अमिततेजसः
सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc