भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 210

210.1

एवं दैत्यवधं कृष्णो बलदेवसहायवान्
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥

210.2

क्षितेश् च भारं भगवान् फाल्गुनेन समं विभुः
अवतारयाम् आस हरिः समस्ताक्षौहिणीवधात् ॥

210.3

कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान्
शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम् ॥

210.4

उत्सृज्य द्वारकां कृष्णस् त्यक्त्वा मानुष्यम् आत्मभूः
स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर् निजम् ॥

210.5

स विप्रशापव्याजेन संजह्रे स्वकुलं कथम्
कथं च मानुषं देहम् उत्ससर्ज जनार्दनः ॥

210.6

विश्वामित्रस् तथा कण्वो नारदश् च महामुनिः
पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥

210.7

ततस् ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः
साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा
प्रसृतास् तान् मुनीन् ऊचुः प्रणिपातपुरःसरम् ॥

210.8

इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥

210.9

दिव्यज्ञानोपपन्नास् ते विप्रलब्धा कुमारकैः
शापं ददुस् तदा विप्रास् तेषां नाशाय सुव्रताः ॥

210.10

मुनयः कुपिताः प्रोचुर् मुशलं जनयिष्यति
येनाखिलकुलोत्सादो यादवानां भविष्यति ॥

210.11

इत्य् उक्तास् तैः कुमारास् त आचचक्षुर् यथातथम्
उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥

210.12

तद् उग्रसेनो मुशलम् अयश्चूर्णम् अकारयत्
जज्ञे तच् चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥

210.13

मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर् द्विजाः
खण्डं चूर्णयितुं शेकुर् नैव ते तोमराकृति ॥

210.14

तद् अप्य् अम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः
घातितस्योदरात् तस्य लुब्धो जग्राह तज् जरा ॥

210.15

विज्ञातपरमार्थो ऽपि भगवान् मधुसूदनः
नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम् ॥

210.16

देवैश् च प्रहितो दूतः प्रणिपत्याह केशवम्
रहस्य् एवम् अहं दूतः प्रहितो भगवन् सुरैः ॥

210.17

वस्वश्विमरुदादित्य रुद्रसाध्यादिभिः सह
विज्ञापयति वः शक्रस् तद् इदं श्रूयतां प्रभो ॥

210.18

भारावतरणार्थाय वर्षाणाम् अधिकं शतम्
भगवान् अवतीर्णो ऽत्र त्रिदशैः संप्रसादितः ॥

210.19

दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः
त्वया सनाथास् त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥

210.20

तद् अतीतं जगन्नाथ वर्षाणाम् अधिकं शतम्
इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥

210.21

देवैर् विज्ञापितो देवो ऽप्य् अथात्रैव रतिस् तव
तत् स्थीयतां यथाकालम् आख्येयम् अनुजीविभिः ॥

210.22

यत् त्वम् आत्थाखिलं दूत वेद्मि चैतद् अहं पुनः
प्रारब्ध एव हि मया यादवानाम् अपि क्षयः ॥

210.23

भुवो नामातिभारो ऽयं यादवैर् अनिबर्हितैः
अवतारं करोम्य् अस्य सप्तरात्रेण सत्वरः ॥

210.24

यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः
यादवान् उपसंहृत्य यास्यामि त्रिदशालयम् ॥

210.25

मनुष्यदेहम् उत्सृज्य संकर्षणसहायवान्
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥

210.26

जरासंधादयो ये ऽन्ये निहता भारहेतवः
क्षितेस् तेभ्यः स भारो हि यदूनां समधीयत ॥

210.27

तद् एतत् सुमहाभारम् अवतार्य क्षितेर् अहम्
यास्याम्य् अमरलोकस्य पालनाय ब्रवीहि तान् ॥

210.28

इत्य् उक्तो वासुदेवेन देवदूतः प्रणम्य तम्
द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥

210.29

भगवान् अप्य् अथोत्पातान् दिव्यान् भौमान्तरिक्षगान्
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥

210.30

तान् दृष्ट्वा यादवान् आह पश्यध्वम् अतिदारुणान्
महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम् ॥

210.31

महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥

210.32

भगवन् यन् मया कार्यं तद् आज्ञापय सांप्रतम्
मन्ये कुलम् इदं सर्वं भगवान् संहरिष्यति
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥

210.33

गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया
बदरीम् आश्रमं पुण्यं गन्धमादनपर्वते ॥

210.34

नरनारायणस्थाने पवित्रितमहीतले
मन्मना मत्प्रसादेन तत्र सिद्धिम् अवाप्स्यसि ॥

210.35

अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम्
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥

210.36

इत्य् उक्तः प्रणिपत्यैनं जगाम स तदोद्धवः
नरनारायणस्थानं केशवेनानुमोदितः ॥

210.37

ततस् ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान्
प्रभासं प्रययुः सार्धं कृष्णरामादिभिर् द्विजाः ॥

210.38

प्राप्य प्रभासं प्रयता प्रीतास् ते कुक्कुरान्धकाः
चक्रुस् तत्र सुरापानं वासुदेवानुमोदिताः ॥

210.39

पिबतां तत्र वै तेषां संघर्षेण परस्परम्
यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥

210.40

जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात् कृताः
क्षीणशस्त्रास् तु जगृहुः प्रत्यासन्नाम् अथैरकाम् ॥

210.41

एरका तु गृहीता तैर् वज्रभूतेव लक्ष्यते
तया परस्परं जघ्नुः संप्रहारैः सुदारुणैः ॥

210.42

प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः
अनिरुद्धादयश् चान्ये पृथुर् विपृथुर् एव च ॥

210.43

चारुवर्मा सुचारुश् च तथाक्रूरादयो द्विजाः
एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम् ॥

210.44

निवारयाम् आस हरिर् यादवास् ते च केशवम्
सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥

210.45

कृष्णो ऽपि कुपितस् तेषाम् एरकामुष्टिम् आददे
वधाय तेषां मुशलं मुष्टिलोहम् अभूत् तदा ॥

210.46

जघान तेन निःशेषान् आततायी स यादवान्
जघ्नुश् च सहसाभ्येत्य तथान्ये तु परस्परम् ॥

210.47

ततश् चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः
पश्यतो दारुकस्याशु हृतो ऽश्वैर् द्विजसत्तमाः ॥

210.48

चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खो ऽसिर् एव च
प्रदक्षिणं ततः कृत्वा जग्मुर् आदित्यवर्त्मना ॥

210.49

क्षणमात्रेण वै तत्र यादवानाम् अभूत् क्षयः
ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥

210.50

चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम्
ददृशाते मुखाच् चास्य निष्क्रामन्तं महोरगम् ॥

210.51

निष्क्रम्य स मुखात् तस्य महाभोगो भुजंगमः
प्रयातश् चार्णवं सिद्धैः पूज्यमानस् तथोरगैः ॥

210.52

तम् अर्घ्यम् आदाय तदा जलधिः संमुखं ययौ
प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥

210.53

इदं सर्वं त्वम् आचक्ष्व वसुदेवोग्रसेनयोः
निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥

210.54

योगे स्थित्वाहम् अप्य् एतत् परित्यज्य कलेवरम्
वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः ॥

210.55

यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति
तस्माद् रथैः सुसज्जैस् तु प्रतीक्ष्यो ह्य् अर्जुनागमः ॥

210.56

न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे
तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥

210.57

गत्वा च ब्रूहि कौन्तेयम् अर्जुनं वचनं मम
पालनीयस् त्वया शक्त्या जनो ऽयं मत्परिग्रहः ॥

210.58

इत्य् अर्जुनेन सहितो द्वारवत्यां भवाञ् जनम्
गृहीत्वा यातु वज्रश् च यदुराजो भविष्यति ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc