भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 209

209.1

शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः
कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः ॥

209.2

नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः
सखाभवन् महावीर्यो द्विविदो नाम वानरः ॥

209.3

वैरानुबन्धं बलवान् स चकार सुरान् प्रति ॥

209.4

नरकं हतवान् कृष्णो बलदर्पसमन्वितम्
करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम् ॥

209.5

यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा
ततो विध्वंसयाम् आस यज्ञान् अज्ञानमोहितः ॥

209.6

बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम्
ददाह चपलो देशं पुरग्रामान्तराणि च ॥

209.7

क्वचिच् च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत्
शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥

209.8

पुनश् चार्णवमध्यस्थः क्षोभयाम् आस सागरम्
तेनातिक्षोभितश् चाब्धिर् उद्वेलो जायते द्विजाः ॥

209.9

प्लावयंस् तीरजान् ग्रामान् पुरादीन् अतिवेगवान्
कामरूपं महारूपं कृत्वा सस्यान्य् अनेकशः ॥

209.10

लुठन् भ्रमणसंमर्दैः संचूर्णयति वानरः
तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना ॥

209.11

निःस्वाध्यायवषट्कारं द्विजाश् चासीत् सुदुःखितम्
कदाचिद् रैवतोद्याने पपौ पानं हलायुधः ॥

209.12

रेवती च महाभागा तथैवान्या वरस्त्रियः
उद्गीयमानो विलसल् ललनामौलिमध्यगः ॥

209.13

रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे
ततः स वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥

209.14

मुशलं च चकारास्य संमुखः स विडम्बनाम्
तथैव योषितां तासां जहासाभिमुखं कपिः ॥

209.15

पानपूर्णांश् च करकांश् चिक्षेपाहत्य वै तदा
ततः कोपपरीतात्मा भर्त्सयाम् आस तं बलम् ॥

209.16

तथापि तम् अवज्ञाय चक्रे किलकिलाध्वनिम्
ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥

209.17

सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः
चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥

209.18

बिभेद यादवश्रेष्ठः सा पपात महीतले
अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवंगमः ॥

209.19

वेगेनायम्य रोषेण बलेनोरस्य् अताडयत्
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥

209.20

पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः
पतता तच्छरीरेण गिरेः शृङ्गम् अशीर्यत ॥

209.21

मुनयः शतधा वज्रि वज्रेणेव हि ताडितम्
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥

209.22

प्रशशंसुस् तदाभ्येत्य साध्व् एतत् ते महत् कृतम्
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा
जगन् निराकृतं वीर दिष्ट्या स क्षयम् आगतः ॥

209.23

एवंविधान्य् अनेकानि बलदेवस्य धीमतः
कर्माण्य् अपरिमेयानि शेषस्य धरणीभृतः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc