भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 208

208.1

श्रोतुम् इच्छामहे भूयो बलभद्रस्य धीमतः
मुने पराक्रमं शौर्यं तन् नो व्याख्यातुम् अर्हसि ॥

208.2

यमुनाकर्षणादीनि श्रुतान्य् अस्माभिर् अत्र वै
तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः ॥

208.3

शृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम्
अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥

208.4

दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम्
बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः ॥

208.5

ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः
भीष्मद्रोणादयश् चैव बबन्धुर् युधि निर्जितम् ॥

208.6

तच् छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु
मुनयः प्रतिचक्रुश् च तान् विहन्तुं महोद्यमम् ॥

208.7

तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम्
मोक्ष्यन्ति ते मद्वचनाद् यास्याम्य् एको हि कौरवान् ॥

208.8

बलदेवस् ततो गत्वा नगरं नागसाह्वयम्
बाह्योपवनमध्ये ऽभून् न विवेश च तत् पुरम् ॥

208.9

बलम् आगतम् आज्ञाय तदा दुर्योधनादयः
गाम् अर्घम् उदकं चैव रामाय प्रत्यवेदयन्
गृहीत्वा विधिवत् सर्वं ततस् तान् आह कौरवान् ॥

208.10

आज्ञापयत्य् उग्रसेनः साम्बम् आशु विमुञ्चत ॥

208.11

ततस् तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः
कर्णदुर्योधनाद्याश् च चुक्रुधुर् द्विजसत्तमाः ॥

208.12

ऊचुश् च कुपिताः सर्वे बाह्लिकाद्याश् च भूमिपाः
अराजार्हं यदोर् वंशम् अवेक्ष्य मुशलायुधम् ॥

208.13

भो भोः किम् एतद् भवता बलभद्रेरितं वचः
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥

208.14

उग्रसेनो ऽपि यद्य् आज्ञां कौरवाणां प्रदास्यति
तद् अलं पाण्डुरैश् छत्त्रैर् नृपयोग्यैर् अलंकृतैः ॥

208.15

तद् गच्छ बलभद्र त्वं साम्बम् अन्यायचेष्टितम्
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥

208.16

प्रणतिर् या कृतास्माकं मान्यानां कुकुरान्धकैः
न नाम सा कृता केयम् आज्ञा स्वामिनि भृत्यतः ॥

208.17

गर्वम् आरोपिता यूयं समानासनभोजनैः
को दोषो भवतां नीतिर् यत् प्रीणात्य् अनपेक्षिता ॥

208.18

अस्माभिर् अर्च्यो भवता यो ऽयं बल निवेदितः
प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम् ॥

208.19

इत्य् उक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम्
कृतैकनिश्चयाः सर्वे विविशुर् गजसाह्वयम् ॥

208.20

मत्तः कोपेन चाघूर्णं ततो ऽधिक्षेपजन्मना
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥

208.21

ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः
आस्फोटयाम् आस तदा दिशः शब्देन पूरयन्
उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥

208.22

अहो महावलेपो ऽयम् असाराणां दुरात्मनाम्
कौरवाणाम् आधिपत्यम् अस्माकं किल कालजम् ॥

208.23

उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्य् अलङ्घनाम्
आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः ॥

208.24

सदाध्यास्ते सुधर्मां ताम् उग्रसेनः शचीपतेः
धिङ् मनुष्यशतोच्छिष्टे तुष्टिर् एषां नृपासने ॥

208.25

पारिजाततरोः पुष्प मञ्जरीर् वनिताजनः
बिभर्ति यस्य भृत्यानां सो ऽप्य् एषां न महीपतिः ॥

208.26

समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु
अद्य निष्कौरवाम् उर्वीं कृत्वा यास्यामि तां पुरीम् ॥

208.27

कर्णं दुर्योधनं द्रोणम् अद्य भीष्मं सबाह्लिकम्
दुःशासनादीन् भूरिं च भूरिश्रवसम् एव च ॥

208.28

सोमदत्तं शलं भीमम् अर्जुनं सयुधिष्ठिरम्
यमजौ कौरवांश् चान्यान् हन्यां साश्वरथद्विपान् ॥

208.29

वीरम् आदाय तं साम्बं सपत्नीकं ततः पुरीम्
द्वारकाम् उग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ॥

208.30

अथवा कौरवादीनां समस्तैः कुरुभिः सह
भारावतरणे शीघ्रं देवराजेन चोदितः ॥

208.31

भागीरथ्यां क्षिपाम्य् आशु नगरं नागसाह्वयम् ॥

208.32

इत्य् उक्त्वा क्रोधरक्ताक्षस् तालाङ्को ऽधोमुखं हलम्
प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥

208.33

आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम्
दृष्ट्वा संक्षुब्धहृदयाश् चुक्रुशुः सर्वकौरवाः ॥

208.34

राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया
उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥

208.35

एष साम्बः सपत्नीकस् तव निर्यातितो बल
अविज्ञातप्रभावाणां क्षम्यताम् अपराधिनाम् ॥

208.36

ततो निर्यातयाम् आसुः साम्बं पत्न्या समन्वितम्
निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥

208.37

भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम्
क्षान्तम् एव मयेत्य् आह बलो बलवतां वरः ॥

208.38

अद्याप्य् आघूर्णिताकारं लक्ष्यते तत् पुरं द्विजाः
एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥

208.39

ततस् तु कौरवाः साम्बं संपूज्य हलिना सह
प्रेषयाम् आसुर् उद्वाह धनभार्यासमन्वितम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc