ब्रह्म पुराण · अध्याय 207
चक्रे कर्म महच् छौरिर् बिभ्रद् यो मानुषीं तनुम्
जिगाय शक्रं शर्वं च सर्वदेवांश् च लीलया ॥
यच् चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत्
कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः ॥
गदतो मे मुनिश्रेष्ठाः श्रूयताम् इदम् आदरात्
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥
पौण्ड्रको वासुदेवश् च वासुदेवो ऽभवद् भुवि
अवतीर्णस् त्वम् इत्य् उक्तो जनैर् अज्ञानमोहितैः ॥
स मेने वासुदेवो ऽहम् अवतीर्णो महीतले
नष्टस्मृतिस् ततः सर्वं विष्णुचिह्नम् अचीकरत्
दूतं च प्रेषयाम् आस स कृष्णाय द्विजोत्तमाः ॥
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः
वासुदेवात्मकं मूढ मुक्त्वा सर्वम् अशेषतः ॥
आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥
इत्य् उक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥
निजचिह्नम् अहं चक्रं समुत्स्रक्ष्ये त्वयीति वै
वाच्यश् च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥
ज्ञातस् त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम्
गृहीतचिह्न एवाहम् आगमिष्यामि ते पुरम् ॥
उत्स्रक्ष्यामि च ते चक्रं निजचिह्नम् असंशयम्
आज्ञापूर्वं च यद् इदम् आगच्छेति त्वयोदितम् ॥
संपादयिष्ये श्वस् तुभ्यं तद् अप्य् एषो ऽविलम्बितम्
शरणं ते समभ्येत्य कर्तास्मि नृपते तथा
यथा त्वत्तो भयं भूयो नैव किंचिद् भविष्यति ॥
इत्य् उक्ते ऽपगते दूते संस्मृत्याभ्यागतं हरिः
गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥
तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस् तदा
सर्वसैन्यपरीवार पार्ष्णिग्राहम् उपाययौ ॥
ततो बलेन महता काशिराजबलेन च
पौण्ड्रको वासुदेवो ऽसौ केशवाभिमुखं ययौ ॥
तं ददर्श हरिर् दूराद् उदारस्यन्दने स्थितम्
चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥
स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम्
वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥
किरीटकुण्डलधरं पीतवासःसमन्वितम्
दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥
युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः
निस्त्रिंशर्ष्टिगदाशूल शक्तिकार्मुकशालिना ॥
क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अग्निविदारणैः
गदाचक्रातिपातैश् च सूदयाम् आस तद्बलम् ॥
काशिराजबलं चैव क्षयं नीत्वा जनार्दनः
उवाच पौण्ड्रकं मूढम् आत्मचिह्नोपलक्षणम् ॥
पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति
समुत्सृजेति चिह्नानि तत् ते संपादयाम्य् अहम् ॥
चक्रम् एतत् समुत्सृष्टं गदेयं ते विसर्जिता
गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम् ॥
इत्य् उच्चार्य विमुक्तेन चक्रेणासौ विदारितः
पोथितो गदया भग्नो गरुत्मांश् च गरुत्मता ॥
ततो हाहाकृते लोके काशीनाम् अधिपस् तदा
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥
ततः शार्ङ्गविनिर्मुक्तैश् छित्त्वा तस्य शरैः शिरः
काशिपुर्यां स चिक्षेप कुर्वंल् लोकस्य विस्मयम् ॥
हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम्
रेमे द्वारवतीं प्राप्तो ऽमरः स्वर्गगतो यथा ॥
तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे
जनः किम् एतद् इत्य् आह केनेत्य् अत्यन्तविस्मितः ॥
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस् ततः
पुरोहितेन सहितस् तोषयाम् आस शंकरम् ॥
अविमुक्ते महाक्षेत्रे तोषितस् तेन शंकरः
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥
स वव्रे भगवन् कृत्या पितुर् हन्तुर् वधाय मे
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर ॥
एवं भविष्यतीत्य् उक्ते दक्षिणाग्नेर् अनन्तरम्
महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥
ततो ज्वालाकरालास्या ज्वलत्केशकलापिका
कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥
ताम् अवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम्
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥
काशिराजसुतेनेयम् आराध्य वृषभध्वजम्
उत्पादिता महाकृत्या वधाय तव चक्रिणः
जहि कृत्याम् इमाम् उग्रां वह्निज्वालाजटाकुलाम् ॥
चक्रम् उत्सृष्टम् अक्षेषु क्रीडासक्तेन लीलया
तद् अग्निमालाजटिलं ज्वालोद्गारातिभीषणम् ॥
कृत्याम् अनुजगामाशु विष्णुचक्रं सुदर्शनम्
ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥
जगाम वेगिनी वेगात् तद् अप्य् अनुजगाम ताम्
कृत्या वाराणसीम् एव प्रविवेश त्वरान्विता ॥
विष्णुचक्रप्रतिहत प्रभावा मुनिसत्तमाः
ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ
शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद् बलम् ओजसा ॥
कृत्वाक्षेमाम् अशेषां तां पुरीं वाराणसीं ययौ
प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥
अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैर् अपि
ज्वालापरिवृताशेष गृहप्राकारतोरणाम् ॥
ददाह तां पुरीं चक्रं सकलाम् एव सत्वरम्
अक्षीणामर्षम् अत्यल्प साध्यसाधननिस्पृहम्
तच् चक्रं प्रस्फुरद्दीप्ति विष्णोर् अभ्याययौ करम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0