ब्रह्म पुराण · अध्याय 206
बाणो ऽपि प्रणिपत्याग्रे ततश् चाह त्रिलोचनम् ॥
देव बाहुसहस्रेण निर्विण्णो ऽहं विनाहवम्
कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥
मयूरध्वजभङ्गस् ते यदा बाण भविष्यति
पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥
ततः प्रणम्य मुदितः शंभुम् अभ्यागतो गृहात्
भग्नं ध्वजम् अथालोक्य हृष्टो हर्षं परं ययौ ॥
एतस्मिन्न् एव काले तु योगविद्याबलेन तम्
अनिरुद्धम् अथानिन्ये चित्रलेखा वरा सखी ॥
कन्यान्तःपुरमध्ये तं रममाणं सहोषया
विज्ञाय रक्षिणो गत्वा शशंसुर् दैत्यभूपतेः ॥
व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना
जघान परिघं लौहम् आदाय परवीरहा ॥
हतेषु तेषु बाणो ऽपि रथस्थस् तद्वधोद्यतः
युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥
मायया युयुधे तेन स तदा मन्त्रचोदितः
ततश् च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥
द्वारवत्यां क्व यातो ऽसाव् अनिरुद्धेति जल्पताम्
यदूनाम् आचचक्षे तं बद्धं बाणेन नारदः ॥
तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया
योषिता प्रत्ययं जग्मुर् यादवा नाम वैरिति ॥
ततो गरुडम् आरुह्य स्मृतमात्रागतं हरिः
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥
पुरीप्रवेशे प्रमथैर् युद्धम् आसीन् महाबलैः
ययौ बाणपुराभ्याशं नीत्वा तान् संक्षयं हरिः ॥
ततस् त्रिपादस् त्रिशिरा ज्वरो माहेश्वरो महान्
बाणरक्षार्थम् अत्यर्थं युयुधे शार्ङ्गधन्वना ॥
तद्भस्मस्पर्शसंभूत तापं कृष्णाङ्गसंगमात्
अवाप बलदेवो ऽपि समं संमीलितेक्षणः ॥
ततः संयुध्यमानस् तु सह देवेन शार्ङ्गिणा
वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः ॥
नारायणभुजाघात परिपीडनविह्वलम्
तं वीक्ष्य क्षम्यताम् अस्येत्य् आह देवः पितामहः ॥
ततश् च क्षान्तम् एवेति प्रोच्य तं वैष्णवं ज्वरम्
आत्मन्य् एव लयं निन्ये भगवान् मधुसूदनः ॥
मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः
विज्वरास् ते भविष्यन्तीत्य् उक्त्वा चैनं ययौ हरिः ॥
ततो ऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा
दानवानां बलं विष्णुश् चूर्णयाम् आस लीलया ॥
ततः समस्तसैन्येन दैतेयानां बलेः सुतः
युयुधे शंकरश् चैव कार्त्तिकेयश् च शौरिणा ॥
हरिशंकरयोर् युद्धम् अतीवासीत् सुदारुणम्
चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर् बहुधार्दिताः ॥
प्रलयो ऽयम् अशेषस्य जगतो नूनम् आगतः
मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥
जृम्भणास्त्रेण गोविन्दो जृम्भयाम् आस शंकरम्
ततः प्रणेशुर् दैतेयाः प्रमथाश् च समन्ततः ॥
जृम्भाभिभूतश् च हरो रथोपस्थम् उपाविशत्
न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥
गरुडक्षतबाहुश् च प्रद्युम्नास्त्रेण पीडितः
कृष्णहुंकारनिर्धूत शक्तिश् चापययौ गुहः ॥
जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥
नन्दीशसंगृहीताश्वम् अधिरूढो महारथम्
बाणस् तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥
बलभद्रो महावीर्यो बाणसैन्यम् अनेकधा
विव्याध बाणैः प्रद्युम्नो धर्मतश् चापलायतः ॥
आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम्
बलं बलेन ददृशे बाणो बाणैश् च चक्रिणः ॥
ततः कृष्णस्य बाणेन युद्धम् आसीत् समासतः
परस्परं तु संदीप्तान् कायत्राणविभेदिनः ॥
कृष्णश् चिच्छेद बाणांस् तान् बाणेन प्रहिताञ् शरैः
बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥
मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया
परस्परक्षतिपरौ परिघांश् च ततो द्विजाः ॥
छिद्यमानेष्व् अशेषेषु शस्त्रेष्व् अस्त्रे च सीदति
प्राचुर्येण हरिर् बाणं हन्तुं चक्रे ततो मनः ॥
ततो ऽर्कशतसंभूत तेजसा सदृशद्युति
जग्राह दैत्यचक्रारिर् हरिश् चक्रं सुदर्शनम् ॥
मुञ्चतो बाणनाशाय तच् चक्रं मधुविद्विषः
नग्ना दैतेयविद्याभूत् कोटरी पुरतो हरेः ॥
ताम् अग्रतो हरिर् दृष्ट्वा मीलिताक्षः सुदर्शनम्
मुमोच बाणम् उद्दिश्य छेत्तुं बाहुवनं रिपोः ॥
क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम्
छेदं चक्रे ऽसुरस्याशु शस्त्रास्त्रक्षेपणाद् द्रुतम् ॥
छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः
मुमुक्षुर् बाणनाशाय विज्ञातस् त्रिपुरद्विषा ॥
स उत्पत्याह गोविन्दं सामपूर्वम् उमापतिः
विलोक्य बाणं दोर्दण्ड च्छेदासृक्स्राववर्षिणम् ॥
कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम्
परेशं परमात्मानम् अनादिनिधनं परम् ॥
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका
लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥
तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो
तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः ॥
अस्मत्संश्रयवृद्धो ऽयं नापराधस् तवाव्यय
मया दत्तवरो दैत्यस् ततस् त्वां क्षमयाम्य् अहम् ॥
इत्य् उक्तः प्राह गोविन्दः शूलपाणिम् उमापतिम्
प्रसन्नवदनो भूत्वा गतामर्षो ऽसुरं प्रति ॥
युष्मद्दत्तवरो बाणो जीवताद् एष शंकर
त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम् ॥
त्वया यद् अभयं दत्तं तद् दत्तम् अभयं मया
मत्तो ऽविभिन्नम् आत्मानं द्रष्टुम् अर्हसि शंकर ॥
यो ऽहं स त्वं जगच् चेदं सदेवासुरमानुषम्
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥
इत्य् उक्त्वा प्रययौ कृष्णः प्राद्युम्निर् यत्र तिष्ठति
तद्बन्धफणिनो नेशुर् गरुडानिलशोषिताः ॥
ततो ऽनिरुद्धम् आरोप्य सपत्नीकं गरुत्मति
आजग्मुर् द्वारकां राम कार्ष्णिदामोदराः पुरीम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0