भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 205

205.1

प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः
भान्वादिकांश् च वै पुत्रान् सत्यभामा व्यजायत ॥

205.2

दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास् तनया हरेः
बभूवुर् जाम्बवत्याश् च साम्बाद्या बाहुशालिनः ॥

205.3

तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः
संग्रामजित्प्रधानास् तु शैब्यायां चाभवन् सुताः ॥

205.4

वृकाद्यास् तु सुता माद्री गात्रवत्प्रमुखान् सुतान्
अवाप लक्ष्मणा पुत्रान् कालिन्द्याश् च श्रुतादयः ॥

205.5

अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥

205.6

प्रद्युम्नः प्रमुखस् तेषां रुक्मिण्यास् तु सुतस् ततः
प्रद्युम्नाद् अनिरुद्धो ऽभूद् वज्रस् तस्माद् अजायत ॥

205.7

अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः
बाणस्य तनयाम् ऊषाम् उपयेमे द्विजोत्तमाः ॥

205.8

यत्र युद्धम् अभूद् घोरं हरिशंकरयोर् महत्
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥

205.9

कथं युद्धम् अभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः
कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः ॥

205.10

एतत् सर्वं महाभाग वक्तुम् अर्हसि नो ऽखिलम्
महत् कौतूहलं जातं श्रोतुम् एतां कथां शुभाम् ॥

205.11

उषा बाणसुता विप्राः पार्वतीं शंभुना सह
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम्
ततः सकलचित्तज्ञा गौरी ताम् आह भामिनीम् ॥

205.12

अलम् इत्य् अनुतापेन भर्त्रा त्वम् अपि रंस्यसे ॥

205.13

इत्य् उक्ता सा तदा चक्रे कदेति मतिम् आत्मनः
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ॥

205.14

वैशाखे शुक्लद्वादश्यां स्वप्ने यो ऽभिभवं तव
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥

205.15

तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा
ततः प्रबुद्धा पुरुषम् अपश्यन्ती तम् उत्सुका ॥

205.16

क्व गतो ऽसीति निर्लज्जा द्विजाश् चोक्तवती सखीम्
बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा तु तत्सुता ॥

205.17

तस्याः सख्य् अभवत् सा च प्राह को ऽयं त्वयोच्यते
यदा लज्जाकुला नास्य कथयाम् आस सा सखी ॥

205.18

तदा विश्वासम् आनीय सर्वम् एवान्ववेदयत्
विदितायां तु ताम् आह पुनर् ऊषा यथोदितम्
देव्या तथैव तत्प्राप्तौ यो ऽभ्युपायः कुरुष्व तम् ॥

205.19

ततः पटे सुरान् दैत्यान् गन्धर्वांश् च प्रधानतः
मनुष्यांश् चाभिलिख्यासौ चित्रलेखाप्य् अदर्शयत् ॥

205.20

अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान्
मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु ॥

205.21

कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जायतेक्षणा
प्रद्युम्नदर्शने व्रीडा दृष्टिं निन्ये ततो द्विजाः ॥

205.22

दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता
सो ऽयं सो ऽयं ममेत्य् उक्ते तया सा योगगामिनी
ययौ द्वारवतीम् ऊषां समाश्वास्य ततः सखी ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc