ब्रह्म पुराण · अध्याय 204
संस्तुतो भगवान् इत्थं देवराजेन केशवः
प्रहस्य भावगम्भीरम् उवाचेदं द्विजोत्तमाः ॥
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते
क्षन्तव्यं भवतैवैतद् अपराधकृतं मम ॥
पारिजाततरुश् चायं नीयताम् उचितास्पदम्
गृहीतो ऽयं मया शक्र सत्यावचनकारणात् ॥
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया
तवैवैतत् प्रहरणं शक्र वैरिविदारणम् ॥
विमोहयसि माम् ईश मर्त्यो ऽहम् इति किं वदन्
जानीमस् त्वां भगवतो ऽनन्तसौख्यविदो वयम् ॥
यो ऽसि सो ऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः
जगतः शल्यनिष्कर्षं करोष्य् असुरसूदन ॥
नीयतां पारिजातो ऽयं कृष्ण द्वारवतीं पुरीम्
मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥
तथेत्य् उक्त्वा तु देवेन्द्रम् आजगाम भुवं हरिः
प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस् त्व् अथर्षिभिः ॥
जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम्
ततः शङ्खम् उपाध्माय द्वारकोपरि संस्थितः ॥
हर्षम् उत्पादयाम् आस द्वारकावासिनां द्विजाः
अवतीर्याथ गरुडात् सत्यभामासहायवान् ॥
निष्कुटे स्थापयाम् आस पारिजातं महातरुम्
यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम्
ततस् ते यादवाः सर्वे देवगन्धान् अमानुषान् ॥
ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम्
किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥
स्त्रियश् च कृष्णो जग्राह नरकस्य परिग्रहात्
ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥
ताः कन्या नरकावासात् सर्वतो याः समाहृताः
एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः ॥
जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः
षोडश स्त्रीसहस्राणि शतम् एकं तथाधिकम् ॥
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः
एकैकशश् च ताः कन्या मेनिरे मधुसूदनम् ॥
ममैव पाणिग्रहणं गोविन्दः कृतवान् इति
निशासु जगतः स्रष्टा तासां गेहेषु केशवः
उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0