ब्रह्म पुराण · अध्याय 203
गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम्
सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥
ततः शङ्खम् उपाध्माय स्वर्गद्वारं गतो हरिः
उपतस्थुस् ततो देवाः सार्घपात्रा जनार्दनम् ॥
स देवैर् अर्चितः कृष्णो देवमातुर् निवेशनम्
सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम् ॥
स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥
ततः प्रीता जगन्माता धातारं जगतां हरिम्
तुष्टावादितिर् अव्यग्रं कृत्वा तत्प्रवणं मनः ॥
नमस् ते पुण्डरीकाक्ष भक्तानाम् अभयंकर
सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन ॥
प्रणेतर् मनसो बुद्धेर् इन्द्रियाणां गुणात्मक
सितदीर्घादिनिःशेष कल्पनापरिवर्जित ॥
जन्मादिभिर् असंस्पृष्ट स्वप्नादिवारिवर्जितः
संध्या रात्रिर् अहर् भूमिर् गगनं वायुर् अम्बु च ॥
हुताशनो मनो बुद्धिर् भूतादिस् त्वं तथाच्युत
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर् भवान् ॥
ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वरः
मायाभिर् एतद् व्याप्तं ते जगत् स्थावरजङ्गमम् ॥
अनात्मन्य् आत्मविज्ञानं सा ते माया जनार्दन
अहं ममेति भावो ऽत्र यया समुपजायते ॥
संसारमध्ये मायायास् तवैतन् नाथ चेष्टितम्
यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान् ॥
ते तरन्त्य् अखिलाम् एतां मायाम् आत्मविमुक्तये
ब्रह्माद्याः सकला देवा मनुष्याः पशवस् तथा ॥
विष्णुमायामहावर्ते मोहान्धतमसावृताः
आराध्य त्वाम् अभीप्सन्ते कामान् आत्मभवक्षये ॥
पदे ते पुरुषा बद्धा मायया भगवंस् तव
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥
आराधितो न मोक्षाय मायाविलसितं हि तत्
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि ॥
जायते यद् अपुण्यानां सो ऽपराधः स्वदोषजः
तत् प्रसीदाखिलजगन् मायामोहकराव्यय ॥
अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय
नमस् ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥
गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः
एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम्
न जानामि परं यत् ते प्रसीद परमेश्वर ॥
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥
माता देवि त्वम् अस्माकं प्रसीद वरदा भव ॥
एवम् अस्तु यथेच्छा ते त्वम् अशेषसुरासुरैः
अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥
ततो ऽनन्तरम् एवास्य शक्राणीसहितां दितिम्
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥
मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यम् एव च
भविष्यत्य् अनवद्याङ्गि सर्वकामा भविष्यसि ॥
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम्
यथावत् पूजयाम् आस बहुमानपुरःसरम् ॥
ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान्
देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम्
शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥
मथ्यमाने ऽमृते जातं जातरूपसमप्रभम्
पारिजातं जगन्नाथः केशवः केशिसूदनः
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥
कस्मान् न द्वारकाम् एष नीयते कृष्ण पादपः
यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥
मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः
न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी ॥
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत् प्रियम्
सत्यं तद् यदि गोविन्द नोपचारकृतं वचः ॥
तद् अस्तु पारिजातो ऽयं मम गेहविभूषणम्
बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम्
सपत्नीनाम् अहं मध्ये शोभेयम् इति कामये ॥
इत्य् उक्तः स प्रहस्यैनं पारिजातं गरुत्मति
आरोपयाम् आस हरिस् तम् ऊचुर् वनरक्षिणः ॥
भोः शची देवराजस्य महिषी तत्परिग्रहम्
पारिजातं न गोविन्द हर्तुम् अर्हसि पादपम् ॥
शचीविभूषणार्थाय देवैर् अमृतमन्थने
उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥
मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत्
अवश्यम् अस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥
वज्रोद्यतकरं शक्रम् अनुयास्यन्ति चामराः
तद् अलं सकलैर् देवैर् विग्रहेण तवाच्युत
विपाककटु यत् कर्म न तच् छंसन्ति पण्डिताः ॥
इत्य् उक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी ॥
का शची पारिजातस्य को वा शक्रः सुराधिपः
सामान्यः सर्वलोकानां यद्य् एषो ऽमृतमन्थने ॥
समुत्पन्नः पुरा कस्माद् एको गृह्णाति वासवः
यथा सुरा यथा चेन्दुर् यथा श्रीर् वनरक्षिणः ॥
सामान्यः सर्वलोकस्य पारिजातस् तथा द्रुमः
भर्तृबाहुमहागर्वाद् रुणद्ध्य् एनम् अथो शची ॥
तत् कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम
सत्यभामा वदत्य् एवं भर्तृगर्वोद्धताक्षरम् ॥
यदि त्वं दयिता भर्तुर् यदि तस्य प्रिया ह्य् असि
मद्भर्तुर् हरतो वृक्षं तत् कारय निवारणम् ॥
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम्
पारिजातं तथाप्य् एनं मानुषी हारयामि ते ॥
इत्य् उक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर् यथोदितम्
शची चोत्साहयाम् आस त्रिदशाधिपतिं पतिम् ॥
ततः समस्तदेवानां सैन्यैः परिवृतो हरिम्
प्रवृक्तः पारिजातार्थम् इन्द्रो योधयितुं द्विजाः ॥
ततः परिघनिस्त्रिंश गदाशूलधरायुधाः
बभूवुस् त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥
ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम्
शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन्
मुमोच च शरव्रातं सहस्रायुतसंमितम् ॥
ततो दिशो नभश् चैव दृष्ट्वा शरशताचितम्
मुमुचुस् त्रिदशाः सर्वे शस्त्राण्य् अस्त्राण्य् अनेकशः ॥
एकैकम् अस्त्रं शस्त्रं च देवैर् मुक्तं सहस्रधा
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥
पाशं सलिलराजस्य समाकृष्योरगाशनः
चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत् ॥
यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम्
पृथिव्यां पातयाम् आस भगवान् देवकीसुतः ॥
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः
चकार शौरिर् अर्केन्दू दृष्टिपातहतौजसौ ॥
नीतो ऽग्निः शतशो बाणैर् द्राविता वसवो दिशः
चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥
साध्या विश्वे च मरुतो गन्धर्वाश् चैव सायकैः
शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥
गरुडश् चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः
भक्षयन्न् अहनद् देवान् दानवांश् च सदा खगः ॥
ततः शरसहस्रेण देवेन्द्रमधुसूदनौ
परस्परं ववर्षाते धाराभिर् इव तोयदौ ॥
ऐरावतेन गरुडो युयुधे तत्र संकुले
देवैः समेतैर् युयुधे शक्रेण च जनार्दनः ॥
छिन्नेषु शीर्यमाणेषु शस्त्रेष्व् अस्त्रेषु सत्वरम्
जग्राह वासवो वज्रं कृष्णश् चक्रं सुदर्शनम् ॥
ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम्
वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥
क्षिप्तं वज्रम् अथेन्द्रेण जग्राह भगवान् हरिः
न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥
प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम्
सत्यभामाब्रवीद् वाक्यं पलायनपरायणम् ॥
त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम्
पारिजातस्रगाभोगात् त्वाम् उपस्थास्यते शची ॥
कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम्
अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥
अलं शक्र प्रयासेन न व्रीडां यातुम् अर्हसि
नीयतां पारिजातो ऽयं देवाः सन्तु गतव्यथाः ॥
पतिगर्वावलेपेन बहुमानपुरःसरम्
न ददर्श गृहायाताम् उपचारेण मां शची ॥
स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तुः श्लाघनापरा
ततः कृतवती शक्र भवता सह विग्रहम् ॥
तद् अलं पारिजातेन परस्वेन हृतेन वा
रूपेण यशसा चैव भवेत् स्त्री का न गर्विता ॥
इत्य् उक्ते वै निववृते देवराजस् तया द्विजाः
प्राह चैनाम् अलं चण्डि सखि खेदातिविस्तरैः ॥
न चापि सर्गसंहार स्थितिकर्ताखिलस्य यः
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥
यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये यस्माद् यतश् च न भविष्यति सर्वभूतात्
तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य
सकलभुवनमूर्तिर् अल्पा सुसूक्ष्मा विदितसकलवेदैर् ज्ञायते यस्य नान्यैः
तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं जगदुपकृतिम् आद्यं को विजेतुं समर्थः
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0