ब्रह्म पुराण · अध्याय 200
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः
शम्बरश् च महावीर्यः प्रद्युम्नेन कथं हतः ॥
षष्ठे ऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात्
ममैष हन्तेति द्विजा हृतवान् कालशम्बरः ॥
नीत्वा चिक्षेप चैवैनं ग्राहो ऽग्रे लवणार्णवे
कल्लोलजनितावर्ते सुघोरे मकरालये ॥
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम्
न ममार च तस्यापि जठरानलदीपितः ॥
मत्स्यबन्धैश् च मत्स्यो ऽसौ मत्स्यैर् अन्यैः सह द्विजाः
घातितो ऽसुरवर्याय शम्बराय निवेदितः ॥
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी
कारयाम् आस सूदानाम् आधिपत्यम् अनिन्दिता ॥
दारिते मत्स्यजठरे ददृशे सातिशोभनम्
कुमारं मन्मथतरोर् दग्धस्य प्रथमाङ्कुरम् ॥
को ऽयं कथम् अयं मत्स्य जठरे समुपागतः
इत्य् एवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥
अयं समस्तजगतां सृष्टिसंहारकारिणा
शम्बरेण हृतः कृष्ण तनयः सूतिकागृहात् ॥
क्षिप्तः समुद्रे मत्स्येन निगीर्णस् ते वशं गतः
नररत्नम् इदं सुभ्रु विश्रब्धा परिपालय ॥
नारदेनैवम् उक्ता सा पालयाम् आस तं शिशुम्
बाल्याद् एवातिरागेण रूपातिशयमोहिता ॥
स यदा यौवनाभोग भूषितो ऽभूद् द्विजोत्तमाः
साभिलाषा तदा सा तु बभूव गजगामिनी ॥
मायावती ददौ चास्मै माया सर्वा महात्मने
प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा
प्रसज्जन्तीं तु ताम् आह स कार्ष्णिः कमललोचनः ॥
मातृभावं विहायैव किमर्थं वर्तसे ऽन्यथा ॥
सा चास्मै कथयाम् आस न पुत्रस् त्वं ममेति वै
तनयं त्वाम् अयं विष्णोर् हृतवान् कालशम्बरः ॥
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान् मया
सा तु रोदिति ते माता कान्ताद्याप्य् अतिवत्सला ॥
इत्य् उक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत्
क्रोधाकुलीकृतमना युयुधे च महाबलः ॥
हत्वा सैन्यम् अशेषं तु तस्य दैत्यस्य माधविः
सप्त माया व्यतिक्रम्य मायां संयुयुजे ऽष्टमीम् ॥
तया जघान तं दैत्यं मायया कालशम्बरम्
उत्पत्य च तया सार्धम् आजगाम पितुः पुरम् ॥
अन्तःपुरे च पतितं मायावत्या समन्वितम्
तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः
रुक्मिणी चाब्रवीत् प्रेम्णा आसक्तदृष्टिर् अनिन्दिता ॥
धन्यायाः खल्व् अयं पुत्रो वर्तते नवयौवने
अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥
सभाग्या जननी वत्स त्वया कापि विभूषिता
अथवा यादृशः स्नेहो मम यादृग् वपुश् च ते
हरेर् अपत्यं सुव्यक्तं भवान् वत्स भविष्यति ॥
एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः
अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥
एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः
हृतो येनाभवत् पूर्वं पुत्रस् ते सूतिकागृहात् ॥
इयं मायावती भार्या तनयस्यास्य ते सती
शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ॥
मन्मथे तु गते नाशं तदुद्भवपरायणा
शम्बरं मोहयाम् आस मायारूपेण रुक्मिणि ॥
विवाहाद्युपभोगेषु रूपं मायामयं शुभम्
दर्शयाम् आस दैत्यस्य तस्येयं मदिरेक्षणा ॥
कामो ऽवतीर्णः पुत्रस् ते तस्येयं दयिता रतिः
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥
ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा
नगरी च समस्ता सा साधु साध्व् इत्य् अभाषत ॥
चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम्
अवाप विस्मयं सर्वो द्वारवत्यां जनस् तदा ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0