ब्रह्म पुराण · अध्याय 201
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम्
सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥
चारुविन्दं सुचारुं च चारुं च बलिनां वरम्
रुक्मिण्य् अजनयत् पुत्रान् कन्यां चारुमतीं तथा ॥
अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥
देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी
मद्रराजसुता चान्या सुशीला शीलमण्डला ॥
सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी
षोडशात्र सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः ॥
प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस् तनयां शुभाम्
स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥
तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः
अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिंदमः ॥
तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः
दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा ॥
तस्या विवाहे रामाद्या यादवा हरिणा सह
रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विजाः ॥
विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन् ॥
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत्
तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते ॥
तथेति तान् आह नृपान् रुक्मी बलसमन्वितः
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥
सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः
द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः ॥
ततो दश सहस्राणि निष्काणां पणम् आददे
बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥
ततो जहासाथ बलं कलिङ्गाधिपतिर् द्विजाः
दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः ॥
अविद्यो ऽयं महाद्यूते बलभद्रः पराजितः
मृषैवाक्षावलेपत्वाद् यो ऽयं मेने ऽक्षकोविदम् ॥
दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम्
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः
ग्लहं जग्राह रुक्मी च ततस् त्व् अक्षान् अपातयत् ॥
अजयद् बलदेवो ऽथ प्राहोच्चैस् तं जितं मया
ममेति रुक्मी प्राहोच्चैर् अलीकोक्तैर् अलं बलम् ॥
त्वयोक्तो ऽयं ग्लहः सत्यं न ममैषो ऽनुमोदितः
एवं त्वया चेद् विजितं न मया विजितं कथम् ॥
ततो ऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥
जितं तु बलदेवेन रुक्मिणा भाषितं मृषा
अनुक्त्वा वचनं किंचित् कृतं भवति कर्मणा ॥
ततो बलः समुत्थाय क्रोधसंरक्तलोचनः
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥
कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः
बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः ॥
आकृष्य च महास्तम्भं जातरूपमयं बलः
जघान ये तत्पक्षास् तान् भूभृतः कुपितो बलः ॥
ततो हाहाकृतं सर्वं पलायनपरं द्विजाः
तद् राजमण्डलं सर्वं बभूव कुपिते बले ॥
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः
नोवाच वचनं किंचिद् रुक्मिणीबलयोर् भयात् ॥
ततो ऽनिरुद्धम् आदाय कृतोद्वाहं द्विजोत्तमाः
द्वारकाम् आजगामाथ यदुचक्रं सकेशवम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0