भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 199

199.1

भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत्
रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥

199.2

रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥

199.3

ददौ स शिशुपालाय जरासंधप्रचोदितः
भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः ॥

199.4

विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः
भीष्मकस्य पुरं जग्मुः शिशुपालश् च कुण्डिनम् ॥

199.5

कृष्णो ऽपि बलभद्राद्यैर् यदुभिः परिवारितः
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥

199.6

श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः
विपक्षभावम् आसाद्य रामाद्येष्व् एव बन्धुषु ॥

199.7

ततश् च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः
शिशुपालो जरासंधः शाल्वाद्याश् च महीभृतः ॥

199.8

कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम्
निर्जिताश् च समागम्य रामाद्यैर् यदुपुंगवैः ॥

199.9

कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम्
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः ॥

199.10

हत्वा बलं स नागाश्व पत्तिस्यन्दनसंकुलम्
निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा ॥

199.11

निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम्
राक्षसेन विधानेन संप्राप्तो मधुसूदनः ॥

199.12

तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान्
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc