भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 198

198.1

वने विहरतस् तस्य सह गोपैर् महात्मनः
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥

198.2

निष्पादितोरुकार्यस्य कार्येणैवावतारिणः
उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम् ॥

198.3

अभीष्टां सर्वदा ह्य् अस्य मदिरे त्वं महौजसः
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥

198.4

इत्य् उक्ता वारुणी तेन संनिधानम् अथाकरोत्
वृन्दावनतटोत्पन्न कदम्बतरुकोटरे ॥

198.5

विचरन् बलदेवो ऽपि मदिरागन्धम् उद्धतम्
आघ्राय मदिराहर्षम् अवापाथ पुरातनम् ॥

198.6

ततः कदम्बात् सहसा मद्यधारां स लाङ्गली
पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥

198.7

पपौ च गोपगोपीभिः समवेतो मुदान्वितः
उपगीयमानो ललितं गीतवाद्यविशारदैः ॥

198.8

श्रमतो ऽत्यन्तघर्माम्भः कणिकामौक्तिकोज्ज्वलः
आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः ॥

198.9

तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै
नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥

198.10

गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः
पापे नायासि नायासि गम्यताम् इच्छयान्यतः ॥

198.11

सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा
यत्रास्ते बलदेवो ऽसौ प्लावयाम् आस तद् वनम् ॥

198.12

शरीरिणी तथोपेत्य त्रासविह्वललोचना
प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुशलायुध ॥

198.13

सो ऽब्रवीद् अवजानासि मम शौर्यबलं यदि
सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥

198.14

इत्य् उक्तयातिसंत्रस्तस् तया नद्या प्रसादितः
भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥

198.15

ततः स्नातस्य वै कान्तिर् आजगाम महावने
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥

198.16

वरुणप्रहितां चास्मै मालाम् अम्लानपङ्कजाम्
समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत ॥

198.17

कृतावतंसः स तदा चारुकुण्डलभूषितः
नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥

198.18

इत्थं विभूषितो रेमे तत्र रामस् तदा व्रजे
मासद्वयेन यातश् च पुनः स मथुरां पुरीम् ॥

198.19

रेवतीं चैव तनयां रैवतस्य महीपतेः
उपयेमे बलस् तस्यां जज्ञाते निशठोल्मुकौ ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc