भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 197

197.1

इत्थं स्तुतस् तदा तेन मुचुकुन्देन धीमता
प्राहेशः सर्वभूतानाम् अनादिनिधनो हरिः ॥

197.2

यथाभिवाञ्छितांल् लोकान् दिव्यान् गच्छ नरेश्वर
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥

197.3

भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले
जातिस्मरो मत्प्रसादात् ततो मोक्षम् अवाप्स्यसि ॥

197.4

इत्य् उक्तः प्रणिपत्येशं जगताम् अच्युतं नृपः
गुहामुखाद् विनिष्क्रान्तो ददृशे सो ऽल्पकान् नरान् ॥

197.5

ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥

197.6

कृष्णो ऽपि घातयित्वारिम् उपायेन हि तद्बलम्
जग्राह मथुराम् एत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥

197.7

आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत्
पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥

197.8

बलदेवो ऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥

197.9

ततो गोपाश् च गोप्यश् च यथापूर्वम् अमित्रजित्
तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ॥

197.10

कैश् चापि संपरिष्वक्तः कांश्चित् स परिषस्वजे
हासं चक्रे समं कैश्चिद् गोपगोपीजनैस् तथा ॥

197.11

प्रियाण्य् अनेकान्य् अवदन् गोपास् तत्र हलायुधम्
गोप्यश् च प्रेममुदिताः प्रोचुः सेर्ष्यम् अथापराः ॥

197.12

गोप्यः पप्रच्छुर् अपरा नागरीजनवल्लभः
कच्चिद् आस्ते सुखं कृष्णश् चलत्प्रेमरसाकुलः ॥

197.13

अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम्
सौभाग्यमानम् अधिकं करोति क्षणसौहृदः ॥

197.14

कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम्
अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति ॥

197.15

अथवा किं तदालापैः क्रियन्ताम् अपराः कथाः
यद् अस्माभिर् विना तेन विनास्माकं भविष्यति ॥

197.16

पिता माता तथा भ्राता भर्ता बन्धुजनश् च कः
न त्यक्तस् तत्कृते श्माभिर् अकृतज्ञस् ततो हि सः ॥

197.17

तथापि कच्चिद् आत्मीयम् इहागमनसंश्रयम्
करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥

197.18

दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः
अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः ॥

197.19

आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च
जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥

197.20

संदेशैः सौम्यमधुरैः प्रेमगर्भैर् अगर्वितैः
रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥

197.21

गोपैश् च पूर्ववद् रामः परिहासमनोहरैः
कथाश् चकार प्रेम्णा च सह तैर् व्रजभूमिषु ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc