भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 196

196.1

गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्य् उक्तवान् द्विजाः
यदूनां संनिधौ सर्वे जहसुर् यादवास् तदा ॥

196.2

ततः कोपसमाविष्टो दक्षिणापथम् एत्य सः
सुतम् इच्छंस् तपस् तेपे यदुचक्रभयावहम् ॥

196.3

आराधयन् महादेवं सो ऽयश् चूर्णम् अभक्षयत्
ददौ वरं च तुष्टो ऽसौ वर्षे द्वादशके हरः ॥

196.4

संभावयाम् आस स तं यवनेशो ह्य् अनात्मजम्
तद्योषित्संगमाच् चास्य पुत्रो ऽभूद् अलिसप्रभः ॥

196.5

तं कालयवनं नाम राज्ये स्वे यवनेश्वरः
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥

196.6

स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान्
पप्रच्छ नारदश् चास्मै कथयाम् आस यादवान् ॥

196.7

म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽपि संवृतः
गजाश्वरथसंपन्नैश् चकार परमोद्यमम् ॥

196.8

प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने
यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम् ॥

196.9

कृष्णो ऽपि चिन्तयाम् आस क्षपितं यादवं बलम्
यवनेन समालोक्य मागधः संप्रयास्यति ॥

196.10

मागधस्य बलं क्षीणं स कालयवनो बली
हन्ता तद् इदम् आयातं यदूनां व्यसनं द्विधा ॥

196.11

तस्माद् दुर्गं करिष्यामि यदूनाम् अतिदुर्जयम्
स्त्रियो ऽपि यत्र युध्येयुः किं पुनर् वृष्णियादवाः ॥

196.12

मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा
यादवाभिभवं दुष्टा मा कुर्वन् वैरिणो ऽधिकम् ॥

196.13

इति संचिन्त्य गोविन्दो योजनानि महोदधिम्
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥

196.14

महोद्यानां महावप्रां तडागशतशोभिताम्
प्राकारशतसंबाधाम् इन्द्रस्येवामरावतीम् ॥

196.15

मथुरावासिनं लोकं तत्रानीय जनार्दनः
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥

196.16

बहिर् आवासिते सैन्ये मथुराया निरायुधः
निर्जगाम स गोविन्दो ददर्श यवनश् च तम् ॥

196.17

स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः
अनुयातो महायोगि चेतोभिः प्राप्यते न यः ॥

196.18

तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम्
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥

196.19

सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम्
पादेन ताडयाम् आस कृष्णं मत्वा स दुर्मतिः ॥

196.20

दृष्टमात्रश् च तेनासौ जज्वाल यवनो ऽग्निना
तत्क्रोधजेन मुनयो भस्मीभूतश् च तत्क्षणात् ॥

196.21

स हि देवासुरे युद्धे गत्वा जित्वा महासुरान्
निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥

196.22

प्रोक्तश् च देवैः संसुप्तं यस् त्वाम् उत्थापयिष्यति
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥

196.23

एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम्
कस् त्वम् इत्य् आह सो ऽप्य् आह जातो ऽहं शशिनः कुले ॥

196.24

वसुदेवस्य तनयो यदुवंशसमुद्भवः
मुचुकुन्दो ऽपि तच् छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥

196.25

संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम्
प्राह ज्ञातो भवान् विष्णोर् अंशस् त्वं परमेश्वरः ॥

196.26

पुरा गार्ग्येण कथितम् अष्टाविंशतिमे युगे
द्वापरान्ते हरेर् जन्म यदुवंशे भविष्यति ॥

196.27

स त्वं प्राप्तो न संदेहो मर्त्यानाम् उपकारकृत्
तथा हि सुमहत् तेजो नालं सोढुम् अहं तव ॥

196.28

तथा हि सुमहाम्भोद ध्वनिधीरतरं ततः
वाक्यं तम् इति होवाच युष्मत्पादसुलालितम् ॥

196.29

देवासुरे महायुद्धे दैत्याश् च सुमहाभटाः
न शेकुस् ते महत् तेजस् तत् तेजो न सहाम्य् अहम् ॥

196.30

संसारपतितस्यैको जन्तोस् त्वं शरणं परम्
संप्रसीद प्रपन्नार्ति हर्ता हर ममाशुभम् ॥

196.31

त्वं पयोनिधयः शैलाः सरितश् च वनानि च
मेदिनी गगनं वायुर् आपो ऽग्निस् त्वं तथा पुमान् ॥

196.32

पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत्
शब्दादिहीनम् अजरं वृद्धिक्षयविवर्जितम् ॥

196.33

त्वत्तो ऽमरास् तु पितरो यक्षगन्धर्वराक्षसाः
सिद्धाश् चाप्सरसस् त्वत्तो मनुष्याः पशवः खगाः ॥

196.34

सरीसृपा मृगाः सर्वे त्वत्तश् चैव महीरुहाः
यच् च भूतं भविष्यद् वा किंचिद् अत्र चराचरे ॥

196.35

अमूर्तं मूर्तम् अथवा स्थूलं सूक्ष्मतरं तथा
तत् सर्वं त्वं जगत्कर्तर् नास्ति किंचित् त्वया विना ॥

196.36

मया संसारचक्रे ऽस्मिन् भ्रमता भगवन् सदा
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥

196.37

दुःखान्य् एव सुखानीति मृगतृष्णाजलाशयः
मया नाथ गृहीतानि तानि तापाय मे ऽभवन् ॥

196.38

राज्यम् उर्वी बलं कोशो मित्रपक्षस् तथात्मजाः
भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥

196.39

सुखबुद्ध्या मया सर्वं गृहीतम् इदम् अव्यय
परिणामे च देवेश तापात्मकम् अभून् मम ॥

196.40

देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि
मत्तः साहाय्यकामो ऽभूच् छाश्वती कुत्र निर्वृतिः ॥

196.41

त्वाम् अनाराध्य जगतां सर्वेषां प्रभवास्पदम्
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥

196.42

त्वन्मायामूढमनसो जन्ममृत्युजरादिकान्
अवाप्य पापान् पश्यन्ति प्रेतराजानम् अन्तरा ॥

196.43

ततः पाशशतैर् बद्धा नरकेष्व् अतिदारुणम्
प्राप्नुवन्ति महद् दुःखं विश्वरूपम् इदं तव ॥

196.44

अहम् अत्यन्तविषयी मोहितस् तव मायया
ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥

196.45

सो ऽहं त्वां शरणम् अपारम् ईशम् ईड्यं संप्राप्तः परमपदं यतो न किंचित्
संसारश्रमपरितापतप्तचेता निर्विण्णे परिणतधाम्नि साभिलाषः

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc