भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 195

195.1

जरासंधसुते कंस उपयेमे महाबलः
अस्तिः प्राप्तिश् च भो विप्रास् तयोर् भर्तृहणं हरिम् ॥

195.2

महाबलपरीवारो मागधाधिपतिर् बली
हन्तुम् अभ्याययौ कोपाज् जरासंधः सयादवम् ॥

195.3

उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः ॥

195.4

निष्क्रम्याल्पपरीवाराव् उभौ रामजनार्दनौ
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥

195.5

ततो बलश् च कृष्णश् च मतिं चक्रे महाबलः
आयुधानां पुराणानाम् आदाने मुनिसत्तमाः ॥

195.6

अनन्तरं चक्रशार्ङ्गे तूणौ चाप्य् अक्षयौ शरैः
आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा ॥

195.7

हलं च बलभद्रस्य गगनाद् आगमत् करम्
बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥

195.8

ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम्
पुरीं विविशतुर् वीराव् उभौ रामजनार्दनौ ॥

195.9

जिते तस्मिन् सुदुर्वृत्ते जरासंधे द्विजोत्तमाः
जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥

195.10

पुनर् अप्य् आजगामाथ जरासंधो बलान्वितः
जितश् च रामकृष्णाभ्याम् अपकृत्य द्विजोत्तमाः ॥

195.11

दश चाष्टौ च संग्रामान् एवम् अत्यन्तदुर्मदः
यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः ॥

195.12

सर्वेष्व् एव च युद्धेषु यदुभिः स पराजितः
अपक्रान्तो जरासंधः स्वल्पसैन्यैर् बलाधिकः ॥

195.13

तद् बलं यादवानां वै रक्षितं यद् अनेकशः
तत् तु संनिधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः ॥

195.14

मनुष्यधर्मशीलस्य लीला सा जगतः पतेः
अस्त्राण्य् अनेकरूपाणि यद् अरातिषु मुञ्चति ॥

195.15

मनसैव जगत्सृष्टि संहारं तु करोति यः
तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः ॥

195.16

तथापि च मनुष्याणां धर्मस् तदनुवर्तनम्
कुर्वन् बलवता संधिं हीनैर् युद्धं करोत्य् असौ ॥

195.17

साम चोपप्रदानं च तथा भेदं च दर्शयन्
करोति दण्डपातं च क्वचिद् एव पलायनम् ॥

195.18

मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्तते
लीला जगत्पतेस् तस्य च्छन्दतः संप्रवर्तते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc