भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 194

194.1

तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात्
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर् हरिः ॥

194.2

मोहाय यदुचक्रस्य विततान स वैष्णवीम्
उवाच चाम्ब भोस् तात चिराद् उत्कण्ठितेन तु ॥

194.3

भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च
कुर्वतां याति यः कालो मातापित्रोर् अपूजनम् ॥

194.4

स वृथा क्लेशकारी वै साधूनाम् उपजायते
गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम् ॥

194.5

कुर्वतः सफलं जन्म देहिनस् तात जायते
तत् क्षन्तव्यम् इदं सर्वम् अतिक्रमकृतं पितः
कंसवीर्यप्रतापाभ्याम् आवयोः परवश्ययोः ॥

194.6

इत्य् उक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात्
पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥

194.7

कंसपत्न्यस् ततः कंसं परिवार्य हतं भुवि
विलेपुर् मातरश् चास्य शोकदुःखपरिप्लुताः ॥

194.8

बहुप्रकारम् अस्वस्थाः पश्चात्तापातुरा हरिः
ताः समाश्वासयाम् आस स्वयम् अस्राविलेक्षणः ॥

194.9

उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः
अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ॥

194.10

राज्ये ऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥

194.11

कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः
उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कया ॥

194.12

ययातिशापाद् वंशो ऽयम् अराज्यार्हो ऽपि सांप्रतम्
मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥

194.13

इत्य् उक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह
नृवाचा चैव भगवान् केशवः कार्यमानुषः ॥

194.14

गच्छेन्द्रं ब्रूहि वायो त्वम् अलं गर्वेण वासव
दीयताम् उग्रसेनाय सुधर्मा भवता सभा ॥

194.15

कृष्णो ब्रवीति राजार्हम् एतद् रत्नम् अनुत्तमम्
सुधर्माख्या सभा युक्तम् अस्यां यदुभिर् आसितुम् ॥

194.16

इत्य् उक्तः पवनो गत्वा सर्वम् आह शचीपतिम्
ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरंदरः ॥

194.17

वायुना चाहृतां दिव्यां ते सभां यदुपुंगवाः
बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥

194.18

विदिताखिलविज्ञानौ सर्वज्ञानमयाव् अपि
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥

194.19

ततः सांदीपनिं काश्यम् अवन्तिपुरवासिनम्
अस्त्रार्थं जग्मतुर् वीरौ बलदेवजनार्दनौ ॥

194.20

तस्य शिष्यत्वम् अभ्येत्य गुरुवृत्तिपरौ हि तौ
दर्शयां चक्रतुर् वीराव् आचारम् अखिले जने ॥

194.21

सरहस्यं धनुर्वेदं ससंग्रहम् अधीयताम्
अहोरात्रैश् चतुःषष्ट्या तद् अद्भुतम् अभूद् द्विजाः ॥

194.22

सांदीपनिर् असंभाव्यं तयोः कर्मातिमानुषम्
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥

194.23

अस्त्रग्रामम् अशेषं च प्रोक्तमात्रम् अवाप्य तौ
ऊचतुर् व्रियतां या ते दातव्या गुरुदक्षिणा ॥

194.24

सो ऽप्य् अतीन्द्रियम् आलोक्य तयोः कर्म महामतिः
अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥

194.25

गृहीतास्त्रौ ततस् तौ तु गत्वा तं लवणोदधिम्
ऊचुतुश् च गुरोः पुत्रो दीयताम् इति सागरम् ॥

194.26

कृताञ्जलिपुटश् चाब्धिस् ताव् अथ द्विजसत्तमाः
उवाच न मया पुत्रो हृतः सांदीपनेर् इति ॥

194.27

दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम्
जग्राह सो ऽस्ति सलिले ममैवासुरसूदन ॥

194.28

इत्य् उक्तो ऽन्तर् जलं गत्वा हत्वा पञ्चजनं तथा
कृष्णो जग्राह तस्यास्थि प्रभवं शङ्खम् उत्तमम् ॥

194.29

यस्य नादेन दैत्यानां बलहानिः प्रजायते
देवानां वर्धते तेजो यात्य् अधर्मश् च संक्षयम् ॥

194.30

तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरीं हरिः
बलदेवश् च बलवाञ् जित्वा वैवस्वतं यमम् ॥

194.31

तं बालं यातनासंस्थं यथापूर्वशरीरिणम्
पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः ॥

194.32

मथुरां च पुनः प्राप्ताव् उग्रसेनेन पालिताम्
प्रहृष्टपुरुषस्त्रीकाव् उभौ रामजनार्दनौ ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc