भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 191

191.1

अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना
कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले ॥

191.2

चिन्तयाम् आस चाक्रूरो नास्ति धन्यतरो मया
यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥

191.3

अद्य मे सफलं जन्म सुप्रभाता च मे निशा
यद् उन्निद्राब्जपत्त्राक्षं विष्णोर् द्रक्ष्याम्य् अहम् मुखम् ॥

191.4

पापं हरति यत् पुंसां स्मृतं संकल्पनामयम्
तत् पुण्डरीकनयनं विष्णोर् द्रक्ष्याम्य् अहं मुखम् ॥

191.5

निर्जग्मुश् च यतो वेदा वेदाङ्गान्य् अखिलानि च
द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम् ॥

191.6

यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः
इज्यते यो ऽखिलाधारस् तं द्रक्ष्यामि जगत्पतिम् ॥

191.7

इष्ट्वा यम् इन्द्रो यज्ञानां शतेनामरराजताम्
अवाप तम् अनन्तादिम् अहं द्रक्ष्यामि केशवम् ॥

191.8

न ब्रह्मा नेन्द्ररुद्राश्वि वस्वादित्यमरुद्गणाः
यस्य स्वरूपं जानन्ति स्पृशत्य् अद्य स मे हरिः ॥

191.9

सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः
यो भवत्य् अव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥

191.10

मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम्
चकार योगतो योगं स माम् आलापयिष्यति ॥

191.11

सांप्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम्
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः ॥

191.12

यो ऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम्
सो ऽवतीर्णो जगत्यर्थे माम् अक्रूरेति वक्ष्यति ॥

191.13

पितृबन्धुसुहृद्भ्रातृ मातृबन्धुमयीम् इमाम्
यन्मायां नालम् उद्धर्तुं जगत् तस्मै नमो नमः ॥

191.14

तरन्त्य् अविद्यां विततां हृदि यस्मिन् निवेशिते
योगमायाम् इमां मर्त्यास् तस्मै विद्यात्मने नमः ॥

191.15

यज्वभिर् यज्ञपुरुषो वासुदेवश् च शाश्वतैः
वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥

191.16

तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम्
सदसत्त्वं स सत्त्वेन मय्य् असौ यातु सौम्यताम् ॥

191.17

स्मृते सकलकल्याण भाजनं यत्र जायते
पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥

191.18

इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः
अक्रूरो गोकुलं प्राप्तः किंचित् सूर्ये विराजति ॥

191.19

स ददर्श तदा तत्र कृष्णम् आदोहने गवाम्
वत्समध्यगतं फुल्ल नीलोत्पलदलच्छविम् ॥

191.20

प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम्
प्रलम्बबाहुम् आयाम तुङ्गोरस्थलम् उन्नसम् ॥

191.21

सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम्
तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥

191.22

बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम्
सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥

191.23

हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥

191.24

प्रांशुम् उत्तुङ्गबाहुं च विकाशिमुखपङ्कजम्
मेघमालापरिवृतं कैलासाद्रिम् इवापरम् ॥

191.25

तौ दृष्ट्वा विकसद्वक्त्र सरोजः स महामतिः
पुलकाञ्चितसर्वाङ्गस् तदाक्रूरो ऽभवद् द्विजाः ॥

191.26

य एतत् परमं धाम एतत् तत् परमं पदम्
अभवद् वासुदेवो ऽसौ द्विधा यो ऽयं व्यवस्थितः ॥

191.27

साफल्यम् अक्ष्णोर् युगपन् ममास्तु दृष्टे जगद्धातरि हासम् उच्चैः
अप्य् अङ्गम् एतद् भगवत्प्रसादाद् दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात्

191.28

अद्यैव स्पृष्ट्वा मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः
यस्याङ्गुलिस्पर्शहताखिलाघैर् अवाप्यते सिद्धिर् अनुत्तमा नरैः

191.29

तथाश्विरुद्रेन्द्रवसुप्रणीता देवाः प्रयच्छन्ति वरं प्रहृष्टाः
चक्रं घ्नता दैत्यपतेर् हृतानि दैत्याङ्गनानां नयनान्तराणि

191.30

यत्राम्बु विन्यस्य बलिर् मनोभ्याम् अवाप भोगान् वसुधातलस्थः
तथामरेशस् त्रिदशाधिपत्यं मन्वन्तरं पूर्णम् अवाप शक्रः

191.31

अथेश मां कंसपरिग्रहेण दोषास्पदीभूतम् अदोषयुक्तम्
कर्ता न मानोपहितं धिग् अस्तु यस्मान् मनः साधुबहिष्कृतो यः

191.32

ज्ञानात्मकस्याखिलसत्त्वराशेर् व्यावृत्तदोषस्य सदास्फुटस्य
किं वा जगत्य् अत्र समस्तपुंसाम् अज्ञातम् अस्यास्ति हृदि स्थितस्य

191.33

तस्माद् अहं भक्तिविनम्रगात्रो व्रजामि विश्वेश्वरम् ईश्वराणाम्
अंशावतारं पुरुषोत्तमस्य अनादिमध्यान्तम् अजस्य विष्णोः

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc