भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 190

190.1

ककुद्मिनि हते ऽरिष्टे धेनुके च निपातिते
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥

190.2

दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये
हतायां पूतनायां च शकटे परिवर्तिते ॥

190.3

कंसाय नारदः प्राह यथावृत्तम् अनुक्रमात्
यशोदादेवकीगर्भ परिवर्ताद्य् अशेषतः ॥

190.4

श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात्
वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥

190.5

सो ऽतिकोपाद् उपालभ्य सर्वयादवसंसदि
जगर्हे यादवांश् चापि कार्यं चैतद् अचिन्तयत् ॥

190.6

यावन् न बलम् आरूढौ बलकृष्णौ सुबालकौ
तावद् एव मया वध्याव् असाध्यौ रूढयौवनौ ॥

190.7

चाणूरो ऽत्र महावीर्यो मुष्टिकश् च महाबलः
एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥

190.8

धनुर्महमहायाग व्याजेनानीय तौ व्रजात्
तथा तथा करिष्यामि यास्यतः संक्षयं यथा ॥

190.9

इत्य् आलोच्य स दुष्टात्मा कंसो रामजनार्दनौ
हन्तुं कृतमतिर् वीरम् अक्रूरं वाक्यम् अब्रवीत् ॥

190.10

भो भो दानपते वाक्यं क्रियतां प्रीतये मम
इतः स्यन्दनम् आरुह्य गम्यतां नन्दगोकुलम् ॥

190.11

वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ
नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥

190.12

धनुर्महमहायागश् चतुर्दश्यां भविष्यति
आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥

190.13

चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम
ताभ्यां सहानयोर् युद्धं सर्वलोको ऽत्र पश्यतु ॥

190.14

नागः कुवलयापीडो महामात्रप्रचोदितः
स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥

190.15

तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम्
हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥

190.16

ततः समस्तगोपानां गोधनान्य् अखिलान्य् अहम्
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥

190.17

त्वाम् ऋते यादवाश् चेमे दुष्टा दानपते मम
एतेषां च वधायाहं प्रयतिष्याम्य् अनुक्रमात् ॥

190.18

ततो निष्कण्टकं सर्वं राज्यम् एतद् अयादवम्
प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम् ॥

190.19

यथा च माहिषं सर्पिर् दधि चाप्य् उपहार्य वै
गोपाः समानयन्त्य् आशु त्वया वाच्यास् तथा तथा ॥

190.20

इत्य् आज्ञप्तस् तदाक्रूरो महाभागवतो द्विजाः
प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥

190.21

तथेत्य् उक्त्वा तु राजानं रथम् आरुह्य सत्वरः
निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥

190.22

केशी चापि बलोदग्रः कंसदूतः प्रचोदितः
कृष्णस्य निधनाकाङ्क्षी वृन्दावनम् उपागमत् ॥

190.23

स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः
पुनर् विक्रान्तचन्द्रार्क मार्गो गोपान्तम् आगमत् ॥

190.24

तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः
गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः ॥

190.25

त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तु तद्वचः
सतोयजलदध्वान गम्भीरम् इदम् उक्तवान् ॥

190.26

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः
भवद्भिर् गोपजातीयैर् वीरवीर्यं विलोप्यते ॥

190.27

किम् अनेनाल्पसारेण ह्रेषितारोपकारिणा
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥

190.28

एह्य् एहि दुष्ट कृष्णो ऽहं पूष्णस् त्व् इव पिनाकधृक्
पातयिष्यामि दशनान् वदनाद् अखिलांस् तव ॥

190.29

इत्य् उक्त्वा स तु गोविन्दः केशिनः संमुखं ययौ
विवृतास्यश् च सो ऽप्य् एनं दैतेयश् च उपाद्रवत् ॥

190.30

बाहुम् आभोगिनं कृत्वा मुखे तस्य जनार्दनः
प्रवेशयाम् आस तदा केशिनो दुष्टवाजिनः ॥

190.31

केशिनो वदनं तेन विशता कृष्णबाहुना
शातिता दशनास् तस्य सिताभ्रावयवा इव ॥

190.32

कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः
विनाशाय यथा व्याधिर् आप्तभूतैर् उपेक्षितः ॥

190.33

विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन्
सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥

190.34

जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन्
स्वेदार्द्रगात्रः श्रान्तश् च निर्यत्नः सो ऽभवत् ततः ॥

190.35

व्यादितास्यो महारौद्रः सो ऽसुरः कृष्णबाहुना
निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥

190.36

द्विपादपृष्ठपुच्छार्ध श्रवणैकाक्षनासिके
केशिनस् ते द्विधा भूते शकले च विरेजतुः ॥

190.37

हत्वा तु केशिनं कृष्णो मुदितैर् गोपकैर् वृतः
अनायस्ततनुः स्वस्थो हसंस् तत्रैव संस्थितः ॥

190.38

ततो गोपाश् च गोप्यश् च हते केशिनि विस्मिताः
तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनोरमम् ॥

190.39

आययौ त्वरितो विप्रो नारदो जलदस्थितः
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥

190.40

साधु साधु जगन्नाथ लीलयैव यद् अच्युत
निहतो ऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम् ॥

190.41

सुकर्माण्य् अवतारे तु कृतानि मधुसूदन
यानि वै विस्मितं चेतस् तोषम् एतेन मे गतम् ॥

190.42

तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश् च बिभ्यति
धुतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः ॥

190.43

यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन
तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥

190.44

स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः
परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन ॥

190.45

उग्रसेनसुते कंसे सानुगे विनिपातिते
भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥

190.46

तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम्
द्रष्टव्यानि मया युष्मत् प्रणीतानि जनार्दन ॥

190.47

सो ऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम्
त्वया सभाजितश् चाहं स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥

190.48

नारदे तु गते कृष्णः सह गोपैर् अविस्मितः
विवेश गोकुलं गोपी नेत्रपानैकभाजनम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc