भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 187

187.1

तस्मिन् रासभदैतेये सानुजे विनिपातिते
सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥

187.2

ततस् तौ जातहर्षौ तु वसुदेवसुताव् उभौ
शुशुभाते महात्मानौ बालशृङ्गाव् इवर्षभौ ॥

187.3

चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः
नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥

187.4

सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ
महेन्द्रायुधसंकाशौ श्वेतकृष्णाव् इवाम्बुदौ ॥

187.5

चेरतुर् लोकसिद्धाभिः क्रीडाभिर् इतरेतरम्
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥

187.6

मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम्
तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम् ॥

187.7

ततस् त्व् आन्दोलिकाभिश् च नियुद्धैश् च महाबलौ
व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः ॥

187.8

तल्लिप्सुर् असुरस् तत्र उभयो रममाणयोः
आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥

187.9

सो ऽवगाहत निःशङ्कं तेषां मध्यममानुषः
मानुषं रूपम् आस्थाय प्रलम्बो दानवोत्तमः ॥

187.10

तयोश् छिद्रान्तरप्रेप्सुर् अतिशीघ्रम् अमन्यत
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥

187.11

हरिणा क्रीडनं नाम बालक्रीडनकं ततः
प्रक्रीडितास् तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥

187.12

श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः
गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः ॥

187.13

श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः
जितवान् कृष्णपक्षीयैर् गोपैर् अन्यैः पराजिताः ॥

187.14

ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै
पुनर् निवृत्तास् ते सर्वे ये ये तत्र पराजिताः ॥

187.15

संकर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः
न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥

187.16

अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः
ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥

187.17

संकर्षणस् तु तं दृष्ट्वा दग्धशैलोपमाकृतिम्
स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥

187.18

रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम्
ह्रियमाणस् ततः कृष्णम् इदं वचनम् अब्रवीत् ॥

187.19

कृष्ण कृष्ण ह्रिये त्व् एष पर्वतोदग्रमूर्तिना
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥

187.20

यद् अत्र सांप्रतं कार्यं मया मधुनिषूदन
तत् कथ्यतां प्रयात्य् एष दुरात्मातित्वरान्वितः ॥

187.21

तम् आह रामं गोविन्दः स्मितभिन्नौष्ठसंपुटः
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥

187.22

किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते
सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया ॥

187.23

स्मराशेषजगदीश कारणं कारणाग्रज
आत्मानम् एकं तद्वच् च जगत्य् एकार्णवे च यः ॥

187.24

भवान् अहं च विश्वात्मन्न् एकम् एव हि कारणम्
जगतो ऽस्य जगत्य् अर्थे भेदेनावां व्यवस्थितौ ॥

187.25

तत् स्मर्यताम् अमेयात्मंस् त्वयात्मा जहि दानवम्
मानुष्यम् एवम् आलम्ब्य बन्धूनां क्रियतां हितम् ॥

187.26

इति संस्मारितो विप्राः कृष्णेन सुमहात्मना
विहस्य पीडयाम् आस प्रलम्बं बलवान् बलः ॥

187.27

मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः
तेन चास्य प्रहारेण बहिर् याते विलोचने ॥

187.28

स निष्कासितमस्तिष्को मुखाच् छोणितम् उद्वमन्
निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥

187.29

प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा
प्रहृष्टास् तुष्टुवुर् गोपाः साधु साध्व् इति चाब्रुवन् ॥

187.30

संस्तूयमानो रामस् तु गोपैर् दैत्ये निपातिते
प्रलम्बे सह कृष्णेन पुनर् गोकुलम् आययौ ॥

187.31

तयोर् विहरतोर् एवं रामकेशवयोर् व्रजे
प्रावृड्व्यतीता विकसत् सरोजा चाभवच् छरत् ॥

187.32

विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम्
ददर्शेन्द्रोत्सवारम्भ प्रवृत्तान् व्रजवासिनः ॥

187.33

कृष्णस् तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान्
कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः ॥

187.34

को ऽयं शक्रमहो नाम येन वो हर्ष आगतः
प्राह तं नन्दगोपश् च पृच्छन्तम् अतिसादरम् ॥

187.35

मेघानां पयसाम् ईशो देवराजः शतक्रतुः
येन संचोदिता मेघा वर्षन्त्य् अम्बुमयं रसम् ॥

187.36

तद्वृष्टिजनितं सस्यं वयम् अन्ये च देहिनः
वर्तयामोपभुञ्जानास् तर्पयामश् च देवताः ॥

187.37

क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः
तेन संवर्धितैः सस्यैः पुष्टास् तुष्टा भवन्ति वै ॥

187.38

नासस्या नानृणा भूमिर् न बुभुक्षार्दितो जनः
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥

187.39

भौमम् एतत् पयो गोभिर् धत्ते सूर्यस्य वारिदः
पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥

187.40

तस्मात् प्रावृषि राजानः शक्रं सर्वे मुदान्विताः
महे सुरेशम् अर्घन्ति वयम् अन्ये च देहिनः ॥

187.41

नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने
कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस् तदा ॥

187.42

न वयं कृषिकर्तारो वणिज्याजीविनो न च
गावो ऽस्मद्दैवतं तात वयं वनचरा यतः ॥

187.43

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस् तथापरा
विद्याचतुष्टयं त्व् एतद् वार्त्ताम् अत्र शृणुष्व मे ॥

187.44

कृषिर् वणिज्या तद्वच् च तृतीयं पशुपालनम्
विद्या ह्य् एता महाभागा वार्त्ता वृत्तित्रयाश्रया ॥

187.45

कर्षकाणां कृषिर् वृत्तिः पण्यं तु पणजीविनाम्
अस्माकं गाः परा वृत्तिर् वार्त्ता भेदैर् इयं त्रिभिः ॥

187.46

विद्यया यो यया युक्तस् तस्य सा दैवतं महत्
सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥

187.47

यो ऽन्यस्याः फलम् अश्नन् वै पूजयत्य् अपरां नरः
इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥

187.48

पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर् वनम्
वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ॥

187.49

गिरियज्ञस् त्व् अयं तस्माद् गोयज्ञश् च प्रवर्त्यताम्
किम् अस्माकं महेन्द्रेण गावः शैलाश् च देवताः ॥

187.50

मन्त्रयज्ञपरा विप्राः सीरयज्ञाश् च कर्षकाः
गिरिगोयज्ञशीलाश् च वयम् अद्रिवनाश्रयाः ॥

187.51

तस्माद् गोवर्धनः शैलो भवद्भिर् विविधार्हणैः
अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥

187.52

सर्वघोषस्य संदोहा गृह्यन्तां मा विचार्यताम्
भोज्यन्तां तेन वै विप्रास् तथान्ये चापि वाञ्छकाः ॥

187.53

तम् अर्चितं कृते होमे भोजितेषु द्विजातिषु
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥

187.54

एतन् मम मतं गोपाः संप्रीत्या क्रियते यदि
ततः कृता भवेत् प्रीतिर् गवाम् अद्रेस् तथा मम ॥

187.55

इति तस्य वचः श्रुत्वा नन्दाद्यास् ते व्रजौकसः
प्रीत्युत्फुल्लमुखा विप्राः साधु साध्व् इत्य् अथाब्रुवन् ॥

187.56

शोभनं ते मतं वत्स यद् एतद् भवतोदितम्
तत् करिष्याम्य् अहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥

187.57

तथा च कृतवन्तस् ते गिरियज्ञं व्रजौकसः
दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः ॥

187.58

द्विजांश् च भोजयाम् आसुः शतशो ऽथ सहस्रशः
गावः शैलं ततश् चक्रुर् अर्चितास् तं प्रदक्षिणम् ॥

187.59

वृषभाश् चाभिनर्दन्तः सतोया जलदा इव
गिरिमूर्धनि गोविन्दः शैलो ऽहम् इति मूर्तिमान् ॥

187.60

बुभुजे ऽन्नं बहुविधं गोपवर्याहृतं द्विजाः
कृष्णस् तेनैव रूपेण गोपैः सह गिरेः शिरः ॥

187.61

अधिरुह्यार्चयाम् आस द्वितीयाम् आत्मनस् तनुम्
अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान्
कृत्वा गिरिमहं गोष्ठं निजम् अभ्याययुः पुनः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc