भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 186

186.1

गाः पालयन्तौ च पुनः सहितौ रामकेशवौ
भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥

186.2

तच् च तालवनं नित्यं धेनुको नाम दानवः
नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥

186.3

तत्र तालवनं रम्यं फलसंपत्समन्वितम्
दृष्ट्वा स्पृहान्विता गोपाः फलादाने ऽब्रुवन् वचः ॥

186.4

हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते
भूप्रदेशो यतस् तस्मात् त्यक्तानीमानि सन्ति वै ॥

186.5

फलानि पश्य तालानां गन्धमोदयुतानि वै
वयम् एतान्य् अभीप्सामः पात्यन्तां यदि रोचते ॥

186.6

इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः
कृष्णश् च पातयाम् आस भुवि तालफलानि वै ॥

186.7

तालानां पततां शब्दम् आकर्ण्यासुरराट् ततः
आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः ॥

186.8

पद्भ्याम् उभाभ्यां स तदा पश्चिमाभ्यां च तं बली
जघानोरसि ताभ्यां च स च तेनाप्य् अगृह्यत ॥

186.9

गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम्
तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि ॥

186.10

ततः फलान्य् अनेकानि तालाग्रान् निपतन् खरः
पृथिव्यां पातयाम् आस महावातो ऽम्बुदान् इव ॥

186.11

अन्यान् अप्य् अस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान्
कृष्णश् चिक्षेप तालाग्रे बलभद्रश् च लीलया ॥

186.12

क्षणेनालंकृता पृथ्वी पक्वैस् तालफलैस् तदा
दैत्यगर्दभदेहैश् च मुनयः शुशुभे ऽधिकम् ॥

186.13

ततो गावो निराबाधास् तस्मिंस् तालवने द्विजाः
नवशष्पं सुखं चेरुर् यत्र भुक्तम् अभूत् पुरा ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc