ब्रह्म पुराण · अध्याय 188
महे प्रतिहते शक्रो भृशं कोपसमन्वितः
संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत् ॥
भो भो मेघा निशम्यैतद् वदतो वचनं मम
आज्ञानन्तरम् एवाशु क्रियताम् अविचारितम् ॥
नन्दगोपः सुदुर्बुद्धिर् गोपैर् अन्यैः सहायवान्
कृष्णाश्रयबलाध्मातो महभङ्गम् अचीकरत् ॥
आजीवो यः परं तेषां गोपत्वस्य च कारणम्
ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम ॥
अहम् अप्य् अद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम्
साहाय्यं वः करिष्यामि वायूनां संगमेन च ॥
इत्य् आज्ञप्ताः सुरेन्द्रेण मुमुचुस् ते बलाहकाः
वातवर्षं महाभीमम् अभावाय गवां द्विजाः ॥
ततः क्षणेन धरणी ककुभो ऽम्बरम् एव च
एकं धारामहासार पूरणेनाभवद् द्विजाः ॥
गावस् तु तेन पतता वर्षवातेन वेगिना
धुताः प्राणाञ् जहुः सर्वास् तिर्यङ्मुखशिरोधराः ॥
क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या द्विजोत्तमाः
गावो विवत्साश् च कृता वारिपूरेण चापराः ॥
वत्साश् च दीनवदनाः पवनाकम्पिकंधराः
त्राहि त्राहीत्य् अल्पशब्दाः कृष्णम् ऊचुर् इवार्तकाः ॥
ततस् तद् गोकुलं सर्वं गोगोपीगोपसंकुलम्
अतीवार्तं हरिर् दृष्ट्वा त्राणायाचिन्तयत् तदा ॥
एतत् कृतं महेन्द्रेण महभङ्गविरोधिना
तद् एतद् अखिलं गोष्ठं त्रातव्यम् अधुना मया ॥
इमम् अद्रिम् अहं वीर्याद् उत्पाट्योरुशिलातलम्
धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रम् इवोपरि ॥
इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम्
उत्पाट्यैककरेणैव धारयाम् आस लीलया ॥
गोपांश् चाह जगन्नाथः समुत्पाटितभूधरः
विशध्वम् अत्र सहिताः कृतं वर्षनिवारणम् ॥
सुनिर्वातेषु देशेषु यथायोग्यम् इहास्यताम्
प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥
इत्य् उक्तास् तेन ते गोपा विविशुर् गोधनैः सह
शकटारोपितैर् भाण्डैर् गोप्यश् चासारपीडिताः ॥
कृष्णो ऽपि तं दधारैवं शैलम् अत्यन्तनिश्चलम्
व्रजौकोवासिभिर् हर्ष विस्मिताक्षैर् निरीक्षितः ॥
गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः
संस्तूयमानचरितः कृष्णः शैलम् अधारयत् ॥
सप्तरात्रं महामेघा ववर्षुर् नन्दगोकुले
इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥
ततो धृते महाशैले परित्राते च गोकुले
मिथ्याप्रतिज्ञो बलभिद् वारयाम् आस तान् घनान् ॥
व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते
निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनर् आगमत् ॥
मुमोच कृष्णो ऽपि तदा गोवर्धनमहागिरिम्
स्वस्थाने विस्मितमुखैर् दृष्टस् तैर् व्रजवासिभिः ॥
धृते गोवर्धने शैले परित्राते च गोकुले
रोचयाम् आस कृष्णस्य दर्शनं पाकशासनः ॥
सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित्
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥
चारयन्तं महावीर्यं गाश् च गोपवपुर्धरम्
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥
गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विजाः
कृतच्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ॥
अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम्
शक्रः सस्मितम् आहेदं प्रीतिविस्फारितेक्षणः ॥
कृष्ण कृष्ण शृणुष्वेदं यदर्थम् अहम् आगतः
त्वत्समीपं महाबाहो नैतच् चिन्त्यं त्वयान्यथा ॥
भारावतरणार्धाय पृथिव्याः पृथिवीतलम्
अवतीर्णो ऽखिलाधारस् त्वम् एव परमेश्वर ॥
महभङ्गविरुद्धेन मया गोकुलनाशकाः
समादिष्टा महामेघास् तैश् चैतत् कदनं कृतम् ॥
त्रातास् तापात् त्वया गावः समुत्पाट्य महागिरिम्
तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥
साधितं कृष्ण देवानाम् अद्य मन्ये प्रयोजनम्
त्वयायम् अद्रिप्रवरः करेणैकेन चोद्धृतः ॥
गोभिश् च नोदितः कृष्ण त्वत्समीपम् इहागतः
त्वया त्राताभिर् अत्यर्थं युष्मत्कारणकारणात् ॥
स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः
उपेन्द्रत्वे गवाम् इन्द्रो गोविन्दस् त्वं भविष्यसि ॥
अथोपवाह्याद् आदाय घण्टाम् ऐरावताद् गजात्
अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥
क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात्
प्रस्रवोद्भूतदुग्धार्द्रां सद्यश् चक्रुर् वसुंधराम् ॥
अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम्
प्रीत्या सप्रश्रयं कृष्णं पुनर् आह शचीपतिः ॥
गवाम् एतत् कृतं वाक्यात् तथान्यद् अपि मे शृणु
यद् ब्रवीमि महाभाग भारावतरणेच्छया ॥
ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर
अवतीर्णो ऽर्जुनो नाम स रक्ष्यो भवता सदा ॥
भारावतरणे सख्यं स ते वीरः करिष्यति
स रक्षणीयो भवता यथात्मा मधुसूदन ॥
जानामि भारते वंशे जातं पार्थं तवांशतः
तम् अहं पालयिष्यामि यावद् अस्मि महीतले ॥
यावन् महीतले शक्र स्थास्याम्य् अहम् अरिंदम
न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति ॥
कंसो नाम महाबाहुर् दैत्यो ऽरिष्टस् तथा परः
केशी कुवलयापीडो नरकाद्यास् तथापरे ॥
हतेषु तेषु देवेन्द्र भविष्यति महाहवः
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुम् अर्हसि
नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति ॥
अर्जुनार्थे त्व् अहं सर्वान् युधिष्ठिरपुरोगमान्
निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान् ॥
इत्य् उक्तः संपरिष्वज्य देवराजो जनार्दनम्
आरुह्यैरावतं नागं पुनर् एव दिवं ययौ ॥
कृष्णो ऽपि सहितो गोभिर् गोपालैश् च पुनर् व्रजम्
आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0