ब्रह्म पुराण · अध्याय 185
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ
विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः ॥
स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम्
तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः ॥
तस्यां चातिमहाभीमं विषाग्निकणदूषितम्
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥
विषाग्निना विसरता दग्धतीरमहातरुम्
वाताहताम्बुविक्षेप स्पर्शदग्धविहंगमम् ॥
तम् अतीव महारौद्रं मृत्युवक्त्रम् इवापरम्
विलोक्य चिन्तयाम् आस भगवान् मधुसूदनः ॥
अस्मिन् वसति दुष्टात्मा कालीयो ऽसौ विषायुधः
यो मया निर्जितस् त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥
तेनेयं दूषिता सर्वा यमुना सागरंगमा
न नरैर् गोधनैर् वापि तृषार्तैर् उपभुज्यते ॥
तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया
नित्यत्रस्ताः सुखं येन चरेयुर् व्रजवासिनः ॥
एतदर्थं नृलोके ऽस्मिन्न् अवतारो मया कृतः
यद् एषाम् उत्पथस्थानां कार्या शास्तिर् दुरात्मनाम् ॥
तद् एतन् नातिदूरस्थं कदम्बम् उरुशाखिनम्
अधिरुह्योत्पतिष्यामि ह्रदे ऽस्मिञ् जीवनाशिनः ॥
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः
निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥
तेनापि पतता तत्र क्षोभितः स महाह्रदः
अत्यर्थदूरजातांश् च तांश् चासिञ्चन् महीरुहान् ॥
ते ऽहिदुष्टविषज्वाला तप्ताम्बुतपनोक्षिताः
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥
आस्फोटयाम् आस तदा कृष्णो नागह्रदं भुजैः
तच्छब्दश्रवणाच् चाथ नागराजो ऽभ्युपागमत् ॥
आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः
वृतो महाविषैश् चान्यैर् अरुणैर् अनिलाशनैः ॥
नागपत्न्यश् च शतशो हारिहारोपशोभिताः
प्रकम्पिततनूत्क्षेप चलत्कुण्डलकान्तयः ॥
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः
ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः ॥
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम्
गोपा व्रजम् उपागत्य चुक्रुशुः शोकलालसाः ॥
एष कृष्णो गतो मोह मग्नो वै कालिये ह्रदे
भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम् ॥
एतच् छ्रुत्वा ततो गोपा वज्रपातोपमं वचः
गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम् ॥
हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः
यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥
नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥
ददृशुश् चापि ते तत्र सर्पराजवशंगतम्
निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥
नन्दगोपश् च निश्चेष्टः पश्यन् पुत्रमुखं भृशम्
यशोदा च महाभागा बभूव मुनिसत्तमाः ॥
गोप्यस् त्व् अन्या रुदत्यश् च ददृशुः शोककातराः
प्रोचुश् च केशवं प्रीत्या भयकातरगद्गदम् ॥
सर्वा यशोदया सार्धं विशामो ऽत्र महाह्रदे
नागराजस्य नो गन्तुम् अस्माकं युज्यते व्रजे ॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा
विना दुग्धेन का गावो विना कृष्णेन को व्रजः
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः
उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः ॥
नन्दं च दीनम् अत्यर्थं न्यस्तदृष्टिं सुतानने
मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया ॥
किम् अयं देवदेवेश भावो ऽयं मानुषस् त्वया
व्यज्यते स्वं तम् आत्मानं किम् अन्यं त्वं न वेत्सि यत् ॥
त्वम् अस्य जगतो नाभिः सुराणाम् एव चाश्रयः
कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः
गोप्यश् च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे ॥
दर्शितो मानुषो भावो दर्शितं बालचेष्टितम्
तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥
इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसंपुटः
आस्फाल्य मोचयाम् आस स्वं देहं भोगबन्धनात् ॥
आनाम्य चापि हस्ताभ्याम् उभाभ्यां मध्यमं फणम्
आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥
व्रणाः फणे ऽभवंस् तस्य कृष्णस्याङ्घ्रिविकुट्टनैः
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥
मूर्छाम् उपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः
दण्डपातनिपातेन ववाम रुधिरं बहु ॥
तं निर्भुग्नशिरोग्रीवम् आस्यप्रस्रुतशोणितम्
विलोक्य शरणं जग्मुस् तत्पत्न्यो मधुसूदनम् ॥
ज्ञातो ऽसि देवदेवेश सर्वेशस् त्वम् अनुत्तम
परं ज्योतिर् अचिन्त्यं यत् तदंशः परमेश्वरः ॥
न समर्थाः सुर स्तोतुं यम् अनन्यभवं प्रभुम्
स्वरूपवर्णनं तस्य कथं योषित् करिष्यति ॥
यस्याखिलमहीव्योम जलाग्निपवनात्मकम्
ब्रह्माण्डम् अल्पकांशांशः स्तोष्यामस् तं कथं वयम् ॥
ततः कुरु जगत्स्वामिन् प्रसादम् अवसीदतः
प्राणांस् त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम् ॥
इत्य् उक्ते ताभिर् आश्वास्य क्लान्तदेहो ऽपि पन्नगः
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥
तवाष्टगुणम् ऐश्वर्यं नाथ स्वाभाविकं परम्
निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्व् अहम् ॥
त्वं परस् त्वं परस्याद्यः परं त्वं तत्परात्मकम्
परस्मात् परमो यस् त्वं तस्य स्तोष्यामि किं न्व् अहम् ॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः
स्वभावेन च संयुक्तस् तथेदं चेष्टितं मया ॥
यद्य् अन्यथा प्रवर्तेय देवदेव ततो मयि
न्याय्यो दण्डनिपातस् ते तवैव वचनं यथा ॥
तथापि यं जगत्स्वामी दण्डं पातितवान् मयि
स सोढो ऽयं वरो दण्डस् त्वत्तो नान्यो ऽस्तु मे वरः ॥
हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत
जीवितं दीयताम् एकम् आज्ञापय करोमि किम् ॥
नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले
सभृत्यपरिवारस् त्वं समुद्रसलिलं व्रज ॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे
गरुडः पन्नगरिपुस् त्वयि न प्रहरिष्यति ॥
इत्य् उक्त्वा सर्पराजानं मुमोच भगवान् हरिः
प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम् ॥
पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥
गते सर्पे परिष्वज्य मृतं पुनर् इवागतम्
गोपा मूर्धनि गोविन्दं सिषिचुर् नेत्रजैर् जलैः ॥
कृष्णम् अक्लिष्टकर्माणम् अन्ये विस्मितचेतसः
तुष्टुवुर् मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥
गीयमानो ऽथ गोपीभिश् चरितैश् चारुचेष्टितैः
संस्तूयमानो गोपालैः कृष्णो व्रजम् उपागमत् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0