भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 184

184.1

विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः
प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥

184.2

वसुदेवो ऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम्
वार्धके ऽपि समुत्पन्नस् तनयो ऽयं तवाधुना ॥

184.3

दत्तो हि वार्षिकः सर्वो भवद्भिर् नृपतेः करः
यदर्थम् आगतस् तस्मान् नात्र स्थेयं महात्मना ॥

184.4

यदर्थम् आगतः कार्यं तन् निष्पन्नं किम् आस्यते
भवद्भिर् गम्यतां नन्द तच् छीघ्रं निजगोकुलम् ॥

184.5

ममापि बालकस् तत्र रोहिणीप्रसवो हि यः
स रक्षणीयो भवता यथायं तनयो निजः ॥

184.6

इत्य् उक्ताः प्रययुर् गोपा नन्दगोपपुरोगमाः
शकटारोपितैर् भाण्डैः करं दत्त्वा महाबलाः ॥

184.7

वसतां गोकुले तेषां पूतना बालघातिनी
सुप्तं कृष्णम् उपादाय रात्रौ च प्रददौ स्तनम् ॥

184.8

यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति
तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥

184.9

कृष्णस् तस्याः स्तनं गाढं कराभ्याम् अतिपीडितम्
गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥

184.10

सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥

184.11

तन्नादश्रुतिसंत्रासाद् विबुद्धास् ते व्रजौकसः
ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥

184.12

आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः
गोपुच्छभ्रामणाद्यैश् च बालदोषम् अपाकरोत् ॥

184.13

गोपुरीषम् उपादाय नन्दगोपो ऽपि मस्तके
कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदम् उदैरयत् ॥

184.14

रक्षतु त्वाम् अशेषाणां भूतानां प्रभवो हरिः
यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज् जगत् ॥

184.15

येन दंष्ट्राग्रविधृता धारयत्य् अवनी जगत्
वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥

184.16

गुह्यं स जठरं विष्णुर् जङ्घापादौ जनार्दनः
वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत् ॥

184.17

त्रिविक्रमक्रमाक्रान्त त्रैलोक्यस्फुरदायुधः
शिरस् ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥

184.18

मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च
रक्षत्व् अव्याहतैश्वर्यस् तव नारायणो ऽव्ययः ॥

184.19

त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः
हृषीकेशो ऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥

184.20

एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः
शायितः शकटस्याधो बालपर्यङ्किकातले ॥

184.21

ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम्
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥

184.22

कदाचिच् छकटस्याधः शयानो मधुसूदनः
चिक्षेप चरणाव् ऊर्ध्वं स्तनार्थी प्ररुरोद च ॥

184.23

तस्य पादप्रहारेण शकटं परिवर्तितम्
विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै ॥

184.24

ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः
आजगाम तदा ज्ञात्वा बालम् उत्तानशायिनम् ॥

184.25

गोपाः केनेति जगदुः शकटं परिवर्तितम्
तत्रैव बालकाः प्रोचुर् बालेनानेन पातितम् ॥

184.26

रुदता दृष्टम् अस्माभिः पादविक्षेपताडितम्
शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम् ॥

184.27

ततः पुनर् अतीवासन् गोपा विस्मितचेतसः
नन्दगोपो ऽपि जग्राह बालम् अत्यन्तविस्मितः ॥

184.28

यशोदा विस्मयारूढा भग्नभाण्डकपालकम्
शकटं चार्चयाम् आस दधिपुष्पफलाक्षतैः ॥

184.29

गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः
प्रच्छन्न एव गोपानां संस्कारम् अकरोत् तयोः ॥

184.30

ज्येष्ठं च रामम् इत्य् आह कृष्णं चैव तथापरम्
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः ॥

184.31

अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ
घृष्टजानुकरौ विप्रा बभूवतुर् उभाव् अपि ॥

184.32

करीषभस्मदिग्धाङ्गौ भ्रममाणाव् इतस् ततः
न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥

184.33

गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः
तदहर्जातगोवत्स पुच्छाकर्षणतत्परौ ॥

184.34

यदा यशोदा तौ बालाव् एकस्थानचराव् उभौ
शशाक नो वारयितुं क्रीडन्ताव् अतिचञ्चलौ ॥

184.35

दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले
कृष्णम् अक्लिष्टकर्माणम् आह चेदम् अमर्षिता ॥

184.36

यदि शक्तो ऽसि गच्छ त्वम् अतिचञ्चलचेष्टित ॥

184.37

इत्य् उक्त्वा च निजं कर्म सा चकार कुटुम्बिनी
व्यग्रायाम् अथ तस्यां स कर्षमाण उलूखलम् ॥

184.38

यमलार्जुनयोर् मध्ये जगाम कमलेक्षणः
कर्षता वृक्षयोर् मध्ये तिर्यग् एवम् उलूखलम् ॥

184.39

भग्नाव् उत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ
ततः कटकटाशब्द समाकर्णनकातरः ॥

184.40

आजगाम व्रजजनो ददृशे च महाद्रुमौ
भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले ॥

184.41

ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम्
तयोर् मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥

184.42

ततश् च दामोदरतां स ययौ दामबन्धनात्
गोपवृद्धास् ततः सर्वे नन्दगोपपुरोगमाः ॥

184.43

मन्त्रयाम् आसुर् उद्विग्ना महोत्पातातिभीरवः
स्थानेनेह न नः कार्यं व्रजामो ऽन्यन् महावनम् ॥

184.44

उत्पाता बहवो ह्य् अत्र दृश्यन्ते नाशहेतवः
पूतनाया विनाशश् च शकटस्य विपर्ययः ॥

184.45

विना वातादिदोषेण द्रुमयोः पतनं तथा
वृन्दावनम् इतः स्थानात् तस्माद् गच्छाम मा चिरम् ॥

184.46

यावद् भौममहोत्पात दोषो नाभिभवेद् व्रजम्
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ॥

184.47

ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम्
ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा ॥

184.48

यूथशो वत्सपालीश् च कालयन्तो व्रजौकसः
सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा ॥

184.49

काककाकीसमाकीर्णं व्रजस्थानम् अभूद् द्विजाः
वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ॥

184.50

शुभेन मनसा ध्यातं गवां वृद्धिम् अभीप्सता
ततस् तत्रातिरुक्षे ऽपि धर्मकाले द्विजोत्तमाः ॥

184.51

प्रावृट्काल इवाभूच् च नवशष्पं समन्ततः
स समावासितः सर्वो व्रजो वृन्दावने ततः ॥

184.52

शकटीवाटपर्यन्त चन्द्रार्धाकारसंस्थितिः
वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥

184.53

तत्र स्थितौ तौ च गोष्ठे चेरतुर् बाललीलया
बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ ॥

184.54

गोपवेणुकृतातोद्य पत्त्रवाद्यकृतस्वनौ
काकपक्षधरौ बालौ कुमाराव् इव पावकौ ॥

184.55

हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम्
क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथा परैः ॥

184.56

गोपपुत्रैः समं वत्सांश् चारयन्तौ विचेरतुः
कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥

184.57

सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे
प्रावृट्कालस् ततो ऽतीव मेघौघस्थगिताम्बरः ॥

184.58

बभूव वारिधाराभिर् ऐक्यं कुर्वन् दिशाम् इव
प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥

184.59

यथा मारकते वासीत् पद्मरागविभूषिता
ऊहुर् उन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥

184.60

मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवाम् इव
विकाले च यथाकामं व्रजम् एत्य महाबलौ
गोपैः समानैः सहितौ चिक्रीडाते ऽमराव् इव ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc