ब्रह्म पुराण · अध्याय 183
कंसस् त्व् अथोद्विग्नमनाः प्राह सर्वान् महासुरान्
प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान् ॥
हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने
अरिष्टाद्यैस् तथा चान्यैः श्रूयतां वचनं मम ॥
मां हन्तुम् अमरैर् यत्नः कृतः किल दुरात्मभिः
मद्वीर्यतापितान् वीरान् न त्व् एतान् गणयाम्य् अहम् ॥
आश्चर्यं कन्यया चोक्तं जायते दैत्यपुंगवाः
हास्यं मे जायते वीरास् तेषु यत्नपरेष्व् अपि ॥
तथापि खलु दुष्टानां तेषाम् अप्य् अधिकं मया
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥
उत्पन्नश् चापि मृत्युर् मे भूतभव्यभवत्प्रभुः
इत्य् एतद् बालिका प्राह देवकीगर्भसंभवा ॥
तस्माद् बालेषु परमो यत्नः कार्यो महीतले
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥
इत्य् आज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः
उवाच वसुदेवं च देवकीम् अविरोधतः ॥
युवयोर् घातिता गर्भा वृथैवैते मयाधुना
को ऽप्य् अन्य एव नाशाय बालो मम समुद्गतः ॥
तद् अलं परितापेन नूनं यद् भाविनो हि ते
अर्भका युवयोः को वा आयुषो ऽन्ते न हन्यते ॥
इत्य् आश्वास्य विमुच्यैव कंसस् तौ परितोष्य च
अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0