ब्रह्म पुराण · अध्याय 182
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥
सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः
लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥
योगनिद्रा यशोदायास् तस्मिन्न् एव ततो दिने
संभूता जठरे तद्वद् यथोक्तं परमेष्ठिना ॥
ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः
विष्णोर् अंशे महीं यात ऋतवो ऽप्य् अभवञ् शुभाः ॥
नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्य् अतितेजसा
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभम् आययुः ॥
अदृष्टां पुरुषैः स्त्रीभिर् देवकीं देवतागणाः
बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशम् ॥
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिर् एव च
त्वं सर्वलोकरक्षार्थम् अवतीर्णा महीतले ॥
प्रसीद देवि सर्वस्य जगतस् त्वं शुभं कुरु
प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥
एवं संस्तूयमाना सा देवैर् देवम् अधारयत्
गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥
ततो ऽखिलजगत्पद्म बोधायाच्युतभानुना
देवक्याः पूर्वसंध्यायाम् आविर्भूतं महात्मना ॥
मध्यरात्रे ऽखिलाधारे जायमाने जनार्दने
मन्दं जगर्जुर् जलदाः पुष्पवृष्टिमुचः सुराः ॥
फुल्लेन्दीवरपत्त्राभं चतुर्बाहुम् उदीक्ष्य तम्
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः
विज्ञापयाम् आस तदा कंसाद् भीतो द्विजोत्तमाः ॥
ज्ञातो ऽसि देवदेवेश शङ्खचक्रगदाधर
दिव्यं रूपम् इदं देव प्रसादेनोपसंहर ॥
अद्यैव देव कंसो ऽयं कुरुते मम यातनाम्
अवतीर्णम् इति ज्ञात्वा त्वाम् अस्मिन् मन्दिरे मम ॥
यो ऽनन्तरूपो ऽखिलविश्वरूपो गर्भे ऽपि लोकान् वपुषा बिभर्ति
प्रसीदताम् एष स देवदेवः स्वमाययाविष्कृतबालरूपः
उपसंहर सर्वात्मन् रूपम् एतच् चतुर्भुजम्
जानातु मावतारं ते कंसो ऽयं दितिजान्तक ॥
स्तुतो ऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते
सफलं देवि संजातं जातो ऽहं यत् तवोदरात् ॥
इत्य् उक्त्वा भगवांस् तूष्णीं बभूव मुनिसत्तमाः
वसुदेवो ऽपि तं रात्राव् आदाय प्रययौ बहिः ॥
मोहिताश् चाभवंस् तत्र रक्षिणो योगनिद्रया
मथुराद्वारपालाश् च व्रजत्य् आनकदुन्दुभौ ॥
वर्षतां जलदानां च तत् तोयम् उल्बणं निशि
संछाद्य तं ययौ शेषः फणैर् आनकदुन्दुभिम् ॥
यमुनां चातिगम्भीरां नानावर्तशताकुलाम्
वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ ॥
कंसस्य करम् आदाय तत्रैवाभ्यागतांस् तटे
नन्दादीन् गोपवृद्धांश् च यमुनायां ददर्श सः ॥
तस्मिन् काले यशोदापि मोहिता योगनिद्रया
ताम् एव कन्यां मुनयः प्रासूत मोहिते जने ॥
वसुदेवो ऽपि विन्यस्य बालम् आदाय दारिकाम्
यशोदाशयने तूर्णम् आजगामामितद्युतिः ॥
ददर्श च विबुद्ध्वा सा यशोदा जातम् आत्मजम्
नीलोत्पलदलश्यामं ततो ऽत्यर्थं मुदं ययौ ॥
आदाय वसुदेवो ऽपि दारिकां निजमन्दिरम्
देवकीशयने न्यस्य यथापूर्वम् अतिष्ठत ॥
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः
कंसम् आवेदयाम् आसुर् देवकीप्रसवं द्विजाः ॥
कंसस् तूर्णम् उपेत्यैनां ततो जग्राह बालिकाम्
मुञ्च मुञ्चेति देवक्या सन्नकण्ठं निवारितः ॥
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम्
अवाप रूपं च महत् सायुधाष्टमहाभुजम्
प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥
किं मयाक्षिप्तया कंस जातो यस् त्वां हनिष्यति
सर्वस्वभूतो देवानाम् आसीन् मृत्युः पुरा स ते
तद् एतत् संप्रधार्याशु क्रियतां हितम् आत्मनः ॥
इत्य् उक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा
पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0