भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 181

181.1

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः
अवतारं हरेश् चात्र भारावतरणेच्छया ॥

181.2

यदा यदा त्व् अधर्मस्य वृद्धिर् भवति भो द्विजाः
धर्मश् च ह्रासम् अभ्येति तदा देवो जनार्दनः ॥

181.3

अवतारं करोत्य् अत्र द्विधा कृत्वात्मनस् तनुम्
साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥

181.4

दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम्
प्रजानां रक्षणार्थाय जायते ऽसौ युगे युगे ॥

181.5

पुरा किल मही विप्रा भूरिभारावपीडिता
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥

181.6

सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी
कथयाम् आस तत् सर्वं खेदात् करुणभाषिणी ॥

181.7

अग्निः सुवर्णस्य गुरुर् गवां सूर्यो ऽपरो गुरुः
ममाप्य् अखिललोकानां वन्द्यो नारायणो गुरुः ॥

181.8

तत्सांप्रतम् इमे दैत्याः कालनेमिपुरोगमाः
मर्त्यलोकं समागम्य बाधन्ते ऽहर्निशं प्रजाः ॥

181.9

कालनेमिर् हतो यो ऽसौ विष्णुना प्रभविष्णुना
उग्रसेनसुतः कंसः संभूतः सुमहासुरः ॥

181.10

अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा
सुन्दो ऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः ॥

181.11

तथान्ये च महावीर्या नृपाणां भवनेषु ये
समुत्पन्ना दुरात्मानस् तान् न संख्यातुम् उत्सहे ॥

181.12

अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥

181.13

तद्भूरिभारपीडार्ता न शक्नोम्य् अमरेश्वराः
विभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः ॥

181.14

क्रियतां तन् महाभागा मम भारावतारणम्
यथा रसातलं नाहं गच्छेयम् अतिविह्वला ॥

181.15

इत्य् आकर्ण्य धरावाक्यम् अशेषैस् त्रिदशैस् ततः
भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥

181.16

यद् आह वसुधा सर्वं सत्यम् एतद् दिवौकसः
अहं भवो भवन्तश् च सर्वं नारायणात्मकम् ॥

181.17

विभूतयस् तु यास् तस्य तासाम् एव परस्परम्
आधिक्यं न्यूनता बाध्य बाधकत्वेन वर्तते ॥

181.18

तद् आगच्छत गच्छामः क्षीराब्धेस् तटम् उत्तमम्
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥

181.19

सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥

181.20

इत्य् उक्त्वा प्रययौ तत्र सह देवैः पितामहः
समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥

181.21

नमो नमस् ते ऽस्तु सहस्रमूर्ते सहस्रबाहो बहुवक्त्रपाद
नमो नमस् ते जगतः प्रवृत्ति विनाशसंस्थानपराप्रमेय

181.22

सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं गरीयसाम् अप्य् अतिगौरवात्मन्
प्रधानबुद्धीन्द्रियवाक्प्रधान मूलापरात्मन् भगवन् प्रसीद

181.23

एषा मही देव महीप्रसूतैर् महासुरैः पीडितशैलबन्धा
परायणं त्वां जगताम् उपैति भारावतारार्थम् अपारपारम्

181.24

एते वयं वृत्ररिपुस् तथायं नासत्यदस्रौ वरुणस् तथैषः
इमे च रुद्रा वसवः ससूर्याः समीरणाग्निप्रमुखास् तथान्ये

181.25

सुराः समस्ताः सुरनाथ कार्यम् एभिर् मया यच् च तद् ईश सर्वम्
आज्ञापयाज्ञां प्रतिपालयन्तस् तवैव तिष्ठाम सदास्तदोषाः

181.26

एवं संस्तूयमानस् तु भगवान् परमेश्वरः
उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥

181.27

उवाच च सुरान् एतौ मत्केशौ वसुधातले
अवतीर्य भुवो भार क्लेशहानिं करिष्यतः ॥

181.28

सुराश् च सकलाः स्वांशैर् अवतीर्य महीतले
कुर्वन्तु युद्धम् उन्मत्तैः पूर्वोत्पन्नैर् महासुरैः ॥

181.29

ततः क्षयम् अशेषास् ते दैतेया धरणीतले
प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः ॥

181.30

वसुदेवस्य या पत्नी देवकी देवतोपमा
तस्या गर्भो ऽष्टमो ऽयं तु मत्केशो भविता सुराः ॥

181.31

अवतीर्य च तत्रायं कंसं घातयिता भुवि
कालनेमिसमुद्भूतम् इत्य् उक्त्वान्तर्दधे हरिः ॥

181.32

अदृश्याय ततस् ते ऽपि प्रणिपत्य महात्मने
मेरुपृष्ठं सुरा जग्मुर् अवतेरुश् च भूतले ॥

181.33

कंसाय चाष्टमो गर्भो देवक्या धरणीतले
भविष्यतीत्य् आचचक्षे भगवान् नारदो मुनिः ॥

181.34

कंसो ऽपि तद् उपश्रुत्य नारदात् कुपितस् ततः
देवकीं वसुदेवं च गृहे गुप्ताव् अधारयत् ॥

181.35

जातं जातं च कंसाय तेनैवोक्तं यथा पुरा
तथैव वसुदेवो ऽपि पुत्रम् अर्पितवान् द्विजाः ॥

181.36

हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः
विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत् ॥

181.37

योगनिद्रा महामाया वैष्णवी मोहितं यया
अविद्यया जगत् सर्वं ताम् आह भगवान् हरिः ॥

181.38

गच्छ निद्रे ममादेशात् पातालतलसंश्रयान्
एकैकश्येन षड्गर्भान् देवकीजठरे नय ॥

181.39

हतेषु तेषु कंसेन शेषाख्यो ऽंशस् ततो ऽनघः
अंशांशेनोदरे तस्याः सप्तमः संभविष्यति ॥

181.40

गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता
तस्याः प्रसूतिसमये गर्भो नेयस् त्वयोदरम् ॥

181.41

सप्तमो भोजराजस्य भयाद् रोधोपरोधतः
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥

181.42

गर्भसंकर्षणात् सो ऽथ लोके संकर्षणेति वै
संज्ञाम् अवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥

181.43

ततो ऽहं संभविष्यामि देवकीजठरे शुभे
गर्भे त्वया यशोदाया गन्तव्यम् अविलम्बितम् ॥

181.44

प्रावृट्काले च नभसि कृष्णाष्टम्याम् अहं निशि
उत्पत्स्यामि नवम्यां च प्रसूतिं त्वम् अवाप्स्यसि ॥

181.45

यशोदाशयने मां तु देवक्यास् त्वाम् अनिन्दिते
मच्छक्तिप्रेरितमतिर् वसुदेवो नयिष्यति ॥

181.46

कंसश् च त्वाम् उपादाय देवि शैलशिलातले
प्रक्षेप्स्यत्य् अन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥

181.47

ततस् त्वां शतधा शक्रः प्रणम्य मम गौरवात्
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥

181.48

ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः
स्थानैर् अनेकैः पृथिवीम् अशेषां मण्डयिष्यसि ॥

181.49

त्वं भूतिः संनतिः कीर्तिः कान्तिर् वै पृथिवी धृतिः
लज्जा पुष्टिर् उषा या च काचिद् अन्या त्वम् एव सा ॥

181.50

ये त्वाम् आर्येति दुर्गेति वेदगर्भे ऽम्बिकेति च
भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥

181.51

प्रातश् चैवापराह्णे च स्तोष्यन्त्य् आनम्रमूर्तयः
तेषां हि वाञ्छितं सर्वं मत्प्रसादाद् भविष्यति ॥

181.52

सुरामांसोपहारैस् तु भक्ष्यभोज्यैश् च पूजिता
नृणाम् अशेषकामांस् त्वं प्रसन्नायां प्रदास्यसि ॥

181.53

ते सर्वे सर्वदा भद्रा मत्प्रसादाद् असंशयम्
असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc