भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 178

178.1

तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥

178.2

कण्डुर् नाम महातेजा ऋषिः परमधार्मिकः
सत्यवादी शुचिर् दान्तः सर्वभूतहिते रतः ॥

178.3

जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः
अवाप परमां सिद्धिम् आराध्य पुरुषोत्तमम् ॥

178.4

अन्ये ऽपि तत्र संसिद्धा मुनयः संशितव्रताः
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥

178.5

को ऽसौ कण्डुः कथं तत्र जगाम परमां गतिम्
श्रोतुम् इच्छामहे तस्य चरितं ब्रूहि सत्तम ॥

178.6

शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम्
प्रवक्ष्यामि समासेन मुनेस् तस्य विचेष्टितम् ॥

178.7

पवित्रे गोमतीतीरे विजने सुमनोहरे
कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥

178.8

नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते
नानापक्षिरुते रम्ये नानामृगगणान्विते ॥

178.9

तत्राश्रमपदं कण्डोर् बभूव मुनिसत्तमाः
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥

178.10

तपस् तेपे मुनिस् तत्र सुमहत् परमाद्भुतम्
व्रतोपवासैर् नियमैः स्नानमौनसुसंयमैः ॥

178.11

ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः
आर्द्रवासास् तु हेमन्ते स तेपे सुमहत् तपः ॥

178.12

दृष्ट्वा तु तपसो वीर्यं मुनेस् तस्य सुविस्मिताः
बभूवुर् देवगन्धर्वाः सिद्धविद्याधरास् तथा ॥

178.13

भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः
कण्डुः संतापयाम् आस त्रैलोक्यं तपसो बलात् ॥

178.14

अहो ऽस्य परमं धैर्यम् अहो ऽस्य परमं तपः
इत्य् अब्रुवंस् तदा दृष्ट्वा देवास् तं तपसि स्थितम् ॥

178.15

मन्त्रयाम् आसुर् अव्यग्राः शक्रेण सहितास् तदा
भयात् तस्य समुद्विग्नास् तपोविघ्नम् अभीप्सवः ॥

178.16

ज्ञात्वा तेषाम् अभिप्रायं शक्रस् त्रिभुवनेश्वरः
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥

178.17

सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम्
सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः ॥

178.18

प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः
विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥

178.19

तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो
किंतु शङ्का ममैवात्र जीवितस्य च संशयः ॥

178.20

बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम्
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥

178.21

ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम्
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥

178.22

उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला
विश्वाची सहजन्या च पूर्वचित्तिस् तिलोत्तमा ॥

178.23

अलम्बुषा मिश्रकेशी शशिलेखा च वामना
अन्याश् चाप्सरसः सन्ति रूपयौवनगर्विताः ॥

178.24

सुमध्याश् चारुवदनाः पीनोन्नतपयोधराः
कामप्रधानकुशलास् तास् तत्र संनियोजय ॥

178.25

तस्यास् तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः
तिष्ठन्तु नाम चान्यास् तास् त्वं चात्र कुशला शुभे ॥

178.26

कामं वसन्तं वायुं च सहायार्थे ददामि ते
तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥

178.27

शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना
जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥

178.28

गत्वा सा तत्र रुचिरं ददर्श वनम् उत्तमम्
मुनिं च दीप्ततपसम् आश्रमस्थम् अकल्मषम् ॥

178.29

अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम्
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥

178.30

पुण्यं पद्मबलोपेतं सपल्लवमहाबलम्
श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान् ॥

178.31

सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्
अपश्यत् पादपांश् चैव विहंगैर् अनुनादितान् ॥

178.32

आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान्
अथ बिल्वांस् तथा जीवान् दाडिमान् बीजपूरकान् ॥

178.33

पनसांल् लकुचान् नीपाञ् शिरीषान् सुमनोहरान्
पारावतांस् तथा कोलान् अरिमेदाम्लवेतसान् ॥

178.34

भल्लातकान् आमलकाञ् शतपर्णांश् च किंशुकान्
इङ्गुदान् करवीरांश् च हरीतकीविभीतकान् ॥

178.35

एतान् अन्यांश् च सा वृक्षान् ददर्श पृथुलोचना
तथैवाशोकपुंनाग केतकीबकुलान् अथ ॥

178.36

पारिजातान् कोविदारान् मन्दारेन्दीवरांस् तथा
पाटलाः पुष्पिता रम्या देवदारुद्रुमांस् तथा ॥

178.37

शालांस् तालांस् तमालांश् च निचुलांल् लोमकांस् तथा
अन्यांश् च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान् ॥

178.38

चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः
कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥

178.39

प्रियपुत्रैश् चातकैश् च तथान्यैर् विविधैः खगैः
श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितम् ॥

178.40

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च
कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः ॥

178.41

कह्लारैः कमलैश् चैव आचितानि समन्ततः
कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः ॥

178.42

कारण्डवैर् बकैर् हंसैः कूर्मैर् मद्गुभिर् एव च
एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः ॥

178.43

क्रमेणैव तथा सा तु वनं बभ्राम तैः सह
एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम् ॥

178.44

विस्मयोत्फुल्लनयना सा बभूव वराङ्गना
प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥

178.45

कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक् पृथक् ॥

178.46

एवम् उक्त्वा तदा सा तु तथेत्य् उक्ता सुरैर् द्विजाः
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥

178.47

अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम्
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥

178.48

ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः
तथाप्य् अद्य करिष्यामि कामबाणक्षतान्तरम् ॥

178.49

इत्य् उक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः
मुनेस् तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥

178.50

सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता
स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः ॥

178.51

ततो वसन्तः सहसा बलं समकरोत् तदा
कोकिलारावमधुरम् अकालिकमनोहरम् ॥

178.52

ववौ गन्धवहश् चैव मलयाद्रिनिकेतनः
पुष्पान् उच्चावचान् मेध्यान् पातयंश् च शनैः शनैः ॥

178.53

पुष्पबाणधरश् चैव गत्वा तस्य समीपतः
मुनेश् च क्षोभयाम् आस कामस् तस्यापि मानसम् ॥

178.54

ततो गीतध्वनिं श्रुत्वा मुनिर् विस्मितमानसः
जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः ॥

178.55

दृष्ट्वा ताम् आह संदृष्टो विस्मयोत्फुल्ललोचनः
भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥

178.56

कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि
मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥

178.57

तव कर्मकरा चाहं पुष्पार्थम् अहम् आगता
आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया ॥

178.58

श्रुत्वैवं वचनं तस्यास् त्यक्त्वा धैर्यं विमोहितः
आदाय हस्ते तां बालां प्रविवेश स्वम् आश्रमम् ॥

178.59

ततः कामश् च वायुश् च वसन्तश् च द्विजोत्तमाः
जग्मुर् यथागतं सर्वे कृतकृत्यास् त्रिविष्टपम् ॥

178.60

शशंसुश् च हरिं गत्वा तस्यास् तस्य च चेष्टितम्
श्रुत्वा शक्रस् तदा देवाः प्रीताः सुमनसो ऽभवन् ॥

178.61

स च कण्डुस् तया सार्धं प्रविशन्न् एव चाश्रमम्
आत्मनः परमं रूपं चकार मदनाकृति ॥

178.62

रूपयौवनसंपन्नम् अतीव सुमनोहरम्
दिव्यालंकारसंयुक्तं षोडशवत्सराकृति ॥

178.63

दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम्
सर्वोपभोगसंपन्नं सहसा तपसो बलात् ॥

178.64

दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयम् आगता
अहो ऽस्य तपसो वीर्यम् इत्य् उक्त्वा मुदिताभवत् ॥

178.65

स्नानं संध्यां जपं होमं स्वाध्यायं देवतार्चनम्
व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः ॥

178.66

त्यक्त्वा स रेमे मुदितस् तया सार्धम् अहर्निशम्
मन्मथाविष्टहृदयो न बुबोध तपःक्षयम् ॥

178.67

संध्यारात्रिदिवापक्ष मासर्त्वयनहायनम्
न बुबोध गतं कालं विषयासक्तमानसः ॥

178.68

सा च तं कामजैर् भावैर् विदग्धा रहसि द्विजाः
वरयाम् आस सुश्रोणिः प्रलापकुशला तदा ॥

178.69

एवं कण्डुस् तया सार्धं वर्षाणाम् अधिकं शतम्
अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥

178.70

सा तं प्राह महाभागं गन्तुम् इच्छाम्य् अहं दिवम्
प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वम् अर्हसि ॥

178.71

तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः
दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत ॥

178.72

एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः
बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना ॥

178.73

अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम्
उक्तस् तयेति स पुनः स्थीयताम् इत्य् अभाषत ॥

178.74

पुनर् गते वर्षशते साधिके सा शुभानना
याम्य् अहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥

178.75

उक्तस् तयैवं स मुनिः पुनर् आहायतेक्षणाम्
इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि ॥

178.76

तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः
शतद्वयं किंचिद् ऊनं वर्षाणां समतिष्ठत ॥

178.77

गमनाय महाभागो देवराजनिवेशनम्
प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत ॥

178.78

तस्य शापभयाद् भीरुर् दाक्षिण्येन च दक्षिणा
प्रोक्ता प्रणयभङ्गार्ति वेदिनी न जहौ मुनिम् ॥

178.79

तया च रमतस् तस्य परमर्षेर् अहर्निशम्
नवं नवम् अभूत् प्रेम मन्मथासक्तचेतसः ॥

178.80

एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥

178.81

इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे
संध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत् ॥

178.82

ततः प्रहस्य मुदिता सा तं प्राह महामुनिम्
किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव
गतम् एतन् न कुरुते विस्मयं कस्य कथ्यते ॥

178.83

प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम्
मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम् ॥

178.84

इयं च वर्तते संध्या परिणामम् अहो गतम्
अवहासः किमर्थो ऽयं सद्भावः कथ्यतां मम ॥

178.85

प्रत्यूषस्य् आगता ब्रह्मन् सत्यम् एतन् न मे मृषा
किंत्व् अद्य तस्य कालस्य गतान्य् अब्दशतानि ते ॥

178.86

ततः ससाध्वसो विप्रस् तां पप्रच्छायतेक्षणाम्
कथ्यतां भीरु कः कालस् त्वया मे रमतः सदा ॥

178.87

सप्तोत्तराण्य् अतीतानि नववर्षशतानि च
मासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥

178.88

सत्यं भीरु वदस्य् एतत् परिहासो ऽथवा शुभे
दिनम् एकम् अहं मन्ये त्वया सार्धम् इहोषितम् ॥

178.89

वदिष्याम्य् अनृतं ब्रह्मन् कथम् अत्र तवान्तिके
विशेषाद् अद्य भवता पृष्टा मार्गानुगामिना ॥

178.90

निशम्य तद् वचस् तस्याः स मुनिर् द्विजसत्तमाः
धिग् धिङ् माम् इत्य् अनाचारं विनिन्द्यात्मानम् आत्मना ॥

178.91

तपांसि मम नष्टानि हतं ब्रह्मविदां धनम्
हृतो विवेकः केनापि योषिन् मोहाय निर्मिता ॥

178.92

ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे
गतिर् एषा कृता येन धिक् तं काममहाग्रहम् ॥

178.93

व्रतानि सर्ववेदाश् च कारणान्य् अखिलानि च
नरकग्राममार्गेण कामेनाद्य हतानि मे ॥

178.95

न त्वां करोम्य् अहं भस्म क्रोधतीव्रेण वह्निना
सतां साप्तपदं मैत्र्यम् उषितो ऽहं त्वया सह ॥

178.96

अथवा तव दोषः कः किं वा कुर्याम् अहं तव
ममैव दोषो नितरां येनाहम् अजितेन्द्रियः ॥

178.97

यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः
त्वया दृष्टिमहामोह मनुनाहं जुगुप्सितः ॥

178.98

यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम्
तावत् स्खलत्स्वेदजला सा बभूवातिवेपथुः ॥

178.99

प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम्
गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः ॥

178.100

सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात्
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥

178.101

वृक्षाद् वृक्षं ययौ बाला उदग्रारुणपल्लवैः
निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥

178.102

ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः
निर्जगाम सरोमाञ्च स्वेदरूपी तदङ्गतः ॥

178.103

तं वृक्षा जगृहुर् गर्भम् एकं चक्रे च मारुतः
सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः ॥

178.104

मारिषा नाम कन्याभूद् वृक्षाणां चारुलोचना
प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥

178.105

स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः
पुरुषोत्तमाख्यं भो विप्रा विष्णोर् आयतनं ययौ ॥

178.106

ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम्
दक्षिणस्योदधेस् तीरे सर्वकामफलप्रदम् ॥

178.107

सुरम्यं वालुकाकीर्णं केतकीवनशोभितम्
नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥

178.108

सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम्
सर्वसौख्यप्रदं नॄणां धन्यं सर्वगुणाकरम् ॥

178.109

भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस् तथा
गन्धर्वैः किंनरैर् यक्षैस् तथान्यैर् मोक्षकाङ्क्षिभिः ॥

178.110

ददर्श च हरिं तत्र देवैः सर्वैर् अलंकृतम्
ब्राह्मणाद्यैस् तथा वर्णैर् आश्रमस्थैर् निषेवितम् ॥

178.111

दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम्
कृतकृत्यम् इवात्मानं मेने स मुनिसत्तमः ॥

178.112

तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः
ब्रह्मपारमयं कुर्वञ् जपम् एकाग्रमानसः
ऊर्ध्वबाहुर् महायोगी स्थित्वासौ मुनिसत्तमः ॥

178.113

ब्रह्मपारं मुने श्रोतुम् इच्छामः परमं शुभम्
जपता कण्डुना देवो येनाराध्यत केशवः ॥

178.114

पारं परं विष्णुर् अपारपारः परः परेभ्यः परमात्मरूपः
स ब्रह्मपारः परपारभूतः परः पराणाम् अपि पारपारः

178.115

स कारणं कारणसंश्रितो ऽपि तस्यापि हेतुः परहेतुहेतुः
कार्यो ऽपि चैष सह कर्मकर्तृ रूपैर् अनेकैर् अवतीह सर्वम्

178.116

ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ
ब्रह्माव्ययं नित्यम् अजं स विष्णुर् अपक्षयाद्यैर् अखिलैर् असङ्गः

178.117

ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥

178.118

श्रुत्वा तस्य मुनेर् जाप्यं ब्रह्मपारं द्विजोत्तमाः
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥

178.119

प्रीत्या स परया देवस् तदासौ भक्तवत्सलः
गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥

178.120

मेघगम्भीरया वाचा दिशः संनादयन्न् इव
आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥

178.121

मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते
वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत ॥

178.122

श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः
चक्षुर् उन्मील्य सहसा ददर्श पुरतो हरिम् ॥

178.123

अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम्
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥

178.124

चतुर्बाहुम् उदाराङ्गं पीतवस्त्रधरं शुभम्
श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥

178.125

सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम्
दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥

178.126

ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः
दण्डवत् प्रणिपत्योर्व्यां प्रणामम् अकरोत् तदा ॥

178.127

अद्य मे सफलं जन्म अद्य मे सफलं तपः
इत्य् उक्त्वा मुनिशार्दूलास् तं स्तोतुम् उपचक्रमे ॥

178.128

नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते
जगद्बीज जगद्धाम जगत्साक्षिन् नमो ऽस्तु ते ॥

178.129

अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम
पुण्डरीकाक्ष गोविन्द लोकनाथ नमो ऽस्तु ते ॥

178.130

हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन
भूगर्भ ध्रुव ईशान हृषीकेश नमो ऽस्तु ते ॥

178.131

अनाद्यन्तामृताजेय जय त्वं जयतां वर
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमो ऽस्तु ते ॥

178.132

पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित
दुःखार्तिनाशन हरे जलशायिन् नमो ऽस्तु ते ॥

178.133

भूतपाव्यक्त भूतेश भूततत्त्वैर् अनाकुल
भूताधिवास भूतात्मन् भूतगर्भ नमो ऽस्तु ते ॥

178.134

यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमो ऽस्तु ते ॥

178.135

क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी
क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमो ऽस्तु ते ॥

178.136

गुणालय गुणावास गुणाश्रय गुणावह
गुणभोक्तृ गुणाराम गुणत्यागिन् नमो ऽस्तु ते ॥

178.137

त्वं विष्णुस् त्वं हरिश् चक्री त्वं जिष्णुस् त्वं जनार्दनः
त्वं भूतस् त्वं वषट्कारस् त्वं भव्यस् त्वं भवत्प्रभुः ॥

178.138

त्वं भूतकृत् त्वम् अव्यक्तस् त्वं भवो भूतभृद् भवान्
त्वं भूतभावनो देवस् त्वाम् आहुर् अजम् ईश्वरम् ॥

178.139

त्वम् अनन्तः कृतज्ञस् त्वं प्रकृतिस् त्वं वृषाकपिः
त्वं रुद्रस् त्वं दुराधर्षस् त्वम् अमोघस् त्वम् ईश्वरः ॥

178.140

त्वं विश्वकर्मा जिष्णुस् त्वं त्वं शंभुस् त्वं वृषाकृतिः
त्वं शंकरस् त्वम् उशना त्वं सत्यं त्वं तपो जनः ॥

178.141

त्वं विश्वजेता त्वं शर्म त्वं शरण्यस् त्वम् अक्षरम्
त्वं शंभुस् त्वं स्वयंभूश् च त्वं ज्येष्ठस् त्वं परायणः ॥

178.142

त्वम् आदित्यस् त्वम् ओंकारस् त्वं प्राणस् त्वं तमिस्रहा
त्वं पर्जन्यस् त्वं प्रथितस् त्वं वेधास् त्वं सुरेश्वरः ॥

178.143

त्वम् ऋग् यजुः साम चैव त्वम् आत्मा संमतो भवान्
त्वम् अग्निस् त्वं च पवनस् त्वम् आपो वसुधा भवान् ॥

178.144

त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः
त्वं प्रभुस् त्वं विभुः श्रेष्ठस् त्वं लोकपतिर् अच्युतः ॥

178.145

त्वं सर्वदर्शनः श्रीमांस् त्वं सर्वदमनो ऽरिहा
त्वम् अहस् त्वं तथा रात्रिस् त्वाम् आहुर् वत्सरं बुधाः ॥

178.146

त्वं कालस् त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः
त्वं बालस् त्वं तथा वृद्धस् त्वं पुमान् स्त्री नपुंसकः ॥

178.147

त्वं विश्वयोनिस् त्वं चक्षुस् त्वं स्थाणुस् त्वं शुचिश्रवाः
त्वं शाश्वतस् त्वम् अजितस् त्वम् उपेन्द्रस् त्वम् उत्तमः ॥

178.148

त्वं सर्वविश्वसुखदस् त्वं वेदाङ्गं त्वम् अव्ययः
त्वं वेदवेदस् त्वं धाता विधाता त्वं समाहितः ॥

178.149

त्वं जलनिधिर् आमूलं त्वं धाता त्वं पुनर् वसुः
त्वं वैद्यस् त्वं धृतात्मा च त्वम् अतीन्द्रियगोचरः ॥

178.150

त्वम् अग्रणीर् ग्रामणीस् त्वं त्वं सुपर्णस् त्वम् आदिमान्
त्वं संग्रहस् त्वं सुमहत् त्वं धृतात्मा त्वम् अच्युतः ॥

178.151

त्वं यमस् त्वं च नियमस् त्वं प्रांशुस् त्वं चतुर्भुजः
त्वम् एवान्नान्तरात्मा त्वं परमात्मा त्वम् उच्यते ॥

178.152

त्वं गुरुस् त्वं गुरुतमस् त्वं वामस् त्वं प्रदक्षिणः
त्वं पिप्पलस् त्वम् अगमस् त्वं व्यक्तस् त्वं प्रजापतिः ॥

178.153

हिरण्यनाभस् त्वं देवस् त्वं शशी त्वं प्रजापतिः
अनिर्देश्यवपुस् त्वं वै त्वं यमस् त्वं सुरारिहा ॥

178.154

त्वं च संकर्षणो देवस् त्वं कर्ता त्वं सनातनः
त्वं वासुदेवो ऽमेयात्मा त्वम् एव गुणवर्जितः ॥

178.155

त्वं ज्येष्ठस् त्वं वरिष्ठस् त्वं त्वं सहिष्णुश् च माधवः
सहस्रशीर्षा त्वं देवस् त्वम् अव्यक्तः सहस्रदृक् ॥

178.156

सहस्रपादस् त्वं देवस् त्वं विराट् त्वं सुरप्रभुः
त्वम् एव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥

178.157

यद् भूतं तत् त्वम् एवोक्तः पुरुषः शक्र उत्तमः
यद् भाव्यं तत् त्वम् ईशानस् त्वम् ऋतस् त्वं तथामृतः ॥

178.158

त्वत्तो रोहत्य् अयं लोको महीयांस् त्वम् अनुत्तमः
त्वं ज्यायान् पुरुषस् त्वं च त्वं देव दशधा स्थितः ॥

178.159

विश्वभूतश् चतुर्भागो नवभागो ऽमृतो दिवि
नवभागो ऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥

178.160

भागद्वयं च भूसंस्थं चतुर्भागो ऽप्य् अभूद् इह
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम् ॥

178.161

त्वत्तो विराट् समुत्पन्नो जगतो हृदि यः पुमान्
सो ऽतिरिच्यत भूतेभ्यस् तेजसा यशसा श्रिया ॥

178.162

त्वत्तः सुराणाम् आहारः पृषदाज्यम् अजायत
ग्राम्यारण्याश् चौषधयस् त्वत्तः पशुमृगादयः ॥

178.163

ध्येयध्यानपरस् त्वं च कृतवान् असि चौषधीः
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥

178.164

जङ्गमाजङ्गमं सर्वं जगद् एतच् चराचरम्
त्वत्तः सर्वम् इदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥

178.165

अनिरुद्धस् त्वं माधवस् त्वं प्रद्युम्नः सुरारिहा
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥

178.166

त्राहि माम् अरविन्दाक्ष नारायण नमो ऽस्तु ते
नमस् ते भगवन् विष्णो नमस् ते पुरुषोत्तम ॥

178.167

नमस् ते सर्वलोकेश नमस् ते कमलालय
गुणालय नमस् ते ऽस्तु नमस् ते ऽस्तु गुणाकर ॥

178.168

वासुदेव नमस् ते ऽस्तु नमस् ते ऽस्तु सुरोत्तम
जनार्दन नमस् ते ऽस्तु नमस् ते ऽस्तु सनातन ॥

178.169

नमस् ते योगिनां गम्य योगावास नमो ऽस्तु ते
गोपते श्रीपते विष्णो नमस् ते ऽस्तु मरुत्पते ॥

178.170

जगत्पते जगत्सूते नमस् ते ज्ञानिनां पते
दिवस्पते नमस् ते ऽस्तु नमस् ते ऽस्तु महीपते ॥

178.171

नमस् ते मधुहन्त्रे च नमस् ते पुष्करेक्षण
कैटभघ्न नमस् ते ऽस्तु सुब्रह्मण्य नमो ऽस्तु ते ॥

178.172

नमो ऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥

178.173

अश्वशीर्ष महाघोण महापुरुषविग्रह
मधुकैटभहन्त्रे च नमस् ते तुरगानन ॥

178.174

महाकमठभोगाय पृथिव्युद्धरणाय च
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥

178.175

नमो महावराहाय पृथिव्युद्धारकारिणे
नमश् चादिवराहाय विश्वरूपाय वेधसे ॥

178.176

नमो ऽनन्ताय सूक्ष्माय मुख्याय च वराय च
परमाणुस्वरूपाय योगिगम्याय ते नमः ॥

178.177

तस्मै नमः कारणकारणाय योगीन्द्रवृत्तनिलयाय सुदुर्विदाय
क्षीरार्णवाश्रितमहाहिसुतल्पगाय तुभ्यं नमः कनकरत्नसुकुण्डलाय

178.178

इत्थं स्तुतस् तदा तेन प्रीतः प्रोवाच माधवः
क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि ॥

178.179

संसारे ऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे
अनित्ये दुःखबहुले कदलीदलसंनिभे ॥

178.180

निराश्रये निरालम्बे जलबुद्बुदचञ्चले
सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥

178.181

भ्रमामि सुचिरं कालं मायया मोहितस् तव
न चान्तम् अभिगच्छामि विषयासक्तमानसः ॥

178.182

त्वाम् अहं चाद्य देवेश संसारभयपीडितः
गतो ऽस्मि शरणं कृष्ण माम् उद्धर भवार्णवात् ॥

178.183

गन्तुम् इच्छामि परमं पदं यत् ते सनातनम्
प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम् ॥

178.184

भक्तो ऽसि मे मुनिश्रेष्ठ माम् आराधय नित्यशः
मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम् ॥

178.185

मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः
प्राप्नुवन्ति परां सिद्धिं किं पुनस् त्वं द्विजोत्तम ॥

178.186

श्वपाको ऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः
प्राप्नोत्य् अभिमतां सिद्धिम् अन्येषां तत्र का कथा ॥

178.187

एवम् उक्त्वा तु तं विप्राः स देवो भक्तवत्सलः
दुर्विज्ञेयगतिर् विष्णुस् तत्रैवान्तरधीयत ॥

178.188

गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः
सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः ॥

178.189

सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः
एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम् ॥

178.190

निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम्
अवाप परमं मोक्षं सुराणाम् अपि दुर्लभम् ॥

178.191

यः पठेच् छृणुयाद् वापि कथां कण्डोर् महात्मनः
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥

178.192

एवं मया मुनिश्रेष्ठाः कर्मभूमिर् उदाहृता
मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥

178.193

ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं
भक्त्या श्रीपुरुषोत्तमाख्यम् अजरं संसारदुःखापहम् ॥

178.194

ते भुक्त्वा मनुजेन्द्रभोगम् अमलाः स्वर्गे च दिव्यं सुखं
पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेर् अव्ययम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc