ब्रह्म पुराण · अध्याय 177
एवं वो ऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम्
भुक्तिमुक्तिप्रदं नॄणां मया प्रोक्तं सुदुर्लभम् ॥
यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः
पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥
ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम्
संकर्षणं सुभद्रां च धन्यास् ते नात्र संशयः ॥
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम्
ये ध्यायन्ति सदा कृष्णं मुक्तास् ते नात्र संशयः ॥
कृष्णे रताः कृष्णम् अनुस्मरन्ति रात्रौ च कृष्णं पुनर् उत्थिता ये
ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर् यथा मन्त्रहुतं हुताशम्
तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः
तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥
शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः
हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥
सर्वकाले ऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम्
रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥
आस्ते यश् चतुरो मासान् वार्षिकान् पुरुषोत्तमे
पृथिव्यास् तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥
ये सर्वकालं तत्रैव निवसन्ति मनीषिणः
जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥
तपस् तप्त्वान्यतीर्थेषु वर्षाणाम् अयुतं नरः
यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे ॥
तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम्
तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥
सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम्
तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥
सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च
तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥
यस् तु नानाविधैर् यज्ञैर् यत् फलं लभते नरः
तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥
देहं त्यजन्ति पुरुषास् तत्र ये पुरुषोत्तमे
कल्पवृक्षं समासाद्य मुक्तास् ते नात्र संशयः ॥
वटसागरयोर् मध्ये ये त्यजन्ति कलेवरम्
ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥
अनिच्छन्न् अपि यस् तत्र प्राणांस् त्यजति मानवः
सो ऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥
कृमिकीटपतंगाद्यास् तिर्यग्योनिगताश् च ये
तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥
भ्रान्तिं लोकस्य पश्यध्वम् अन्यतीर्थं प्रति द्विजाः
पुरुषाख्येन यत् प्राप्तम् अन्यतीर्थफलादिकम् ॥
सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम्
पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान् ॥
प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः
तस्माद् वेदे पुराणे च लोके ऽस्मिन् पुरुषोत्तमः ॥
यो ऽसौ पुराणे वेदान्ते परमात्मेत्य् उदाहृतः
आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥
पाथे श्मशाने गृहमण्डपे वा रथ्याप्रदेशेष्व् अपि यत्र कुत्र
इच्छन्न् अनिच्छन्न् अपि तत्र देहं संत्यज्य मोक्षं लभते मनुष्यः
तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः
देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः ॥
पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति
त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥
गुणानाम् एकदेशो ऽयं मया क्षेत्रस्य कीर्तितः
कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैर् अपि ॥
यदि यूयं मुनिश्रेष्ठा मोक्षम् इच्छथ शाश्वतम्
तस्मिन् क्षेत्रवरे पुण्ये निवसध्वम् अतन्द्रिताः ॥
ते तस्य वचनं श्रुत्वा ब्रह्मणो ऽव्यक्तजन्मनः
निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥
तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः
पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिम् अभीप्सथ ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0