भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 179

179.1

व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः
प्रीता बभूवुः संहृष्टा विस्मिताश् च पुनः पुनः ॥

179.2

अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः
तद्वच् छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥

179.3

विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यम् उत्तमम्
पुरुषाख्यस्य क्षेत्रस्य प्रीतिश् च वदतां वर ॥

179.4

चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते
त्वदृते संशयस्यास्य च्छेत्ता नान्यो ऽस्ति भूतले ॥

179.5

उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले
भद्रायाश् चैव कार्त्स्न्येन पृच्छामस् त्वां महामुने ॥

179.6

किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणाव् उभौ
वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥

179.7

निःसारे मृत्युलोके ऽस्मिन् दुःखप्राये ऽतिचञ्चले
जलबुद्बुदसंकाशे भैरवे लोमहर्षणे ॥

179.8

विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम्
कथं घोरतरं तेषां गर्भवासम् अरोचत ॥

179.9

यानि कर्माणि चक्रुस् ते समुत्पन्ना महीतले
विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥

179.10

समग्रं चरितं तेषाम् अद्भुतं चातिमानुषम्
कथं स भगवान् देवः सुरेशः सुरसत्तमः ॥

179.11

वसुदेवकुले धीमान् वासुदेवत्वम् आगतः
अमरैश् चावृतं पुण्यं पुण्यकृद्भिर् अलंकृतम् ॥

179.12

देवलोकं किम् उत्सृज्य मर्त्यलोक इहागतः
देवमानुषयोर् नेता द्योर् भुवः प्रभवो ऽव्ययः ॥

179.13

किमर्थं दिव्यम् आत्मानं मानुषेषु न्ययोजयत्
यश् चक्रं वर्तयत्य् एको मानुषाणाम् अनामयम् ॥

179.14

स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः
गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥

179.15

स कथं गां गतो विष्णुर् गोपत्वम् अकरोत् प्रभुः
महाभूतानि भूतात्मा यो दधार चकार च ॥

179.16

श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः
येन लोकान् क्रमैर् जित्वा त्रिभिर् वै त्रिदशेप्सया ॥

179.17

स्थापिता जगतो मार्गास् त्रिवर्गाश् चाभवंस् त्रयः
यो ऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः ॥

179.18

लोकम् एकार्णवं चक्रे दृश्यादृश्येन चात्मना
यः पुराणः पुराणात्मा वाराहं रूपम् आस्थितः ॥

179.19

विषाणाग्रेण वसुधाम् उज्जहारारिसूदनः
यः पुरा पुरुहूतार्थे त्रैलोक्यम् इदम् अव्ययम् ॥

179.20

ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः
येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः ॥

179.21

पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर् हतः
यः पुरा ह्य् अनलो भूत्वा और्वः संवर्तको विभुः ॥

179.22

पातालस्थो ऽर्णवरसं पपौ तोयमयं हरिः
सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥

179.23

सहस्रशिरसं देवं यम् आहुर् वै युगे युगे
नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥

179.24

एकार्णवे नागलोके सद्धिरण्मयपङ्कजम्
येन ते निहता दैत्याः संग्रामे तारकामये ॥

179.25

येन देवमयं कृत्वा सर्वायुधधरं वपुः
गुहासंस्थेन चोत्सिक्तः कालनेमिर् निपातितः ॥

179.26

उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ
यः शेते शाश्वतं योगम् आस्थाय तिमिरं महत् ॥

179.27

सुरारणी गर्भम् अधत्त दिव्यं तपःप्रकर्षाद् अदितिः पुराणम्
शक्रं च यो दैत्यगणावरुद्धं गर्भावधानेन कृतं चकार

179.28

पदानि यो योगमयानि कृत्वा चकार दैत्यान् सलिलेशयस्थान्
कृत्वा च देवांस् त्रिदशेश्वरांस् तु चक्रे सुरेशं पुरुहूतम् एव

179.29

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा
अग्निम् आहवनीयं च वेदं दीक्षां समिद् ध्रुवम् ॥

179.30

प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च
अवाक्पाणिस् तु यश् चक्रे हव्यभागभुजस् तथा ॥

179.31

हव्यादांश् च सुरांश् चक्रे कव्यादांश् च पितॄन् अथ
भोगार्थे यज्ञविधिना ऽयोजयद् यज्ञकर्मणि ॥

179.32

पात्राणि दक्षिणां दीक्षां चरूंश् चोलूखलानि च
यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि ॥

179.33

यज्ञियानि च द्रव्याणि चमसांश् च तथापरान्
सदस्यान् यजमानांश् च मेधादींश् च क्रतूत्तमान् ॥

179.34

विबभाज पुरा यस् तु पारमेष्ठ्येन कर्मणा
युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात् ॥

179.35

क्षणा निमेषाः काष्ठाश् च कलास् त्रैकाल्यम् एव च
मुहूर्तास् तिथयो मासा दिनं संवत्सरस् तथा ॥

179.36

ऋतवः कालयोगाश् च प्रमाणं त्रिविधं त्रिषु
आयुःक्षेत्राण्य् उपचयो लक्षणं रूपसौष्ठवम् ॥

179.37

त्रयो लोकास् त्रयो देवास् त्रैविद्यं पावकास् त्रयः
त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास् त्रयो गुणाः ॥

179.38

सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा
सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥

179.39

नृणाम् इन्द्रियपूर्वेण योगेन रमते च यः
गतागताभ्यां योगेन य एव विधिर् ईश्वरः ॥

179.40

यो गतिर् धर्मयुक्तानाम् अगतिः पापकर्मणाम्
चातुर्वर्ण्यस्य प्रभवश् चातुर्वर्ण्यस्य रक्षिता ॥

179.41

चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः
दिगन्तरं नभो भूमिर् वायुर् वापि विभावसुः ॥

179.42

चन्द्रसूर्यमयं ज्योतिर् युगेशः क्षणदाचरः
यः परं श्रूयते ज्योतिर् यः परं श्रूयते तपः ॥

179.43

यं परं प्राहुर् अपरं यः परः परमात्मवान्
आदित्यानां तु यो देवो यश् च दैत्यान्तको विभुः ॥

179.44

युगान्तेष्व् अन्तको यश् च यश् च लोकान्तकान्तकः
सेतुर् यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥

179.45

वेद्यो यो वेदविदुषां प्रभुर् यः प्रभवात्मनाम्
सोमभूतश् च सौम्यानाम् अग्निभूतो ऽग्निवर्चसाम् ॥

179.46

यः शक्राणाम् ईशभूतस् तपोभूतस् तपस्विनाम्
विनयो नयवृत्तीनां तेजस् तेजस्विनाम् अपि ॥

179.47

विग्रहो विग्रहार्हाणां गतिर् गतिमताम् अपि
आकाशप्रभवो वायुर् वायोः प्राणाद् धुताशनः ॥

179.48

दिवो हुताशनः प्राणः प्राणो ऽग्निर् मधुसूदनः
रसाच् छोणितसंभूतिः शोणितान् मांसम् उच्यते ॥

179.49

मांसात् तु मेदसो जन्म मेदसो ऽस्थि निरुच्यते
अस्थ्नो मज्जा समभवन् मज्जातः शुक्रसंभवः ॥

179.50

शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा
तत्रापां प्रथमो भागः स सौम्यो राशिर् उच्यते ॥

179.51

गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिर् उच्यते
शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम् ॥

179.52

भावा रसानुगाश् चैषां बीजे च शशिपावकौ
कफवर्गे भवेच् छुक्रं पित्तवर्गे च शोणितम् ॥

179.53

कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम्
देहस्य मध्ये हृदयं स्थानं तन् मनसः स्मृतम् ॥

179.54

नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः
मनः प्रजापतिर् ज्ञेयः कफः सोमो विभाव्यते ॥

179.55

पित्तम् अग्निः स्मृतं त्व् एवम् अग्निसोमात्मकं जगत्
एवं प्रवर्तिते गर्भे वर्धिते ऽर्बुदसंनिभे ॥

179.56

वायुः प्रवेशं संचक्रे संगतः परमात्मनः
स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥

179.57

प्राणापानौ समानश् च उदानो व्यान एव च
प्राणो ऽस्य परमात्मानं वर्धयन् परिवर्तते ॥

179.58

अपानः पश्चिमं कायम् उदानो ऽर्धं शरीरिणः
व्यानस् तु व्याप्यते येन समानः संनिवर्तते ॥

179.59

भूतावाप्तिस् ततस् तस्य जायेतेन्द्रियगोचरा
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् ॥

179.60

तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे
पार्थिवं देहम् आहुस् तु प्राणात्मानं च मारुतम् ॥

179.61

छिद्राण्य् आकाशयोनीनि जलात् स्रावः प्रवर्तते
ज्योतिश् चक्षूंषि तेजश् च आत्मा तेषां मनः स्मृतम् ॥

179.62

ग्रामाश् च विषयाश् चैव यस्य वीर्यात् प्रवर्तिताः
इत्य् एतान् पुरुषः सर्वान् सृजंल् लोकान् सनातनः ॥

179.63

नैधने ऽस्मिन् कथं लोके नरत्वं विष्णुर् आगतः
एष नः संशयो ब्रह्मन्न् एष नो विस्मयो महान् ॥

179.64

कथं गतिर् गतिमताम् आपन्नो मानुषीं तनुम्
आश्चर्यं परमं विष्णुर् देवैर् दैत्यैश् च कथ्यते ॥

179.65

विष्णोर् उत्पत्तिम् आश्चर्यं कथयस्व महामुने
प्रख्यातबलवीर्यस्य विष्णोर् अमिततेजसः ॥

179.66

कर्मणाश्चर्यभूतस्य विष्णोस् तत्त्वम् इहोच्यताम्
कथं स देवो देवानाम् आर्तिहा पुरुषोत्तमः ॥

179.67

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः
सर्गस्थित्यन्तकृद् देवः सर्वलोकसुखावहः ॥

179.68

अक्षयः शाश्वतो ऽनन्तः क्षयवृद्धिविवर्जितः
निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥

179.69

सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः
अविकारी विभुर् नित्यः परमात्मा सनातनः ॥

179.70

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः
विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥

179.71

वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च
ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥

179.72

समतीतां भविष्यं च श्रोतुम् इच्छा प्रवर्तते
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः ॥

179.73

नारायणो ह्य् अनन्तात्मा प्रभवो ऽव्यय एव च
एष नारायणो भूत्वा हरिर् आसीत् सनातनः ॥

179.74

ब्रह्मा शक्रश् च रुद्रश् च धर्मः शुक्रो बृहस्पतिः
प्रधानात्मा पुरा ह्य् एष ब्रह्माणम् असृजत् प्रभुः ॥

179.75

सो ऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन्
एवं स भगवान् विष्णुः सर्वलोकमहेश्वरः
किमर्थं मर्त्यलोके ऽस्मिन् यातो यदुकुले हरिः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc