भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 176

176.1

नहि नस् तृप्तिर् अस्तीह शृण्वतां भगवत्कथाम्
पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः ॥

176.2

अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया
श्रोतुम् इच्छामहे देव विस्तरेण वदस्व नः ॥

176.3

प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम्
अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥

176.4

आदिकल्पे पुरा विप्रास् त्व् अहम् अव्यक्तजन्मवान्
विश्वकर्माणम् आहूय वचनं प्रोक्तवान् इदम् ॥

176.5

वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम्
प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥

176.6

यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः
येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम् ॥

176.7

त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम्
वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥

176.8

मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात्
चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥

176.9

सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम्
श्रीवत्सलक्ष्मसंयुक्ताम् अत्युग्रां प्रतिमोत्तमाम् ॥

176.10

वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम्
पीतवस्त्रां सुपीनांसां कुण्डलाभ्याम् अलंकृताम् ॥

176.11

एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस् तदा स्वयम्
प्रतिष्ठाकालम् आसाद्य मयासौ निर्मिता पुरा ॥

176.12

तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह
जगाम ब्रह्मसदनम् आरुह्य गजम् उत्तमम् ॥

176.13

प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः
प्रतिमां तां समाराध्य स्वपुरं पुनर् आगमत् ॥

176.14

तां समाराध्य सुचिरं यतवाक्कायमानसः
वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च ॥

176.15

निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम्
द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥

176.16

बभूव सुमहावीर्यो दशग्रीवः प्रतापवान्
दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥

176.17

चचार व्रतम् अत्युग्रं तपः परमदुश्चरम्
तपसा तेन तुष्टो ऽहं वरं तस्मै प्रदत्तवान् ॥

176.18

अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम्
शापप्रहरणैर् उग्रैर् अवध्यो यमकिंकरैः ॥

176.19

वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान्
धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥

176.20

संग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः
देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥

176.21

राक्षसस् तत्सुतो नाम मेघनादः प्रलब्धवान्
अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥

176.22

ददर्शाञ्जनसंकाशां रावणस् तु बलान्वितः
प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥

176.23

श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम्
वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥

176.24

शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम्
सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥

176.25

विहाय रत्नसंघांश् च प्रतिमां शुभलक्षणाम्
पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम् ॥

176.26

पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः
रावणस्यानुजो मन्त्री नारायणपरायणः ॥

176.27

दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम्
रोमाञ्चिततनुर् भूत्वा विस्मयं समपद्यत ॥

176.28

प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥

176.29

इत्य् उक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर् मुहुः
ज्येष्ठं भ्रातरम् आसाद्य कृताञ्जलिर् अभाषत ॥

176.30

राजन् प्रतिमया त्वं मे प्रसादं कर्तुम् अर्हसि
याम् आराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥

176.31

भ्रातुर् वचनम् आकर्ण्य रावणस् तं तदाब्रवीत्
गृहाण प्रतिमां वीर त्व् अनया किं करोम्य् अहम् ॥

176.32

स्वयंभुवं समाराध्य त्रैलोक्यं विजये त्व् अहम्
नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥

176.33

विभीषणो महाबुद्धिस् तदा तां प्रतिमां शुभाम्
शतम् अष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥

176.34

अजरामरणं प्राप्तम् अणिमादिगुणैर् युतम्
राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान् ॥

176.35

अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम्
अनन्तवासुदेवस्य संभवं भुवि दुर्लभम् ॥

176.36

श्रोतुम् इच्छामहे देव विस्तरेण यथातथम्
तस्य देवस्य माहात्म्यं वक्तुम् अर्हस्य् अशेषतः ॥

176.37

तदा स राक्षसः क्रूरो देवगन्धर्वकिंनरान्
लोकपालान् समनुजान् मुनिसिद्धांश् च पापकृत् ॥

176.38

विजित्य समरे सर्वान् आजहार तदङ्गनाः
संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः ॥

176.39

शङ्कितो मृगरूपेण सौवर्णेन च रावणः
ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥

176.40

रावणस्य वधार्थाय हत्वा वालिं मनोजवम्
अभिषिक्तश् च सुग्रीवो युवराजो ऽङ्गदस् तथा ॥

176.41

हनुमान् नलनीलश् च जाम्बवान् पनसस् तथा
गवयश् च गवाक्षश् च पाठीनः परमौजसः ॥

176.42

एतैश् चान्यैश् च बहुभिर् वानरैः समहाबलैः
समावृतो महाघोरै रामो राजीवलोचनः ॥

176.43

गिरीणां सर्वसंघातैः सेतुं बद्ध्वा महोदधौ
बलेन महता रामः समुत्तीर्य महोदधिम् ॥

176.44

संग्रामम् अतुलं चक्रे रक्षोगणसमन्वितः
यमहस्तं प्रहस्तं च निकुम्भं कुम्भम् एव च ॥

176.45

नरान्तकं महावीर्यं तथा चैव यमान्तकम्
मालाढ्यं मालिकाढ्यं च हत्वा रामस् तु वीर्यवान् ॥

176.46

पुनर् इन्द्रजितं हत्वा कुम्भकर्णं सरावणम्
वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे ॥

176.47

वासुदेवं समादाय यानं पुष्पकम् आरुहत्
लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम् ॥

176.48

कनिष्ठं भरतं स्नेहाच् छत्रुघ्नं भक्तवत्सलः
अभिषिच्य तदा रामः सर्वराज्ये ऽधिराजवत् ॥

176.49

पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः
दश वर्षसहस्राणि दश वर्षशतानि च ॥

176.50

भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः
राज्यम् आसाद्य सुगतिं वैष्णवं पदम् आविशत् ॥

176.51

तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान्
धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥

176.52

द्वापरं युगम् आसाद्य यदा देवो जगत्पतिः
धरण्याश् चानुरोधेन भावशैथिल्यकारणात् ॥

176.53

अवतीर्णः स भगवान् वसुदेवकुले प्रभुः
कंसादीनां वधार्थाय संकर्षणसहायवान् ॥

176.54

तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम्
सर्वलोकहितार्थाय कस्यचित् कारणान्तरे ॥

176.55

तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे
उज्जहार स्वयं तोयात् समुद्रः सरितां पतिः ॥

176.56

तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः
आस्ते स देवो देवानां सर्वकामफलप्रदः ॥

176.57

ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम्
वाङ्मनःकर्मभिर् नित्यं ते यान्ति परमं पदम् ॥

176.58

दृष्ट्वानन्तं सकृद् भक्त्या संपूज्य प्रणिपत्य च
राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥

176.59

सर्वकामसमृद्धेन कामगेन सुवर्चसा
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥

176.60

त्रिःसप्तकुलम् उद्धृत्य दिव्यस्त्रीगणसेवितः
उपगीयमानो गन्धर्वैर् नरो विष्णुपुरं व्रजेत् ॥

176.61

तत्र भुक्त्वा वरान् भोगाञ् जरामरणवर्जितः
दिव्यरूपधरः श्रीमान् यावद् आभूतसंप्लवम् ॥

176.62

पुण्यक्षयाद् इहायातश् चतुर्वेदी द्विजोत्तमः
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥

176.63

एवं मया त्व् अनन्तो ऽसौ कीर्तितो मुनिसत्तमाः
कः शक्नोति गुणान् वक्तुं तस्य वर्षशतैर् अपि ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc