भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 173

173.1

ऋषिसत्त्रम् इति ख्यातम् ऋषयः सप्त नारद
निषेदुस् तपसे यत्र यत्र भीमेश्वरः शिवः ॥

173.2

तत्रेदं वृत्तम् आख्यास्ये देवर्षिपितृबृंहितम्
शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥

173.3

सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद
वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा ॥

173.4

वामदेव्य् अपरा ज्ञेया गौतमी मध्यतः शुभा
भारद्वाजी स्मृता चान्या आत्रेयी चेत्य् अथापरा ॥

173.5

जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा
तैः सर्वैर् ऋषिभिस् तत्र यष्टुम् इष्टैर् महात्मभिः ॥

173.6

निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः
एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः ॥

173.7

विश्वरूप इति ख्यातो मुनीनां सत्त्रम् अभ्यगात्
ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि
विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात् ॥

173.8

ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना
यथा स्याद् बलवान् पुत्रो देवानाम् अपि दुर्धरः
यज्ञैर् वा तपसा वापि मुनयो वक्तुम् अर्हथ ॥

173.9

तत्र प्राह महाबुद्धिर् विश्वामित्रो महामनाः ॥

173.10

कर्मणा तात लभ्यन्ते फलानि विविधानि च
त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥

173.11

ततश् च कारणं कर्ता ततश् चान्यत् प्रकीर्तितम्
उपादानं तथा बीजं न च कर्म विदुर् बुधाः ॥

173.12

कर्मणां कारणत्वं च कारणे पुष्कले सति
भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम् ॥

173.13

कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम्
कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते ॥

173.14

तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम्
यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः ॥

173.15

तद्भावनानुरूपेण फलनिष्पत्तिर् उच्यते
करोति कर्म विधिवद् विना भावनया यदि ॥

173.16

अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः
तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥

173.17

कर्मणस् त्व् अनुरूपेण फलं दास्यन्ति भावतः
तस्माद् भावानुरूपेण कर्म वै दास्यते फलम् ॥

173.18

भावस् तु त्रिविधो ज्ञेयः सात्त्विको राजसस् तथा
तामसस् तु तथा ज्ञेयः फलं कर्मानुसारतः ॥

173.19

भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः
तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः ॥

173.20

पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम्
फलं ददाति फलिनां फले यदि प्रवर्तते ॥

173.21

कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः
तद् एव चोपदानादि सत्त्वादिगुणभेदतः ॥

173.22

भावात् प्रारभते तद्वद् भावैः फलम् अवाप्यते
धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥

173.23

भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम्
स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥

173.24

फलानि विविधान्य् आशु करोति समतानुगम्
एक एव पदार्थो ऽसौ भावैर् भेदः प्रदृश्यते ॥

173.25

क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते
यथाभावं कर्म कुरु यथेप्सितम् अवाप्स्यसि ॥

173.26

एतच् छ्रुत्वा ऋषेर् वाक्यं विश्वामित्रस्य धीमतः
तपस् तप्त्वा बहुकालं तामसं भावम् आश्रितः ॥

173.27

विश्वरूपः कर्म भीमं चकार सुरभीषणम्
पश्यत्सु ऋषिमुख्येषु वार्यमाणो ऽपि नित्यशः ॥

173.28

आत्मकोपानुसारेण भीमं कर्म तथाकरोत्
भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥

173.29

भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम्
एवं तपन्तम् आलक्ष्य वाग् उवाचाशरीरिणी ॥

173.30

जटाजूटं विनात्मानं न च वृत्रो व्यजीयत
वृथात्मानं विश्वरूपो जुहुयाज् जातवेदसि ॥

173.31

स एवेन्द्रः स वरुणः स च स्यात् सर्वम् एव च
त्यक्त्वात्मानं जटामात्रं हुतवान् वृजिनोद्भवः ॥

173.32

वृत्र इत्य् उच्यते वेदे स चापि वृजिनो ऽभवत्
भीमस्य महिमानं को जानाति जगदीशितुः ॥

173.33

सृजत्य् अशेषम् अपि यो न च सङ्गेन लिप्यते
विररामेति संकीर्त्य सा वाण्य् एनं मुनीश्वराः ॥

173.34

भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वम् अथाश्रमम्
विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥

173.35

भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह
तस्माद् भीमेश्वरो देवः पुराणे परिपठ्यते
तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः ॥

173.36

इति पठति शृणोति यश् च भक्त्या विबुधपतिं शिवम् अत्र भीमरूपम्
जगति विदितम् अशेषपापहारि स्मृतिपदशरणेन मुक्तिदश् च

173.37

गोदावरी तावद् अशेषपाप समूहहन्त्री परमार्थदात्री
सदैव सर्वत्र विशेषतस् तु यत्राम्बुराशिं समनुप्रविष्टा

173.38

स्नात्वा तु तस्मिन् सुकृती शरीरी गोदावरीवारिधिसंगमे यः
उद्धृत्य तीव्रान् निरयाद् अशेषात् स पूर्वजान् याति पुरं पुरारेः

173.39

वेदान्तवेद्यं यद् उपासितव्यं तद् ब्रह्म साक्षात् खलु भीमनाथः
दृष्टे हि तस्मिन् न पुनर् विशन्ति शरीरिणः संस्मृतिम् उग्रदुःखाम्

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc