ब्रह्म पुराण · अध्याय 174
सा संगता पूर्वम् अपांपतिं तं गङ्गा सुराणाम् अपि वन्दनीया
देवैश् च सर्वैर् अनुगम्यमाना संस्तूयमाना मुनिभिर् मरुद्भिः
वसिष्ठजाबालिसयाज्ञवल्क्य क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः
शातातपः शौनकदेवरात भृग्वग्निवेश्यात्रिमरीचिमुख्याः
सुधूतपापा मनुगौतमादयः सकौशिकास् तुम्बरुपर्वताद्याः
अगस्त्यमार्कण्डसपिप्पलाद्याः सगालवा योगपरायणाश् च
सवामदेवाङ्गिरसो ऽथ भार्गवाः स्मृतिप्रवीणाः श्रुतिभिर् मनोज्ञाः
सर्वे पुराणार्थविदो बहुज्ञास् ते गौतमीं देवनदीं तु गत्वा
स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् हृद्यैश् च तुष्टैर् मुदितैर् मनोभिः
तां संगतां वीक्ष्य शिवो हरिश् च आत्मानम् आदर्शयतां मुनिभ्यः
आदित्या वसवो रुद्रा मरुतो लोकपालकाः
कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशंकरौ ॥
संगमेषु प्रसिद्धेषु नित्यं सप्तसु नारद
समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥
गौतमेश्वर आख्यातो यत्र देवो महेश्वरः
नित्यं संनिहितस् तत्र माधवो रमया सह ॥
ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः
लोकानाम् उपकारार्थम् आत्मनः कारणान्तरे ॥
चक्रपाणिर् इति ख्यातः स्तुतो देवैर् मया सह
तत्र संनिहितो विष्णुर् देवैः सह मरुद्गणैः ॥
ऐन्द्रतीर्थम् इति ख्यातं तद् एव हयमूर्धकम्
हयमूर्धा तत्र विष्णुस् तन्मूर्धनि सुरा अपि
सोमतीर्थम् इति ख्यातं यत्र सोमेश्वरः शिवः ॥
इन्द्रस्य सोमश्रवसो देवैश् च ऋषिभिस् तथा
प्रार्थितः सोम एवादाव् इन्द्रायेन्दो परिस्रव ॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न ॥
यत् ते राजञ् छृतं हविस् तेन सोमाभिरक्ष नः
अरातीवा मा नस् तारीन् मो च नः किंचनाममद् ॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् ॥
कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना
नानाधियो वसूयवो ऽनु गा इव तस्थिम ॥
एवम् उक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे
तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥
तत् सोमतीर्थम् आख्यातम् आग्नेयं पुरतस् तु तत्
अग्निर् इष्ट्वा महायज्ञैर् माम् आराध्य मनीषितम् ॥
संप्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः
स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस् तथा ॥
तस्माद् आग्नेयम् आख्यातम् आदित्यं तदनन्तरम्
यत्रादित्यो वेदमयो नित्यम् एति उपासितुम् ॥
रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम्
नमस्कार्यस् तत्र सदा मध्याह्ने सकलो जनः ॥
रूपेण केन सविता समायातीत्य् अनिश्चयात्
तस्माद् आदित्यम् आख्यातं बार्हस्पत्यम् अनन्तरम् ॥
बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह
ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः ॥
तत्तीर्थस्मरणाद् एव ग्रहशान्तिर् भविष्यति
तस्माद् अप्य् अपरं तीर्थम् इन्द्रगोपे नगोत्तमे ॥
प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे
हिमालयेन तत् तीर्थम् अद्रितीर्थं तद् उच्यते ॥
तत्र स्नानं च दानं च सर्वकामप्रदं शुभम्
एवं सा गौतमी गङ्गा ब्रह्माद्रेश् च विनिःसृता ॥
यावत् सागरगा देवी तत्र तीर्थानि कानिचित्
संक्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥
वेदे पुराणे ऋषिभिः प्रसिद्धा या गौतमी लोकनमस्कृता च
वक्तुं कथं ताम् अतिसुप्रभावाम् अशेषतो नारद कस्य शक्तिः
भक्त्या प्रवृत्तस्य यथाकथंचिन् नैवापराधो ऽस्ति न संशयो ऽत्र
तस्माच् च दिङ्मात्रमतिप्रयासात् संसूचितं लोकहिताय तस्याः
कस् तस्याः प्रतितीर्थं तु प्रभावं वक्तुम् ईश्वरः
अपि लक्ष्मीपतिर् विष्णुर् अलं सोमेश्वरः शिवः ॥
क्वचित् कस्मिंश् च तीर्थानि कालयोगे भवन्ति हि
गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥
सर्वत्र सर्वदा पुण्या को न्व् अस्या गुणकीर्तनम्
वक्तुं शक्तस् ततस् तस्यै नम इत्य् एव युज्यते ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0