ब्रह्म पुराण · अध्याय 172
सामुद्रं तीर्थम् आख्यातं सर्वतीर्थफलप्रदम्
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥
विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी
लोकानाम् उपकारार्थं प्रायात् पूर्वार्णवं प्रति ॥
आगच्छन्ती देवनदी कमण्डलुधृता मया
शिरसा च धृता देवी शंभुना परमात्मना ॥
विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना
आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम् ॥
गुरोर् गुरुतमां सिन्धुर् दृष्ट्वा कृत्यम् अचिन्तयत्
या वन्द्या जगताम् ईशा ब्रह्मेशाद्यैर् नमस्कृता ॥
ताम् अहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम्
आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते ॥
न तस्य कोपि त्रातास्ति पापिनो लोकयोर् द्वयोः
एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः
कृताञ्जलिपुटो गङ्गाम् आहेदं सरितांपतिः ॥
रसातलगतं वारि पृथिव्यां यन् नभस्तले
तन् माम् एवात्र विशतु नाहं वक्ष्यामि किंचन ॥
मयि रत्नानि पीयूषं पर्वता राक्षसासुराः
एतान् अप्य् अखिलान् अन्यान् भीमान् संधारयाम्य् अहम् ॥
ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा
ममाशक्यं न किमपि विद्यते सचराचरे ॥
महत्य् अभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात्
स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥
न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात्
किं तु त्वं गौरवेणैषाम् अतिरिक्ता ततस् त्व् अहम् ॥
ब्रवीमि देवि गङ्गे मां त्वं साम्यात् संगता भव
नैकरूपाम् अहं शक्तः संगन्तुं बहुधा यदि ॥
सङ्गम् एष्यसि देवि त्वं संगच्छे ऽहं न चान्यथा
गङ्गे समेष्यसि यदि बहुधा तद् विचारये ॥
तम् एवंवादिनं सिन्धुम् अपाम् ईशं तदाब्रवीत्
गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम ॥
सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः
भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्व् अहम् ॥
अल्पभूता भविष्यामि ततः स्यां तव संगता
तथेत्य् उक्त्वा सप्तर्षीणां भार्याभिर् ऋषिभिर् वृतः ॥
आनयाम् आस तां देवी सप्तधा सा व्यभज्यत
सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥
सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास् ततो ऽभवन्
तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥
स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत्
नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये
पापहानौ भुक्तिमुक्ति प्राप्तौ च मनसो मुदे ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0