भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 171

171.1

उर्वशीतीर्थम् आख्यातम् अश्वमेधफलप्रदम्
स्नानदानमहादेव वासुदेवार्चनादिभिः ॥

171.2

महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः
प्रमतिर् नाम राजासीत् सार्वभौमः प्रतापवान् ॥

171.3

रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर् वृतम्
तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद ॥

171.4

जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः
तं हसन्तम् अथालक्ष्य हरिः प्रमतिम् अब्रवीत् ॥

171.5

देवालये महाबुद्धे मरुद्भिः क्रीडितैर् अलम्
दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥

171.6

सकषायं हरिवचो निशम्य प्रमतिर् नृपः
तथेत्य् उवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे
तच् छ्रुत्वा प्रमतेर् वाक्यं सुरराण् नृपम् अब्रवीत् ॥

171.7

उर्वश्य् एव पणो ऽस्माकं प्राप्या या निखिलैर् मखैः ॥

171.8

एतच् छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः
उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे ॥

171.9

यद् ब्रवीषि सुरेशान तन् मन्ये ऽहं शतक्रतो
प्राहेन्द्रं प्रमतिस् तद्वन् निष्कृत्यै दक्षिणं करम्
सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥

171.10

ताव् एवं संविदं कृत्वा देवनायोपतस्थतुः
प्रमतिर् जितवांस् तत्र उर्वशीं दैवतस्त्रियम्
तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम् ॥

171.11

निष्कृत्यै पुनर् अन्यन् मे पश्चाद् दीव्ये त्वया विभो ॥

171.12

देवयोग्यम् अथो वज्रं जैत्रं सरथम् उत्तमम्
दीव्ये ऽहं तेन नृपते करेणाप्य् अविचारयन् ॥

171.13

स गृहीत्वा तदा पाशान् अन्यांश् च मणिभूषितान्
जितम् इत्य् अब्रवीच् छक्रं प्रमतिः प्रहसंस् तदा ॥

171.14

एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस् तत्र नारद
विश्वावसुर् इति ख्यातो गन्धर्वाणां महेश्वरः ॥

171.15

गन्धर्वविद्यया राजंस् तया दीव्यामहे त्वया
तथेत्य् उक्त्वा स नृपतिर् जितम् इत्य् अब्रवीत् तदा ॥

171.16

तौ जित्वा नृपतिर् मौर्ख्याद् देवेन्द्रं प्राह कश्मलम् ॥

171.17

रणे वा देवने वापि न त्वं जेता कथंचन
महेन्द्र सततं तस्माद् अस्मदाराधको भव
वद केन प्रकारेण जाता देवेन्द्रता तव ॥

171.18

तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव
उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि
वर्तेय सर्वभावेन न मां धिक्कर्तुम् अर्हसि ॥

171.19

ततस् तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः
त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥

171.20

एतच् छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस् तदा
चित्रसेन इति ख्यातः सुतो विश्वावसोर् बली ॥

171.21

दीव्ये ऽहं वै त्वया राजन् सर्वेणानेन भूपते
राज्येन जीवितेनापि मदीयेन तवापि च ॥

171.22

तथेत्य् उक्त्वा पुनर् उभौ चित्रसेननृपोत्तमौ
दीव्येताम् अभिसंरब्धौ चित्रसेनो ऽजयत् तदा ॥

171.23

गान्धर्वैस् तं महापाशैर् बबन्ध नृपतिं तदा
चित्रसेनो ऽजयत् सर्वम् उर्वशीमुख्यतः पणैः ॥

171.24

राज्यं कोशं बलं चैव यद् अन्यद् वसु किंचन
चित्रसेनस्य तज् जातं यद् आसीत् प्रमतेर् धनम् ॥

171.25

तस्य पुत्रो बाल एव पुरोधसम् उवाच ह
वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसम् ओजसा ॥

171.26

किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः
कथम् एष्यति स्वं स्थानं कथं पाशैर् विमोक्ष्यते ॥

171.27

सुमतेर् वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः
मधुच्छन्दा जगादेदं प्रमतेर् वर्तनं तदा ॥

171.28

देवलोके तव पिता बद्ध आस्ते महामते
कैतवैर् बहुदोषैश् च भ्रष्टराज्यो बभूव ह ॥

171.29

यो याति कैतवसभां स चापि क्लेशभाग् भवेत्
द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥

171.30

पापिनाम् एव जायन्ते सदा पापात्मकानि हि
एकैकम् अप्य् अनर्थाय पापाय नरकाय च ॥

171.31

यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः
कुलीनाः कलुषीभूताः किं पुनः कितवो जनः ॥

171.32

कितवस्य तु या जाया तप्यते नित्यम् एव सा
स चापि कितवः पापो योषितं वीक्ष्य तप्यते ॥

171.33

तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत्
अहो संसारचक्रे ऽस्मिन् मया तुल्यो न पातकी ॥

171.34

न किंचिद् अपि यस्यास्ते लोके विषयजं सुखम्
लोकद्वये ऽपि न सुखी कितवः कोपि दृश्यते ॥

171.35

विभाति च तथा नित्यं लज्जया दग्धमानसः
गतधर्मो निरानन्दो ग्रस्तगर्वस् तथाटति ॥

171.36

अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम्
कृषिगोरक्ष्यवाणिज्यम् अपि कुर्यान् न कैतवम् ॥

171.37

यस् तु कैतववृत्त्या हि धनम् आहर्तुम् इच्छति
धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात् ॥

171.38

वेदे ऽपि दूषितं कर्म तव पित्रा तदादृतम्
तस्मात् किं कुर्महे वत्स यद् उक्तं ते विधीयते ॥

171.39

विधातृविहितं मार्गं को नु वात्येति पण्डितः ॥

171.40

एतत् पुरोधसो वाक्यं श्रुत्वा सुमतिर् अब्रवीत् ॥

171.41

किं कृत्वा प्रमतिस् तातः पुना राज्यम् अवाप्नुयात् ॥

171.42

पुनर् ध्यात्वा मधुच्छन्दाः सुमतिं चेदम् अब्रवीत् ॥

171.43

गौतमीं याहि वत्स त्वं तत्र पूजय शंकरम्
अदितिं वरुणं विष्णुं ततः पाशाद् विमोक्ष्यते ॥

171.44

तथेत्य् उक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम्
पूजयाम् आस शंभुं च तपस् तेपे यतव्रतः ॥

171.45

सहस्रम् एकं वर्षाणां बद्धं पितरम् आत्मनः
मोचयाम् आस देवेभ्यः पुना राज्यम् अवाप सः ॥

171.46

शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात् स्वकात्
अवाप्य विद्यां गान्धर्वीं प्रियश् चासीच् छतक्रतोः ॥

171.47

शांभवं वैष्णवं चैव उर्वशीतीर्थम् एव च
ततःप्रभृति तत् तीर्थं कैतवं चेति विश्रुतम् ॥

171.48

शिवविष्णुसरिन्मातु प्रसादाद् आप्यते न किम्
तत्र स्नानं च दानं च बहुपुण्यफलप्रदम्
पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc