भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 170

170.1

चक्षुस्तीर्थम् इति ख्यातं रूपसौभाग्यदायकम्
यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥

170.2

पुरं भौवनम् आख्यातं गिरिमूर्ध्न्य् अभिधीयते
यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥

170.3

तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः
तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥

170.4

तस्य मातुर् मनोदोषाद् विपरीतो ऽभवद् द्विजः
सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते ॥

170.5

तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः
श्रीमद्दरिद्रयोर् नित्यं परस्परहितैषिणोः ॥

170.6

कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम्
प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥

170.7

गच्छामो धनम् आदातुं पर्वतान् उदधीन् अपि
यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः
धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम् ॥

170.8

कुण्डलो द्विजम् आहेदं मत्पित्रोपार्जितं धनम्
बह्व् अस्ति किं धनेनाद्य करिष्ये द्विजसत्तम
द्विजः पुनर् उवाचेदं मणिकुण्डलम् ओजसा ॥

170.9

धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते
उत्कर्षप्राप्तिर् एवैषां सखे श्लाघ्या शरीरिणाम् ॥

170.10

स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः
परदत्तार्थसंतुष्टाः कष्टजीविन एव ते ॥

170.11

स पुत्रः शस्यते लोके पितृभिश् चाभिनन्द्यते
यः पैत्र्यम् अभिलिप्सेत न वाचापि तु कुण्डल ॥

170.12

स्वबाहुबलम् आश्रित्य यो ऽर्थान् अर्जयते सुतः
स कृतार्थो भवेल् लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥

170.13

स्वयम् आर्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे
तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः ॥

170.14

एतच् छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः
तथेति मत्वा तद्वाक्यं रत्नान्य् आदाय सत्वरः ॥

170.15

आत्मकीयानि वित्तानि गौतमाय न्यवेदयत्
धनेनैतेन देशांश् च परिभ्रम्य यथासुखम् ॥

170.16

धनान्य् आदाय वित्तानि पुनर् एष्यामहे गृहम्
सत्यम् एव वणिग् वक्ति स तु विप्रः प्रतारकः ॥

170.17

पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम्
तौ परस्परम् आमन्त्र्य मातापित्रोर् अजानतोः ॥

170.18

देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ
वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुम् इच्छति ॥

170.19

येन केनाप्य् उपायेन तद् धनं हि समाहरे
अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥

170.20

इष्टप्रदात्र्यः कामस्य देवता इव योषितः
मनोहरास् तत्र तत्र सन्ति किं क्रियते मया ॥

170.21

धनम् आहृत्य यत्नेन योषिद्भ्यो यदि दीयते
भुज्यन्ते तास् ततो नित्यं सफलं जीवितं हि तत् ॥

170.22

नृत्यगीतरतो नित्यं पण्यस्त्रीभिर् अलंकृतः
भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तम् आगतम् ॥

170.23

एवं चिन्तयमानो ऽसौ गौतमः प्रहसन्न् इव
मणिकुण्डलम् आहेदम् अधर्माद् एव जन्तवः ॥

170.24

वृद्धिं सुखम् अभीष्टानि प्राप्नुवन्ति न संशयः
धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥

170.25

तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना ॥

170.26

नेत्य् उवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम्
पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च
यतो धर्मस् ततो मुक्तिः स्वधर्मः किं विनश्यति ॥

170.27

एवं विवदतोस् तत्र संपरायस् तयोर् अभूत्
यस्य पक्षो भवेज् ज्यायान् स परार्थम् अवाप्नुयात् ॥

170.28

पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्य् अधर्मिणः
वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत् ॥

170.29

एवं विवदमानौ ताव् ऊचतुः सकलाञ् जनान्
धर्मस्य वाप्य् अधर्मस्य प्राबल्यम् अनयोर् भुवि ॥

170.30

तद् वदन्तु यथावृत्तम् एवम् ऊचतुर् ओजसा
एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः ॥

170.31

तैर् दुःखम् अनुभूयते पापिष्ठाः सुखिनो जनाः
संपराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥

170.32

मणिमान् धर्मविच्छ्रेष्ठः पुनर् धर्मं प्रशंसति
मणिमन्तं द्विजः प्राह किं धर्मम् अनुशंससि
तथेति चेत्य् आह वैश्यो ब्राह्मणः पुनर् अब्रवीत् ॥

170.33

जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे
मयैव विजितो धर्मो यथेष्टचरणात्मना ॥

170.34

तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान् ॥

170.35

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु
तथैव तान् सखे मन्ये येषां धर्मो न विद्यते ॥

170.36

चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते
पश्चाद् अर्थश् च कामश् च स धर्मो मयि तिष्ठति
कथं ब्रूषे द्विजश्रेष्ठ मया विजितम् इत्य् अदः ॥

170.37

द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः
तथेति मन्यते वैश्यस् तौ गत्वा पुनर् ऊचतुः ॥

170.38

पूर्ववल् लौकिकान् गत्वा जितम् इत्य् अब्रवीद् द्विजः
करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे
आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनम् अब्रवीत् ॥

170.39

धर्मम् एव परं मन्ये प्राणैः कण्ठगतैर् अपि
माता पिता सुहृद् बन्धुर् धर्म एव शरीरिणाम् ॥

170.40

एवं विवदमानौ ताव् अर्थवान् ब्राह्मणो ऽभवत्
विमुक्तो वैश्यकस् तत्र बाहुभ्यां च धनेन च ॥

170.41

एवं भ्रमन्तौ संप्राप्तौ गङ्गां योगेश्वरं हरिम्
यदृच्छया मुनिश्रेष्ठ मिथस् ताव् ऊचतुः पुनः ॥

170.42

वैश्यो गङ्गां तु योगेशं धर्मम् एव प्रशंसति
अतिकोपाद् द्विजो वैश्यम् आक्षिपन् पुनर् अब्रवीत् ॥

170.43

गतं धनं करौ छिन्नाव् अवशिष्टो शुभिर् भवान्
त्वम् अन्यथा यदि ब्रूष आहरिष्ये ऽसिना शिरः ॥

170.44

विहस्य पुनर् आहेदं वैश्यो गौतमम् अञ्जसा ॥

170.45

धर्मम् एव परं मन्ये यथेच्छसि तथा कुरु
ब्राह्मणांश् च गुरून् देवान् वेदान् धर्मं जनार्दनम् ॥

170.46

यस् तु निन्दयते पापो नासौ स्पृश्यो ऽथ पापकृत्
उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥

170.47

ततः प्राह स कोपेन धर्मं यद्य् अनुशंससि
आवयोः प्राणयोर् अत्र पणः स्याद् इति वै मुने ॥

170.48

एवम् उक्ते गौतमेन तथेत्य् आह वणिक् तदा
पुनर् अप्य् ऊचतुर् उभौ लोकांल् लोकास् तथोचिरे ॥

170.49

योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे
तं निपात्य विशं विप्रश् चक्षुर् उत्पाट्य चाब्रवीत् ॥

170.50

गतो ऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया
गतं धनं गतं चक्षुश् छेदितौ करपल्लवौ
पृष्टो ऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥

170.51

तस्मिन् प्रयाते वैश्यो ऽसौ चिन्तयाम् आस चेतसि
हा कष्टं मे किम् अभवद् धर्मैकमनसो हरे ॥

170.52

स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतबाहुकः
गतनेत्रः शुचं प्राप्तो धर्मम् एवानुसंस्मरन् ॥

170.53

एवं बहुविधां चिन्तां कुर्वन्न् आस्ते महीतले
निश्चेष्टो ऽथ निरुत्साहः पतितः शोकसागरे ॥

170.54

दिनावसाने शर्वर्याम् उदिते चन्द्रमण्डले
एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः ॥

170.55

स तु योगेश्वरं देवं पूजयित्वा यथाविधि
स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर् वृतः ॥

170.56

विभीषणस्य हि सुतो विभीषण इवापरः
वैभीषणिर् इति ख्यातस् तम् अपश्यद् उवाच ह ॥

170.57

वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित्
पित्रे निवेदयाम् आस लङ्केशाय महात्मने
स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम् ॥

170.58

श्रीमान् रामो मम गुरुस् तस्य मान्यः सखा मम
हनुमान् इति विख्यातस् तेनानीतो गिरिर् महान् ॥

170.59

पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयो ऽचलः
जाते कार्ये तम् आदाय हिमवन्तम् अथागमत् ॥

170.60

विशल्यकरणी चेति मृतसंजीवनीति च
तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥

170.61

निवेदयित्वा तत् साध्यं तस्मिन् वृत्ते समागतः
पुनर् गिरिं समादाय आगच्छद् देवपर्वतम् ॥

170.62

ताम् आनीयास्य हृदये निवेशय हरिं स्मरन्
ततः प्राप्स्यत्य् अयं सर्वम् अपेक्षितम् उदारधीः ॥

170.63

गच्छतस् तस्य वेगेन विशल्यकरणी पुनः
अपतद् गौतमीतीरे यत्र योगेश्वरो हरिः ॥

170.64

ताम् ओषधीं मम पितर् दर्शयाशु विलम्ब मा
परार्तिशमनाद् अन्यच् छ्रेयो न भुवनत्रये ॥

170.65

विभीषणस् तथेत्य् उक्त्वा तां पुत्रस्याप्य् अदर्शयत्
इषे त्वेत्य् अस्य वृक्षस्य शाखां चिच्छेद तत्सुतः
वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः ॥

170.66

यत्रापतन् नगे चास्मिन् स वृक्षस् तु प्रतापवान्
तस्य शाखां समादाय हृदये ऽस्य निवेशय
तत्स्पृष्टमात्र एवासौ स्वकं रूपम् अवाप्नुयात् ॥

170.67

एतच् छ्रुत्वा पितुर् वाक्यं वैभीषणिर् उदारधीः
तथा चकार वै सम्यक् काष्ठखण्डं न्यवेशयत् ॥

170.68

हृदये स तु वैश्यो ऽपि सचक्षुः सकरो ऽभवत्
मणिमन्त्रौषधीनां हि वीर्यं को ऽपि न बुध्यते ॥

170.69

तद् एव काष्ठम् आदाय धर्मम् एवानुसंस्मरन्
स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥

170.70

नमस्कृत्वा पुनर् अगात् काष्ठखण्डेन वैश्यकः
परिभ्रमन् नृपपुरं महापुरम् इति श्रुतम् ॥

170.71

महाराज इति ख्यातस् तत्र राजा महाबलः
तस्य नास्ति सुतः कश्चित् पुत्रिका नष्टलोचना ॥

170.72

सैव तस्य सुता पुत्रस् तस्यापि व्रतम् ईदृशम्
देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत् ॥

170.73

वैश्यो वा शूद्रयोनिर् वा सगुणो निर्गुणो ऽपि वा
तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥

170.74

राज्येन सह देयेयम् इति राजा ह्य् अघोषयत्
अहर्निशम् असौ वैश्यः श्रुत्वा घोषम् अथाब्रवीत् ॥

170.75

अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥

170.76

तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत्
तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा ॥

170.77

ततः सविस्मयो राजा को भवान् इति चाब्रवीत्
वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः ॥

170.78

ब्राह्मणानां प्रसादेन धर्मस्य तपसस् तथा
दानप्रभावाद् यज्ञैश् च विविधैर् भूरिदक्षिणैः
दिव्यौषधिप्रभावेन मम सामर्थ्यम् ईदृशम् ॥

170.79

एतद् वैश्यवचः श्रुत्वा विस्मितो ऽभून् महीपतिः ॥

170.80

अहो महानुभावो ऽयं प्रायो वृन्दारको भवेत्
अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम्
तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम् ॥

170.81

इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान्
विहारार्थं गतः स्वैरं परं खेदम् उपागतः ॥

170.82

न मित्रेण विना राज्यं न मित्रेण विना सुखम्
तम् एव सततं विप्रं चिन्तयन् वैश्यनन्दनः ॥

170.83

एतद् एव सुजातानां लक्षणं भुवि देहिनाम्
कृपार्द्रं यन् मनो नित्यं तेषाम् अप्य् अहितेषु हि ॥

170.84

महानृपो वनं प्रायात् स राजा मणिकुण्डलः
तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम् ॥

170.85

हृतस्वं द्यूतकैः पापैर् अपश्यन् मणिकुण्डलः
तम् आदाय द्विजं मित्रं पूजयाम् आस धर्मवित् ॥

170.86

धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत्
स्नापयाम् आस गङ्गायां तं सर्वाघनिवृत्तये ॥

170.87

तेन विप्रेण सर्वैस् तैः स्वकीयैर् गोत्रजैर् वृतः
वैश्यैः स्वदेशसंभूतैर् ब्राह्मणस्य तु बान्धवैः ॥

170.88

वृद्धकौशिकमुख्यैश् च तस्मिन् योगेश्वरान्तिके
यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गम् उपेयिवान् ॥

170.89

ततः प्रभृति तत् तीर्थं मृतसंजीवनं विदुः
चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम्
मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc