भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 169

169.1

भिल्लतीर्थम् इति ख्यातं रोगघ्नं पापनाशनम्
महादेवपदाम्भोज युगभक्तिप्रदायकम् ॥

169.2

तत्राप्य् एवंविधां पुण्यां कथां शृणु महामते
गङ्गाया दक्षिणे तीरे श्रीगिरेर् उत्तरे तटे ॥

169.3

आदिकेश इति ख्यात ऋषिभिः परिपूजितः
महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥

169.4

सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः
तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥

169.5

तम् आदिकेशं वै देवं त्रिपुरारिं त्रिलोचनम्
नित्यं पूजयते भक्त्या प्राप्ते मध्यंदिने रवौ ॥

169.6

भिक्षाटनाय वेदो ऽपि याति ग्रामं विचक्षणः
याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः ॥

169.7

तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः
अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम् ॥

169.8

मुखे गृहीत्वा पानीयम् अभिषेकाय शूलिनः
न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥

169.9

आदिकेशं समागत्य न्यस्य मांसं ततो बहिः
गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥

169.10

यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः
अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥

169.11

आदिकेशं समागत्य वेदेनार्चितम् ओजसा
पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥

169.12

स्नापयित्वा शिवं देवम् अर्चयित्वा तु पत्त्रकैः
कल्पयित्वा तु तन् मांसं शिवो मे प्रीयताम् इति ॥

169.13

नैव किंचित् स जानाति शिवभक्तिं विना शुभाम्
ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥

169.14

करोत्य् एतादृग् आगत्या गत्य प्रत्यहम् एव सः
तथापीशस् तुतोषास्य विचित्रा हीश्वरस्थितिः ॥

169.15

यावन् नायात्य् असौ भिल्लः शिवस् तावन् न सौख्यभाक्
भक्तानुकम्पितां शंभोर् मानातीतां तु वेत्ति कः ॥

169.16

संपूजयत्य् आदिकेशम् उमया प्रत्यहं शिवम्
एवं बहुतिथे काले याते वेदश् चुकोप ह ॥

169.17

पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम्
को नु विध्वंसते पापो मत्तः स वधम् आप्नुयात् ॥

169.18

गुरुदेवद्विजस्वामि द्रोही वध्यो मुनेर् अपि
सर्वस्यापि वधार्हो ऽसौ शिवस्य द्रोहकृन् नरः ॥

169.19

एवं निश्चित्य मेधावी वेदः सिन्धोस् तथानुजः
कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः ॥

169.20

पुष्पैर् वन्यभवैर् दिव्यैः कन्दैर् मूलफलैः शुभैः
कृतां पूजां स विध्वस्य ह्य् अन्यां पूजां करोति यः ॥

169.21

मांसेन तरुपत्त्रैश् च स च वध्यो भवेन् मम
एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा ॥

169.22

तं पश्येयम् अहं पापं पूजाकर्तारम् ईश्वरे
एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा ॥

169.23

नित्यवत् पूजयन्तं तम् आदिकेशस् तदाब्रवीत् ॥

169.24

भो भो व्याध महाबुद्धे श्रान्तो ऽसीति पुनः पुनः
चिराय कथम् आयातस् त्वां विना तात दुःखितः
न विन्दामि सुखं किंचित् समाश्वसिहि पुत्रक ॥

169.25

तम् एवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु
चुकोप विस्मयाविष्टो न च किंचिद् उवाच ह ॥

169.26

व्याधश् च नित्यवत् पूजां कृत्वा स्वभवनं ययौ
वेदश् च कुपितो भूत्वा आगत्येशम् उवाच ह ॥

169.27

अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः
प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥

169.28

हीनजातिर् अकिंचिज्ज्ञो गुरुक्रमविवर्जितः
सदानुचितकारी चा निर्जिताखिलगोगणः ॥

169.29

तस्यात्मानं दर्शितवान् न मां किंचन वक्ष्यसि
पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥

169.30

त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः
व्याधो मांसेन दुष्टेन पूजां तव करोत्य् असौ ॥

169.31

तस्य प्रसन्नो भगवान् न ममेति महाद्भुतम्
शास्तिम् अस्य करिष्यामि भिल्लस्य ह्य् अपकारिणः ॥

169.32

मृदोः कोपि भवेत् प्रीतः कोपि तद्वद् दुरात्मनः
तस्माद् अहं मूर्ध्नि शिलां पातयेयम् असंशयम् ॥

169.33

इत्य् उक्तवति वै वेदे विहस्येशो ऽब्रवीद् इदम् ॥

169.34

श्वः प्रतीक्षस्व पश्चान् मे शिलां पातय मूर्धनि ॥

169.35

तथेत्य् उक्त्वा स वेदो ऽपि शिलां संत्यज्य बाहुना
उपसंहृत्य तं कोपं श्वः करोमीत्य् उवाच ह ॥

169.36

ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च
वेदो ऽपि नित्यवत् पूजां कुर्वन् पश्यति मस्तके ॥

169.37

लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम्
वेदः स विस्मितो भूत्वा किम् इदं लिङ्गमूर्धनि ॥

169.38

महोत्पातो भवेत् कस्य सूचयेद् इत्य् अचिन्तयत्
मृद्भिश् च गोमयेनापि कुशैस् तं गाङ्गवारिभिः ॥

169.39

प्रक्षालयित्वा तां पूजां कृतवान् नित्यवत् तदा
एतस्मिन्न् अन्तरे प्रायाद् व्याधो विगतकल्मषः ॥

169.40

मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके
शंकरस्यादिकेशस्य ददृशे ऽन्तर्गतस् तदा ॥

169.41

दृष्ट्वैव किम् इदं चित्रम् इत्य् उक्त्वा निशितैः शरैः
आत्मानं भेदयाम् आस शतधा च सहस्रधा ॥

169.42

स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः
मुहुर् निनिन्द चात्मानं मयि जीवत्य् अभूद् इदम् ॥

169.43

कष्टम् आपतितं कीदृग् अहो दुर्विधिवैशसात्
तत् कर्म तस्य संवीक्ष्य महादेवो ऽतिविस्मितः
ततः प्रोवाच भगवान् वेदं वेदविदां वरम् ॥

169.44

पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम्
त्वं तु मृद्भिः कुशैर् वार्भिर् मूर्धानं स्पृष्टवान् असि ॥

169.45

अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः
भक्तिः प्रेमाथवा शक्तिर् विचारो यत्र विद्यते
तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम ॥

169.46

वरेण च्छन्दयाम् आस व्याधं देवो महेश्वरः
व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत् ॥

169.47

तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थम् उच्यताम्
सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम् ॥

169.48

तथेत्य् उवाच देवेशस् ततस् तत् तीर्थम् उत्तमम्
भिल्लतीर्थं समस्ताघ संघविच्छेदकारणम् ॥

169.49

श्रीमहादेवचरण महाभक्तिविधायकम्
अभवत् स्नानदानाद्यैर् भुक्तिमुक्तिप्रदायकम्
वेदस्यापि वरान् प्रादाच् छिवो नानाविधान् बहून् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc