भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 168

168.1

भानुतीर्थम् इति ख्यातं त्वाष्ट्रं माहेश्वरं तथा
ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥

168.2

अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः
हयमेधेन पुण्येन यष्टुम् आरब्धवान् सुरान् ॥

168.3

तत्रर्त्विजः षोडश स्युर् वसिष्ठात्रिपुरोगमाः
क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥

168.4

ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम्
भूपतौ दीक्षिते दाता को भवेत् को नु याचते ॥

168.5

याच्ञेयम् अखिलाशर्म जननी पापरूपिणी
केनाप्य् अतो न कार्यैव क्षत्रियेण विशेषतः ॥

168.6

एवं मीमांसमानेषु ब्राह्मणेषु परस्परम्
तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥

168.7

राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति
देहि मे देव सवितर् यजनं देवतोचितम् ॥

168.8

दैवं क्षत्रम् असि ब्रह्मन् भूतनाथ नमो ऽस्तु ते
याचितः सविता राज्ञा देवानां यजनं शुभम् ॥

168.9

ददात्य् एव ततो राजन् प्रार्थयेशं दिवाकरम् ॥

168.10

तथेत्य् उक्त्वाभिष्टुतो ऽपि देवदेवं दिवाकरम्
श्रद्धया प्रार्थयाम् आस हरीशाजात्मकं रविम् ॥

168.11

देवानां यजनं देहि सवितस् ते नमो ऽस्तु ते ॥

168.12

क्षत्रं दैवं यतः सूर्यो दत्ता भूर् भूपतेस् ततः
सविता देवदेवेशो ददामीत्य् अभ्यभाषत ॥

168.13

एवं करोति यो यज्ञं तस्य रिष्टिर् न काचन
तथा वाजिमखे सत्त्रे ब्राह्मणैर् वेदपारगैः ॥

168.14

प्रारब्धे ऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः
देवानां यजनं दातुं भानुतीर्थं तद् उच्यते ॥

168.15

तं देवक्रतुम् उत्कृष्टं हयमेधं सुरैर् युतम्
दैत्याश् च दनुजाश् चैव तथान्ये यज्ञघातकाः ॥

168.16

ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव
ते ऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः ॥

168.17

चमसानि च पात्राणि सोमं चषालम् एव च
सोमपानं हविस् त्यागम् ऋत्विजो भूपतिं तथा ॥

168.18

निन्दन्ति निक्षिपन्त्य् अन्ये हसन्त्य् अन्ये तथासुराः
तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥

168.19

विश्वरूपो ऽपि पितरं प्राह दैत्या इमे इति
तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम् ॥

168.20

गृहीत्वा वारिदर्भांश् च प्रोक्षयध्वं समन्ततः
ये निन्दन्ति मखं पुण्यं चमसं सोमम् एव च ॥

168.21

मया त्व् अपहताः सर्व इत्य् उक्त्वा परिषिञ्चत ॥

168.22

तथा चक्रुः सुरगणास् त्वष्टा चापि तथाकरोत्
भस्मीभूतास् ततः सर्वे कांदिशीकास् ततो ऽभवन् ॥

168.23

हता मया महापापा इत्य् उक्त्वा वार्य् अवाक्षिपत्
ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास् ततः ॥

168.24

यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः
त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम् ॥

168.25

त्वष्टुर् वाक्याच् च्युतान् दैत्यान् निजघान यमस् तदा
कालदण्डेन चक्रेण कालपाशेन मन्युना ॥

168.26

यत्र ते निहता दैत्यास् तत् तीर्थं याम्यम् उच्यते
यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥

168.27

धाराभिः शरमानाभिर् अखण्डाभिर् महाध्वरे
यत्राभवद् धव्यवाहस् तृप्तस् तस्य ह्य् अभिष्टुतः ॥

168.28

अग्नितीर्थं तद् आख्यातम् अश्वमेधफलप्रदम्
इन्द्रो मरुद्भिर् नृपतिं प्राहेदं वचनं शुभम् ॥

168.29

त्वं संराड् भविता राजन्न् उभयोर् अपि लोकयोः
सखा मम प्रियो नित्यं भविता नात्र संशयः ॥

168.30

स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम्
कुर्यात् पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥

168.31

माहेश्वरं तु तत् तीर्थं पूजितो ऽभिष्टुतः शिवः
भक्तियुक्तेन विप्रैश् च सर्वकर्मविशारदैः ॥

168.32

वैदिकैर् लौकिकैश् चैव मन्त्रैः पूज्यं महेश्वरम्
नृत्यैर् गीतैस् तथा वाद्यैर् अमृतैः पञ्चसंभवैः ॥

168.33

उपचारैश् च बहुभिर् दण्डपातप्रदक्षिणैः
धूपैर् दीपैश् च नैवेद्यैः पुष्पैर् गन्धैः सुगन्धिभिः ॥

168.34

पूजयाम् आस देवेशं विष्णुं शंभुं धियैकया
ततः प्रसन्नौ देवेशौ वरान् ददतुर् ओजसा ॥

168.35

अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि
माहात्म्यम् अस्य तीर्थस्य तथा ददतुर् उत्तमम् ॥

168.36

ततःप्रभृति तत् तीर्थं शैवं वैष्णवम् उच्यते
तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥

168.37

इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा
विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥

168.38

भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम्
तत्र तीर्थे महापुण्यं तीर्थानां शतम् अत्र हि ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc