ब्रह्म पुराण · अध्याय 165
भद्रतीर्थम् इति प्रोक्तं सर्वानिष्टनिवारणम्
सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥
आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता
छायापि भार्या सवितुस् तस्याः पुत्रः शनैश्चरः ॥
तस्य स्वसा विष्टिर् इति भीषणा पापरूपिणी
तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥
यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः
तच् छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया
एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥
बालाम् एव पिता यस् तु दद्यात् कन्यां सुरूपिणे
स कृतार्थो भवेल् लोके न चेद् दुष्कृतवान् पिता ॥
चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः
तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥
श्रीमते विदुषे यूने कुलीनाय यशस्विने
उदाराय सनाथाय कन्या देया वराय वै ॥
एतच् चेद् अन्यथा कुर्यात् पिता स निरयी सदा
धर्मस्य साधनं कन्या विदुषाम् अपि भास्कर ॥
नरकस्येव मूर्खाणां कामोपहतचेतसाम्
एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥
स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता
विक्रीणीते यश् च कन्याम् अश्वं वा गां तिलान् अपि ॥
न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर् भवेत्
विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥
तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते
यावल् लज्जां न जानाति यावत् क्रीडति पांशुभिः ॥
तावत् कन्या प्रदातव्या नो चेत् पित्रोर् अधोगतिः
पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः ॥
आत्मनः सुखितां लोके को न कुर्यात् करोति च
यत् कन्यायां पिता कुर्याद् दानं पूजनम् ईक्षणम् ॥
यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम्
यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते ॥
पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे
करोति यः कन्यकानां स संपद्भाजनं भवेत् ॥
एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः ॥
किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम्
कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥
मिथः पश्यन्ति संबन्धे विवाहे स्त्रीषु पुंसु च
अस्मासु सर्वम् अप्य् अस्ति विना तव गुणैः शुभे
किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम् ॥
एवम् उक्त्वा पुनस् तां च विष्टिं प्रोवाच भास्करः ॥
यस्मै कस्मै च दातव्या त्वं वै यद्य् अनुमन्यसे
दीयसे ऽद्य मया विष्टे अनुजानीहि मां ततः ॥
पितरं प्राह सा विष्टिर् भर्ता पुत्रा धनं सुखम्
आयू रूपं च संप्रीतिर् जायते प्राक्तनानुगम् ॥
यत् पुरा विहितं कर्म प्राणिना साध्व् असाधु वा
फलं तदनुरोधेन प्राप्यते ऽपि भवान्तरे ॥
स्वदोष एव तत् पित्रा परिहर्तव्य आदरात्
तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा ॥
तस्मात् तद्दानसंबन्धं स्ववंशानुगतं पिता
करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति ॥
तच् छ्रुत्वा दुहितुर् वाक्यं त्वष्टुः पुत्राय भीषणाम्
विश्वरूपाय तां प्रादाद् विष्टिं लोकभयंकरीम् ॥
विश्वरूपो ऽपि तद्वच् च भीषणो भीषणाकृतिः
एवं मिथः संचरतोः शीलरूपसमानयोः ॥
प्रीतिः कदाचिद् वैषम्यं दंपत्योर् अभवन् मिथः
गण्डो नामाभवत् पुत्रो ह्य् अतिगण्डस् तथैव च ॥
रक्ताक्षः क्रोधनश् चैव व्ययो दुर्मुख एव च
तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक् ॥
सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः
स कदाचिद् यमगृहं द्रष्टुं मातुलम् अभ्यगात् ॥
स ददर्श बहूञ् जन्तून् स्वर्गस्थान् इव दुःखिनः
स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥
क इमे सुखिनस् तात पच्यन्ते नरके च के ॥
एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत्
तत्कर्मणां गतिं सर्वाम् अशेषेण न्यवेदयत् ॥
विहितस्य न कुर्वन्ति ये कदाचिद् अतिक्रमम्
न ते पश्यन्ति निरयं कदाचिद् अपि मानवाः ॥
न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान्
विहितातिक्रमं कुर्युर् ये ते नरकगामिनः ॥
स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनर् अब्रवीत् ॥
पिता त्वाष्ट्रो भीषणश् च माता विष्टिश् च भीषणा
भ्रातरश् च महात्मानो येन ते शान्तबुद्धयः ॥
सुरूपाश् च भविष्यन्ति निर्दोषा मङ्गलप्रदाः
तन् मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम ॥
अन्यथा तान् न गच्छेयम् इत्य् उक्तः प्राह धर्मराट्
हर्षणं शुद्धबुद्धिं तं हर्षणो ऽसि न संशयः ॥
बहवः स्युः सुताः केचिन् नैव ते कुलतन्तवः
एक एव सुतः कश्चिद् येन तद् ध्रियते कुलम् ॥
कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः
यः पूर्वजान् उद्धरति स पुत्रस् त्व् इतरो गदः ॥
यस्मात् त्वयानुरूपं मे प्रोक्तं मातामह प्रियम्
तस्मात् त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥
स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा
स तु प्रीतो यदि भवेत् सर्वम् इष्टं प्रदास्यति ॥
इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ
शुचिस् तुष्टाव देवेशं हरिं प्रीतो ऽभवद् धरिः ॥
हर्षणाय ततः प्रादात् कुलभद्रं ततस् तु सः
सर्वाभद्रप्रशमन पूर्वकं भद्रम् अस्तु ते ॥
तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस् तथा सुताः
ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते ॥
सर्वमङ्गलदं पुंसां तत्र भद्रपतिर् हरिः
तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम्
मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0