ब्रह्म पुराण · अध्याय 166
पतत्रितीर्थम् आख्यातं रोगघ्नं पापनाशनम्
तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥
बभूवतुः कश्यपस्य सुताव् अरुणाव् ईश्वरौ
संपातिश् च जटायुश् च संभवेतां तदन्वये ॥
तार्क्ष्यप्रजापतेः पुत्राव् अरुणो गरुडस् तथा
तदन्वये संभूतः च संपातिः पतगोत्तमः ॥
जटायुर् इति विख्यातो ह्य् अपरः सोदरो ऽनुजः
अन्योन्यस्पर्धया युक्ताव् उन्मत्तौ स्वबलेन तौ ॥
संजग्मतुर् दिनकरं नमस्कर्तुं विहायसि
यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥
दग्धपक्षाव् उभौ श्रान्तौ पतितौ गिरिमूर्धनि
बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥
तावद् दुःखाभिभूतो ऽसाव् अरुणः प्राह भास्करम्
तौ दृष्ट्वा त्व् अरुणः सूर्य्.अम् प्राहेदं पतितौ भुवि
आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः ॥
तथेत्य् उक्त्वा दिनकरो जीवयाम् आस तौ खगौ
गरुडो ऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥
आगत्याश्वासयाम् आस सुखं चक्रे च नारद
सर्व एव तदा जग्मुर् गङ्गां तापापनुत्तये ॥
जटायुश् चारुणश् चैव संपातिर् गरुडस् तथा
सूर्यो विष्णुस् तत् प्रययौ तत् तीर्थं बहुपुण्यदम् ॥
पतत्रितीर्थम् आख्यातं विषघ्नं सर्वकामदम्
स्वयं सूर्यस् तथा विष्णुः सुपर्णेनारुणेन च ॥
आसते गौतमीतीरे तथैव वृषभध्वजः
त्रयाणाम् अपि देवानां स्थितेस् तत् तीर्थम् उत्तमम् ॥
तत्र स्नात्वा शुचिर् भूत्वा नमस्कुर्यात् सुरान् इमान्
आधिव्याधिविनिर्मुक्तः स परं सौख्यम् आप्नुयात् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0