ब्रह्म पुराण · अध्याय 164
चिच्चिकातीर्थम् इत्य् उक्तं सर्वरोगविनाशनम्
सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥
तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे
गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥
चिच्चिकः पक्षिराट् तत्र भेरुण्डो यो ऽभिधीयते
सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥
नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर् नगैः
सेविते द्विजमुख्यैश् च गौतम्या चोपशोभिते ॥
सिद्धचारणगन्धर्व किंनरामरसंकुले
तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम् ॥
रोगार्तिक्षुत्तृषाचिन्ता मरणानां न भाजनम्
एवं गुणान्विते शैले नानामुनिगणावृते ॥
पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः
क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः ॥
बलेन महता युक्तः सपुरोधा वनं ययौ
रेमे स्त्रीभिर् मनोज्ञाभिर् नृत्यवादित्रजैः सुखैः ॥
स च एवं धनुष्पाणिर् मृगयाशीलिभिर् वृतः
एवं भ्रमन् कदाचित् स श्रान्तो द्रुमम् उपागतः ॥
गौतमीतीरसंभूतं नानापक्षिगणैर् वृतम्
आश्रमाणां गृहपतिं धर्मज्ञम् इव सेवितम् ॥
तम् आश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः
स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥
तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम्
चिन्ताविष्टं तथा श्रान्तं तम् अपृच्छन् नृपोत्तमः ॥
को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे
नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखम् आगतः ॥
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः
समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः ॥
मत्तो भयं न चान्येषां मम वान्योपपादितम्
नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥
पश्येयं शून्यम् एवाद्रिं ततः शोचामि माम् अहम्
न लभामि सुखं किंचिन् न तृप्यामि कदाचन
निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥
को भवान् किं कृतं पापं कस्माच् छून्यश् च पर्वतः
एकेनास्येन तृप्यन्ति प्राणिनो ऽत्र नगोत्तमे ॥
किम् उतास्यद्वयेन त्वं न तृप्तिम् उपयास्यसि
किं वा ते दुष्कृतं प्राप्तम् इह जन्मन्य् अथो पुरा ॥
तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥
राजानं तं द्विजः प्राह निःश्वसन्न् अथ चिच्चिकः ॥
वक्ष्ये ऽहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत्
अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥
कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः
वदे पुरस् तथा पृष्ठे अन्यद् अन्यच् च जन्तुषु ॥
परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः
कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥
मित्रस्वामिगुरुद्रोही दम्भाचारो ऽतिनिर्घृणः
मनसा कर्मणा वाचा तापयामि जनान् बहून् ॥
अयम् एव विनोदो मे सदा यत् परहिंसनम्
युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥
करोमि निर्विचारो ऽहं विद्वत्सेवापराङ्मुखः
न मया सदृशः कश्चित् पातकी भवनत्रये ॥
तेनाहं द्विमुखो जातस् तापनाद् दुःखभाग्य् अहम्
तस्माद् दुःखेन संतप्तः शून्यो ऽयं पर्वतो मम ॥
अन्यच् च शृणु भूपाल वाक्यं धर्मार्थसंहितम्
ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते ॥
क्षत्रियः संगरं गत्वा अथवान्यत्र संगरात्
पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥
अविज्ञातं चोपविष्टं बिभेमीति च वादिनम्
तं यदि क्षत्रियो हन्यात् स तु स्याद् ब्रह्मघातकः ॥
अधीतं विस्मरति यस् त्वं करोति तथोत्तमम्
अनादरं च गुरुषु तम् आहुर् ब्रह्मघातकम् ॥
प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च
अन्यद् धृदि वचस्य् अन्यत् करोत्य् अन्यत् सदैव यः ॥
गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः
मिथ्या विनीतः पापात्मा स तु स्याद् ब्रह्मघातकः ॥
देवं वेदम् अथाध्यात्मं धर्मब्राह्मणसंगतिम्
एतान् निन्दति यो द्वेषात् स तु स्याद् ब्रह्मघातकः ॥
एवं भूतो ऽप्य् अहं राजन् दम्भार्थं लज्जया तथा
सद्वृत्त इव वर्ते ऽहं तस्माद् राजन् द्विजो ऽभवम् ॥
एवं भूतो ऽपि सत्कर्म किंचित् कर्तास्मि कुत्रचित्
तेनाहं कर्मणा राजन् स्वतः स्मर्ता पुरा कृतम् ॥
तच् चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः
कर्मणा केन ते मुक्तिर् इत्य् आह नृपतिर् द्विजम् ॥
इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥
अस्मिन्न् एव नगश्रेष्ठे गौतम्या उत्तरे तटे
गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥
तद् धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम्
सर्वकामप्रदं चेति महद्भिर् मुनिभिः श्रुतम् ॥
न गौतम्यास् तथा विष्णोर् अपरं क्लेशनाशनम्
सर्वभावेन तत् तीर्थं पश्येयम् इति मे मतिः ॥
मत्कृतेन प्रयत्नेन नैतच् छक्यं कदाचन
कथम् आकाङ्क्षितप्राप्तिर् भवेद् दुष्कृतकर्मणाम् ॥
सप्रयत्नो ऽप्य् अहं वीर न पश्ये तत् सुदुष्करम्
तस्मात् तव प्रसादाच् च पश्येयं हि गदाधरम् ॥
अविज्ञापितदुःखज्ञं करुणावरुणालयम्
यस्मिन् दृष्टे भवक्लेशा न दृश्यन्ते पुनर् नरैः ॥
दृष्ट्वैव तं दिवं यास्ये प्रसादात् तव सुव्रत ॥
एवम् उक्तः स नृपतिश् चिच्चिकेन द्विजन्मना
दर्शयाम् आस तं देवं तां च गङ्गां द्विजन्मने ॥
ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम् ॥
गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः
न पश्यत्य् उच्यते तावद् इहामुत्रापि पातकी ॥
तस्मात् सर्वागसम् अपि माम् उद्धर सरिद्वरे
संसारे देहिनाम् अन्या न गतिः कापि कुत्रचित्
त्वां विना विष्णुचरण सरोरुहसमुद्भवे ॥
इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः
स्नानं चक्रे स्मरन्न् अन्तर् गङ्गे त्रायस्व माम् इति ॥
गदाधरं ततो नत्वा पश्यत्सु नगवासिषु
पवमानाभ्यनुज्ञातस् तदैव दिवम् आक्रमत् ॥
पवमानः स्वनगरं प्रययौ सानुगस् ततः
ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम् ॥
गदाधरं कोटितीर्थम् इति वेदविदो विदुः
कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0