ब्रह्म पुराण · अध्याय 163
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम्
भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम् ॥
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम्
तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद ॥
पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः
शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः
तस्मिञ् शुभ्रे पुण्यगिरौ तपस् तेपे ह्य् अनुत्तमम् ॥
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरम् आश्रितम्
सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥
अग्निशुश्रूषणपरं वेदाध्ययनतत्परम्
ऋषिगन्धर्वसुमनः सेविते तत्र पर्वते ॥
तस्मिन् गिरौ महापुण्ये देवद्विजभयंकरः
यज्ञद्वेषी ब्रह्महन्ता परशुर् नाम राक्षसः ॥
कामरूपी विचरति नानारूपधरो वने
क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक् ॥
कदाचिद् देवरूपेण कदाचित् पशुरूपधृक्
कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः ॥
कदाचिद् बालरूपेण एवं चरति पापकृत्
यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः ॥
तम् आयाति महापापी परशू राक्षसाधमः
शुचिष्मन्तं द्विजश्रेष्ठं परशुर् नित्यम् एव च ॥
नेतुं हन्तुं प्रवृत्तो ऽपि न शशाक स पापकृत्
स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः ॥
भोक्तुकामः किलायातस् तत्रायात् परशुर् मुने
ब्रह्मरूपधरो भूत्वा शिथिलः पलितो ऽबली
कन्याम् आदाय कांचिच् च शाकल्यं वाक्यम् अब्रवीत् ॥
भोजनस्यार्थिनं विद्धि मां च कन्याम् इमां द्विज
आतिथ्यकाले संप्राप्तं कृतकृत्यो ऽसि मानद ॥
त एव धन्या लोके ऽस्मिन् येषाम् अतिथयो गृहात्
पूर्णाभिलाषा निर्यान्ति जीवन्तो ऽपि मृताः परे ॥
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत्
अतिथिभ्यस् तु यो दद्याद् दत्ता तेन वसुंधरा ॥
एतच् छ्रुत्वा तु शाकल्यो ददामीत्य् एवम् अब्रवीत्
आसने चोपवेश्याथा ज्ञानात् तं परशुं द्विजम् ॥
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ
आपोशनं करे कृत्वा परशुर् वाक्यम् अब्रवीत् ॥
दूराद् अभ्यागतं श्रान्तम् अनुगच्छन्ति देवताः
तस्मिंस् तृप्ते तु तृप्ताः स्युर् अतृप्ते तु विपर्ययः ॥
अतिथिश् चापवादी च द्वाव् एतौ विश्वबान्धवौ
अपवादी हरेत् पापम् अतिथिः स्वर्गसंक्रमः ॥
अभ्यागतं पथि श्रान्तं सावज्ञं यो ऽभिवीक्षते
तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः ॥
तस्माद् अभ्यागतः श्रान्तो याचे ऽहं त्वां द्विजोत्तम
दास्यसे यदि मे कामं तद् भोक्ष्ये ऽहं न चान्यथा ॥
दत्तम् इत्य् एव शाकल्यो भुङ्क्ष्वेत्य् एवाह राक्षसम्
ततः प्रोवाच परशुर् अहं राक्षससत्तमः ॥
नाहं द्विजस् तव रिपुर् न वृद्धः पलितः कृशः
बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा
तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥
श्रुत्वा परशुवाक्यं तच् छाकल्यो वाक्यम् अब्रवीत् ॥
ये महाकुलसंभूता विज्ञातसकलागमाः
तत् प्रतिश्रुतम् अभ्येति न जात्व् अत्र विपर्ययम् ॥
यथोचितं कुरु सखे तथापि शृणु मे वचः
निहन्तुम् अप्य् उद्यतेषु वक्तव्यं हितम् उत्तमैः ॥
ब्राह्मणो ऽहं वज्रतनुः सर्वतो रक्षको हरिः
पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥
बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट्
हृदयं रक्षतात् कृष्णो ह्य् अङ्गुली रक्षतान् मृगः ॥
मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः
श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद् भवः
नानापत्स्व् एकशरणं देवो नारायणः स्वयम् ॥
एवम् उक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम्
मां राक्षसेन्द्र परशो त्वम् इदानीम् अतन्द्रितः ॥
राक्षसस् तस्य वचनाद् भक्षणाय समुद्यतः
नास्त्य् एव हृदये नूनं पापिनां करुणाकणः ॥
दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा
ब्राह्मणं तं निरीक्ष्यैवं परशुर् वाक्यम् अब्रवीत् ॥
शङ्खचक्रगदापाणिं त्वां पश्ये ऽहं द्विजोत्तम
सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥
सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम्
त्वाम् अद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥
तस्मात् प्रसादये विप्र त्वम् एव शरणं भव
ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्य् अघनिष्कृतिम् ॥
महतां दर्शनं ब्रह्मञ् जायते नहि निष्फलम्
द्वेषाद् अज्ञानतो वापि प्रसङ्गाद् वा प्रमादतः ॥
अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥
एतद् वाक्यं समाकर्ण्य राक्षसेन समीरितम्
शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥
तवाचिराद् दैत्यपते ततः स्तुहि जनार्दनम्
मनोरथफलप्राप्तौ नान्यन् नारायणस्तुतेः ॥
किंचिद् अप्य् अस्ति लोके ऽस्मिन् कारणं शृणु राक्षस
प्रसन्ना तव सा देवी मद्वाक्याच् च भविष्यति ॥
तथेत्य् उक्त्वा स परशुर् गङ्गां त्रैलोक्यपावनीम्
स्नात्वा शुचिर् यतमना गङ्गाम् अभिमुखः स्थितः ॥
तत्रापश्यद् दिव्यरूपां दिव्यगन्धानुलेपनाम्
सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥
जगज्जाड्यहरां विश्व जननीं भुवनेश्वरीम्
ताम् उवाच विनीतात्मा परशुर् गतकल्मषः ॥
गुरुः शाकल्य इत्य् आह माकान्तं स्तुहि विध्वजम्
तव प्रसादात् सा शक्तिर् यथा मे स्यात् तथा कुरु ॥
तथास्त्व् इति च सा प्राह परशुं श्रीसरस्वती
सरस्वत्याः प्रसादेन परशुस् तं जनार्दनम् ॥
तुष्टाव विविधैर् वाक्यैस् ततस् तुष्टो ऽभवद् धरिः
वरं प्रादाद् राक्षसाय कृपासिन्धुर् जनार्दनः ॥
यद् यन् मनोगतं रक्षस् तत् तत् सर्वं भविष्यति ॥
शाकल्यस्य प्रसादेन गौतम्याश् च प्रसादतः
सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥
पापिष्ठो ऽपि तदा रक्षः परशुर् दिवम् एयिवान्
सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच् छार्ङ्गधन्वनः ॥
ततः प्रभृति तत् तीर्थं सारस्वतम् इति श्रुतम्
तत्र स्नानेन दानेन विष्णुलोके महीयते ॥
वाग्जवैष्णवशाकल्य परशुप्रभवाणि हि
बहून्य् अभूवंस् तीर्थानि तस्मिन् वै श्वेतपर्वते ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0