भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 160

160.1

देवागमं नाम तीर्थं सर्वकामप्रदं शिवम्
भुक्तिमुक्तिप्रदं नॄणां पितॄणां तृप्तिकारकम् ॥

160.2

तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद
देवानाम् असुराणां च स्पर्धाभूद् धनहेतवे ॥

160.3

स्वर्गः सुराणाम् अभवद् असुराणाम् इलाभवत्
कर्मभूमिम् अवष्टभ्य असुराः सर्वतो ऽभवन् ॥

160.4

देवानां यज्ञभागांश् च दातॄन् घ्नन्त्य् असुरास् ततः
ततः सुरगणाः सर्वे यज्ञभागैर् विना कृताः ॥

160.5

व्यथिता माम् उपाजग्मुः किं कृत्यम् इति चाब्रुवन्
मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात् ॥

160.6

भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च
तथेत्य् उक्त्वा गता देवा भूमिं ते समरार्थिनः ॥

160.7

दैत्याश् च दानवाश् चैव राक्षसा बलदर्पिताः
एकीभूत्वा ययुस् ते ऽपि जयिनो युद्धकाङ्क्षिणः ॥

160.8

अहिर् वृत्रो बलिस् त्वाष्ट्रिर् नमुचिः शम्बरो मयः
एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥

160.9

अग्निर् इन्द्रो ऽथ वरुणस् त्वष्टा पूषा तथाश्विनौ
मरुतो लोकपालाश् च नानायुद्धविशारदाः ॥

160.10

ते दानवाः सर्व एव याम्यां वै दिशि संगरे
अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥

160.11

त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत्
तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥

160.12

सर्वेषां मेलनं यत्र पर्वतो मलयस् तु सः
मलयस्यापि देशो ऽसौ देवारीणाम् अभूत् तदा ॥

160.13

देवानां गौतमीतीरे तत्र संनिहितः शिवः
इति तेषां समायोगो देवानाम् अभवत् किल ॥

160.14

देवाः स्वरथम् आरूढास् तत्र तत्र समागमन्
गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥

160.15

प्रसन्नाभीष्टदा या स्यात् पितॄणाम् अखिलस्य तु
ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम्
अभयं चिन्तयाम् आसुस् ते सर्वे ऽथ परस्परम् ॥

160.16

अत्राप्य् उपायः को ऽस्माकं निर्जितानां परैर् हठात्
एकम् एवात्र नः श्रेयो विजयो वाथवा मृतिः
सपत्नैर् अभिभूतानां जीवितं धिङ् मनस्विनाम् ॥

160.17

एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी ॥

160.18

क्लेशेनालं सुरगणा गौतमीम् आशु गच्छत
भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥

160.19

गोदावर्यास् तयोश् चैव प्रसादात् किं तु दुष्करम् ॥

160.20

प्रसन्नाभ्यां हरीशाभ्यां देवा जयम् अभीप्सितम्
अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥

160.21

यत्र देवागमो जातस् तत् तीर्थं तेन विश्रुतम्
देवागमं प्रशंसन्ति मुनयस् तत्त्वदर्शिनः ॥

160.22

तत्राशीतिसहस्राणि शिवलिङ्गानि नारद
देवागमः पर्वतो ऽसौ प्रिय इत्य् अपि कथ्यते
ततः प्रभृति तत् तीर्थं देवप्रियम् अतो विदुः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc