भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 159

159.1

वञ्जरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम्
ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस् तथा ॥

159.2

दासत्वम् अगमत् पूर्वं नागानां गरुडः खगः
मातृदास्यात् तदा दुःख परिसंतप्तमानसः
कदाचिच् चिन्तयाम् आस रहः स्थित्वा विनिश्वसन् ॥

159.3

त एव धन्या लोके ऽस्मिन् कृतपुण्यास् त एव हि
नान्यसेवा कृता यैस् तु न येषां व्यसनागमः ॥

159.4

सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च
स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान् ॥

159.5

इति चिन्तासमाविष्टो जननीम् एत्य दुःखितः
पर्यपृच्छद् अमेयात्मा वैनतेयो ऽथ मातरम् ॥

159.6

कस्यापराधान् मातस् त्वं पितुर् वा मम वान्यतः
दासीत्वम् आप्ता वद तत् कारणं मम पृच्छतः ॥

159.7

साब्रवीत् पुत्रम् आत्मीयम् अरुणस्यानुजं प्रियम् ॥

159.8

नैव कस्यापराधो ऽस्ति स्वापराधो मयोदितः
यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम् ॥

159.9

कद्रूश् चापि तथैवाहं सा मया संयुता ययौ
कद्र्वा ममाभवद् वादश् छद्मनाहं तया जिता ॥

159.10

विधिर् हि बलवांस् तात कां कां चेष्टां न चेष्टते
एवं दासीत्वम् अगमं कद्र्वाः कश्यपनन्दन
यदा दासी तु जाताहं दासो ऽभूस् त्वं द्विजन्मज ॥

159.11

तूष्णीं तदा बभूवासौ गरुडो ऽतीव दुःखितः
न किंचिद् ऊचे जननीं चिन्तयन् भवितव्यताम् ॥

159.12

कद्रूः कदाचित् सा प्राह पुत्राणां हितम् इच्छती
आत्मनो भूतिम् इच्छन्ती विनतां खगमातरम् ॥

159.13

पुत्रः सूर्यं नमस्कर्तुं तव यात्य् अनिवारितः
अहो लोकत्रये ऽप्य् अस्मिन् धन्यासि बत दास्य् अपि ॥

159.14

स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥

159.15

तव पुत्रास् तु किम् इति रविं द्रष्टुं न यान्ति च ॥

159.16

पुत्रान् मदीयान् सुभगे नय नागालयं प्रति
समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः ॥

159.17

सुपर्णस् त्व् अवहन् नागान् कद्रूं च विनता तथा
ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥

159.18

सुराणां नेतु निलयं गरुडो मत्सुतान् इति
पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥

159.19

पुत्रा मे द्रष्टुम् इच्छन्ति हंसं त्रिजगतां गुरुम्
नमस्कृत्वा ततः सूर्यम् एष्यन्ति निलयं मम
हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलम् अन्वहम् ॥

159.20

सा वेपमाना विनता दीना कद्रूम् अभाषत ॥

159.21

नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान्
दृष्ट्वा दिनकरं देवं पुनर् एव प्रयान्तु ते ॥

159.22

विनता स्वसुतं प्राह विहगानाम् अधीश्वरम्
नमस्कर्तुम् अथेच्छन्ति नागाः स्वामित्वम् आगताः ॥

159.23

भास्वन्तम् इत्य् उवाचेयं मां सर्पजननी हठात्
तथेत्य् उक्त्वा स गरुडो माम् आरोहन्तु पन्नगाः ॥

159.24

तदारूढं सर्पसैन्यं गरुडं विहगाधिपम्
शनैः शनैर् उपगमद् यत्र देवो दिवाकरः
ते दह्यमानास् तीक्ष्णेन भानुतापेन विव्यथुः ॥

159.25

निवर्तस्व महाप्राज्ञ पतंगाय नमो नमः
अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा
यामस् त्वया वा गरुड विहाय त्वाम् अथापि वा ॥

159.26

एवं नागैर् उच्यमान आदित्यं दर्शयामि वः
इत्य् उक्त्वा गगनं शीघ्रं जगामादित्यसंमुखः ॥

159.27

दग्धभोगा निपेतुस् ते द्वीपं तं वीरणं प्रति
बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥

159.28

पुत्राणाम् आर्तसंनादं पतितानां महीतले
आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला ॥

159.29

उवाच विनतां कद्रूस् तव पुत्रो ऽतिदुष्कृतम्
कृतवान् अतिदुर्मेधा येषां शान्तिर् न विद्यते ॥

159.30

नान्यथा कर्तुम् आयाति स्वामिवाक्यं फणीश्वरः
स काश्यपो बृहत्तेजा यद्य् अत्र स्याद् अनामयम् ॥

159.31

भवेच् चैवं कथं शान्तिः पुत्राणां मम भामिनि
कद्र्वास् तद् वचनं श्रुत्वा विनता ह्य् अतिभीतवत् ॥

159.32

पुत्रम् आह महात्मानं गरुडं विहगाधिपम् ॥

159.33

नेदं युक्ततरं पुत्र भूषणं विनयेन हि
वर्तितुं युक्तम् इत्य् उक्तं वैपरीत्यं न युज्यते ॥

159.34

नामित्रेष्व् अपि कर्तव्यं सद्भिर् जिह्मं कदाचन
श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते ॥

159.35

कुर्वन्त्य् अनिष्टं कपटैस् त एव मम पुत्रक
प्रसह्य कर्तुं ये साक्षाद् अशक्ताः पुरुषाधमाः ॥

159.36

विनता च ततः प्राह कद्रूं तां सर्पमातरम् ॥

159.37

किं कृत्वा शान्तिर् अभ्येति पुत्राणां ते करोमि तत्
जरया तु गृहीतास् ते वद शान्तिं करोमि तत् ॥

159.38

कद्रूर् अप्य् आह विनतां रसातलगतं पयः
तेनाभिषेचितानां मे पुत्राणां शान्तिर् एष्यति ॥

159.39

कद्र्वास् तद् वचनं श्रुत्वा रसातलगतं पयः
क्षणेनैव समानीय नागांस् तान् अभ्यषेचयत्
ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥

159.40

मेघाश् चाप्य् अत्र वर्षन्तु त्रैलोक्यस्योपकारिणः ॥

159.41

तथा ववर्ष पर्जन्यो नागानाम् अभवच् छिवम्
रसातलभवं गाङ्गं नागसंजीवनं पयः ॥

159.42

जराशोकविनाशार्थम् आनीतं गरुडेन यत्
यत्राभिषेचिता नागास् तन् नागालयम् उच्यते ॥

159.43

गरुडेन यतो वारि आनीतं तद् रसातलात्
तद् गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम् ॥

159.44

जराया वारणं यस्मान् नागानाम् अभवच् छिवम्
रसातलभवं गाङ्गं नागसंजीवनं यतः ॥

159.45

जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे
साक्षाद् अमृतसंवाहा वञ्जरा साभवन् नदी ॥

159.46

जरादारिद्र्यसंताप हारिणी क्लेशवारिणी
रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥

159.47

तयोश् च संगमो यः स्यात् किं पुनस् तत्र वर्ण्यते
यस्यानुस्मरणाद् एव नाशं यान्त्य् अघसंचयाः ॥

159.48

तत्र च स्नानदानानां फलं को वक्तुम् ईश्वरः
सपादं तत्र तीर्थानां लक्षम् आहुर् मनीषिणः ॥

159.49

सर्वसंपत्तिदातॄणां सर्वपापौघहारिणाम्
वञ्जरासंगमसमं तीर्थं क्वापि न विद्यते
यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc