ब्रह्म पुराण · अध्याय 161
कुशतर्पणम् आख्यातं प्रणीतासंगमं तथा
तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥
तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम्
विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥
यदङ्घ्रिभ्यो ऽभवन् नद्यो गोदाभीमरथीमुखाः
यत्राभवत् तद् विरजम् एकवीरा च यत्र सा ॥
न तस्य महिमा कैश्चिद् अपि शक्यो ऽनुवर्णितुम्
तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः ॥
गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम्
यन् न जानन्ति मुनयो देवाश् च पितरो ऽसुराः ॥
तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम्
परः स पुरुषो ज्ञेयो ह्य् अव्यक्तो ऽक्षर एव तु ॥
अपरश् च क्षरस् तस्मात् प्रकृत्यन्वित एव च
निराकारात् सावयवः पुरुषः समजायत ॥
तस्माद् आपः समुद्भूता अद्भ्यश् च पुरुषस् तथा
ताभ्याम् अब्जं समुद्भूतं तत्राहम् अभवं मुने ॥
पृथिवी वायुर् आकाश आपो ज्योतिस् तथैव च
एते मत्तः पूर्वतरा एकदैवाभवन् मुने ॥
एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम्
नैव वेदास् तदा चासन् नाहं द्रष्टास्मि किंचन ॥
यस्माद् अहं समुद्भूतो न पश्येयं तम् अप्य् अथ
तूष्णीं स्थिते मयि तदा अश्रौषं वाचम् उत्तमाम् ॥
ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य चरस्य च ॥
ततो ऽहम् अब्रवं वाचं परुषां तत्र नारद
कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥
सैव वाग् अब्रवीद् दैवी प्रकृतिर् याभिधीयते
विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥
यज्ञं कुरु ततः शक्तिस् ते भवित्री न संशयः
यज्ञो वै विष्णुर् इत्य् एषा श्रुतिर् ब्रह्मन् सनातनी ॥
किं यज्वनाम् असाध्यं स्याद् इह लोके परत्र च ॥
पुनस् ताम् अब्रवं देवीं क्व वा केनेति तद् वद
यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥
ओंकारभूता या देवी मातृकल्पा जगन्मयी
कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥
स एव साधनं ते स्यात् तेन तं यज सुव्रत
यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥
हरिर् एवाखिलं तेन सर्वं विष्णोर् अवाप्यते ॥
पुनस् ताम् अब्रवं देवीं कर्मभूः क्व विधीयते
तदा नारद नैवासीद् भागीरथ्य् अथ नर्मदा ॥
यमुना नैव तापी सा सरस्वत्य् अथ गौतमी
समुद्रो वा नदः कश्चिन् न सरः सरितो ऽमलाः
सा शक्तिः पुनर् अप्य् एवं माम् उवाच पुनः पुनः ॥
सुमेरोर् दक्षिणे पार्श्वे तथा हिमवतो गिरेः
दक्षिणे चापि विन्ध्यस्य सह्याच् चैवाथ दक्षिणे
सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥
तत् तु वाक्यम् अथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम्
तं प्रदेशम् अथागत्य स्थातव्यं क्वेत्य् अचिन्तयम्
ततो माम् अब्रवीत् सैव विष्णोर् वाण्य् अशरीरिणी ॥
इतो गच्छ इतस् तिष्ठ तथोपविश चात्र हि
संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥
कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम
यद् वदन्त्य् अखिला वेदा विधे तत् तत् समाचर ॥
इतिहासपुराणानि यद् अन्यच् छब्दगोचरम्
स्वतो मुखे मम प्रायाद् अभूच् च स्मृतिगोचरम् ॥
वेदार्थश् च मया सर्वो ज्ञातो ऽसौ तत्क्षणेन च
ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम् ॥
यज्ञोपकरणं सर्वं तद् उक्तं च त्व् अकल्पयम्
तदुक्तेन प्रकारेण यज्ञपात्राण्य् अकल्पयम् ॥
अहं स्थित्वा यत्र देशे शुचिर् भूत्वा यतात्मवान्
दीक्षितो विप्रदेशो ऽसौ मन्नाम्ना तु प्रकीर्तितः ॥
मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः
चतुरशीतिपर्यन्तं योजनानि महामुने ॥
मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः
तत्र मध्ये वेदिका स्याद् गार्हपत्यो ऽस्य दक्षिणे ॥
तत्र चाहवनीयस्य एवम् अग्नींस् त्व् अकल्पयम्
विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात् ॥
शरीरम् आत्मनो ऽहं वै द्वेधा चाकरवं मुने
पूर्वार्धेन ततः पत्नी ममाभूद् यज्ञसिद्धये ॥
उत्तरेण त्व् अहं तद्वद् अर्धो जाया इति श्रुतेः
कालं वसन्तम् उत्कृष्टम् आज्यरूपेण नारद ॥
अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद् धविः
ऋतुं च प्रावृषं पुत्र तदा बर्हिर् अकल्पयम् ॥
छन्दांसि सप्त वै तत्र तदा परिधयो ऽभवन्
कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥
यो ऽनादिश् च त्व् अनन्तश् च स्वयं कालो ऽभवत् तदा
यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥
सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत् पशुः
ततो ऽहम् अब्रवं वाचं वैष्णवीम् अशरीरिणीम् ॥
विनैव पशुना नायं यज्ञः परिसमाप्यते
ततो माम् अवदद् देवी सैव नित्याशरीरिणी ॥
पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम् ॥
तथेत्य् उक्त्वा स्तूयमाने देवदेवे जनार्दने
मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥
सा च माम् अब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु
तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥
कालयूपस्य पार्श्वे तं गुणपाशैर् निवेशितम्
बर्हिस्थितम् अहं प्रौक्षं पुरुषं जातम् अग्रतः ॥
एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वम् अभूद् इदम्
ब्राह्मणास् तु मुखात् तस्य ऽभवन् बाह्वोश् च क्षत्रियाः ॥
मुखाद् इन्द्रस् तथाग्निश् च श्वसनः प्राणतो ऽभवत्
दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गो ऽभवत् तदा ॥
मनसश् चन्द्रमा जातः सूर्यो ऽभूच् चक्षुषस् तथा
अन्तरिक्षं तथा नाभेर् ऊरुभ्यां विश एव च ॥
पद्भ्यां शूद्रश् च संजातस् तथा भूमिर् अजायत
ऋषयो रोमकूपेभ्य ओषध्यः केशतो ऽभवन् ॥
ग्राम्यारण्याश् च पशवो नखेभ्यः सर्वतो ऽभवन्
कृमिकीटपतंगादि पायूपस्थाद् अजायत ॥
स्थावरं जङ्गमं किंचिद् दृश्यादृश्यं च किंचन
तस्मात् सर्वम् अभूद् देवा मत्तश् चाप्य् अभवन् पुनः
एतस्मिन्न् अन्तरे सैव विष्णोर् वाग् अब्रवीच् च माम् ॥
सर्वं संपूर्णम् अभवत् सृष्टिर् जाता तथेप्सिता
इदानीं जुहुधि ह्य् अग्नौ पात्राणि च समानि च ॥
विसर्जय तथा यूपं प्रणीतां च कुशांस् तथा
ऋत्विग्रूपं यज्ञरूपम् उद्देश्यं ध्येयम् एव च ॥
स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय ॥
तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु
गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥
पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस् तदा
तत्र तत्र जगद्योनिम् अनुसंधाय पूरुषम् ॥
मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः
लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ ॥
शुक्लरूपधरो विष्णुर् भवेद् आहवनीयके
श्यामो विष्णुर् दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥
सर्वकालं तेषु विष्णुर् अतो देशेषु संस्थितः
न तेन रहितं किंचिद् विष्णुना विश्वयोनिना ॥
प्रणीतायाः प्रणयनं मन्त्रैश् चाकरवं ततः
प्रणीतोदकम् अप्य् एतत् प्रणीतेति नदी शुभा ॥
व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैर् अथ
मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥
पतितास् तत्र तीर्थानि जातानि गुणवन्ति च
संजाता मुनिशार्दूल स्नानात् क्रतुफलप्रदा ॥
यालंकृता सर्वकालं देवदेवेन शार्ङ्गिणा
सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥
संमार्जिताः कुशा यत्र पतिता भूतले शुभे
कुशतर्पणम् आख्यातं बहुपुण्यफलप्रदम् ॥
कुशैश् च तर्पिताः सर्वे कुशतर्पणम् उच्यते
पश्चाच् च संगता तत्र गौतमी कारणान्तरात् ॥
प्रणीतायां महाबुद्धे प्रणीतासंगमो ऽभवत्
कुशतर्पणदेशे तु तत् तीर्थं कुशतर्पणम् ॥
तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे
विसृष्टो लोकपूज्यो ऽसौ विष्णोर् आसीत् समाश्रयः ॥
अक्षयश् चाभवच् छ्रीमान् अक्षयो ऽसौ वटो ऽभवत्
नित्यश् च कालरूपो ऽसौ स्मरणात् क्रतुपुण्यदः ॥
मद्देवयजनं चेदं दण्डकारण्यम् उच्यते
संपूर्णे तु क्रतौ विष्णुर् मया भक्त्या प्रसादितः ॥
यो विराड् उच्यते वेदे यस्मान् मूर्तम् अजायत
यस्माच् च मम चोत्पत्तिर् यस्येदं विकृतं जगत् ॥
तम् अहं देवदेवेशम् अभिवन्द्य व्यसर्जयम्
योजनानि चतुर्विंशन् मद्देवयजनं शुभम् ॥
तस्माद् अद्यापि कुण्डानि सन्ति च त्रीणि नारद
यज्ञेश्वरस्वरूपाणि विष्णोर् वै चक्रपाणिनः ॥
ततः प्रभृति चाख्यातं मद्देवयजनं च तत्
तत्रस्थः कृमिकीटादिः सो ऽप्य् अन्ते मुक्तिभाजनम् ॥
धर्मबीजं मुक्तिबीजं दण्डकारण्यम् उच्यते
विशेषाद् गौतमीश्लिष्टो देशः पुण्यतमो ऽभवत् ॥
प्रणीतासंगमे चापि कुशतर्पण एव वा
स्नानदानादि यः कुर्यात् स गच्छेत् परमं पदम् ॥
स्मरणं पठनं वापि श्रवणं चापि भक्तितः
सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥
उभयोस् तीरयोस् तत्र तीर्थान्य् आहुर् मनीषिणः
षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥
वाराणस्या अपि मुने कुशतर्पणम् उत्तमम्
नानेन सदृशं तीर्थं विद्यते सचराचरे ॥
ब्रह्महत्यादिपापानां स्मरणाद् अपि नाशनम्
तीर्थम् एतन् मुने प्रोक्तं स्वर्गद्वारं महीतले ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0