भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 16

16.1

भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः
राजाधिदेवः शूरस् तु विदूरथसुतो ऽभवत् ॥

16.2

राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥

16.3

शमी च दण्डशर्मा च दन्तशत्रुश् च शत्रुजित्
श्रवणा च श्रविष्ठा च स्वसारौ संबभूवतुः ॥

16.4

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः
स्वयंभोजः स्वयंभोजाद् भदिकः संबभूव ह ॥

16.5

तस्य पुत्रा बभूवुर् हि सर्वे भीमपराक्रमाः
कृतवर्माग्रजस् तेषां शतधन्वा तु मध्यमः ॥

16.6

देवान्तश् च नरान्तश् च भिषग्वैतरणश् च यः
सुदान्तश् चातिदान्तश् च निकाश्यः कामदम्भकः ॥

16.7

देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः
असमौजाः सुतस् तस्य नासमौजाश् च ताव् उभौ ॥

16.8

अजातपुत्राय सुतान् प्रददाव् असमौजसे
सुदंष्ट्रश् च सुचारुश् च कृष्ण इत्य् अन्धकाः स्मृताः ॥

16.9

गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः
गान्धारी जनयाम् आस अनमित्रं महाबलम् ॥

16.10

माद्री युधाजितं पुत्रं ततो वै देवमीधुषम्
अनमित्रम् अमित्राणां जेतारम् अपराजितम् ॥

16.11

अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः
प्रसेनश् चाथ सत्राजिच् छत्रुसेनाजिताव् उभौ ॥

16.12

प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम्
दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान् ॥

16.13

तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत्
स कदाचिन् निशापाये रथेन रथिनां वरः ॥

16.14

तोयकूलम् अपः स्प्रष्टुम् उपस्थातुं ययौ रविम्
तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः ॥

16.15

विस्पष्टमूर्तिर् भगवांस् तेजोमण्डलवान् विभुः
अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः ॥

16.16

यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥

16.17

को विशेषो ऽस्ति मे त्वत्तः सख्येनोपगतस्य वै
एतच् छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ॥

16.18

स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः
ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा ॥

16.19

प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम्
तम् अभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥

16.20

लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो
तद् एतन् मणिरत्नं मे भगवन् दातुम् अर्हसि ॥

16.21

ततः स्यमन्तकमणिं दत्तवान् भास्करस् तदा
स तम् आबध्य नगरीं प्रविवेश महीपतिः ॥

16.22

तं जनाः पर्यधावन्त सूर्यो ऽयं गच्छतीति ह
स्वां पुरीं स विसिष्माय राजा त्व् अन्तःपुरं तथा ॥

16.23

तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम्
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम् ॥

16.24

स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्य् अभूत् ॥

16.25

लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके
गोविन्दो न च तं लेभे शक्तो ऽपि न जहार सः ॥

16.26

कदाचिन् मृगयां यातः प्रसेनस् तेन भूषितः
स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥

16.27

अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः
निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम् ॥

16.28

ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात्
प्रार्थनां तां मणेर् बद्ध्वा सर्व एव शशङ्किरे ॥

16.29

स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः
आहरिष्ये मणिम् इति प्रतिज्ञाय वनं ययौ ॥

16.30

यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्य् अथ
प्रसेनस्य पदं गृह्य पुरुषैर् आप्तकारिभिः ॥

16.31

ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिम् उत्तमम्
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥

16.32

साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम्
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥

16.33

ऋक्षेण निहतो दृष्टः पदैर् ऋक्षस् तु सूचितः
पदैस् तैर् अन्वियायाथ गुहाम् ऋक्षस्य माधवः ॥

16.34

स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम्
धात्र्या कुमारम् आदाय सुतं जाम्बवतो द्विजाः ॥

16.35

क्रीडयन्त्या च मणिना मा रोदीर् इत्य् अथेरिताम् ॥

16.36

सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः
सुकुमारक मा रोदीस् तव ह्य् एष स्यमन्तकः ॥

16.37

व्यक्तितस् तस्य शब्दस्य तूर्णम् एव बिलं ययौ
प्रविश्य तत्र भगवांस् तद् ऋक्षबिलम् अञ्जसा ॥

16.38

स्थापयित्वा बिलद्वारे यदूंल् लाङ्गलिना सह
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥

16.39

युयुधे वासुदेवस् तु बिले जाम्बवता सह
बाहुभ्याम् एव गोविन्दो दिवसान् एकविंशतिम् ॥

16.40

प्रविष्टे ऽथ बिले कृष्णे बलदेवपुरःसराः
पुरीं द्वारवतीम् एत्य हतं कृष्णं न्यवेदयन् ॥

16.41

वासुदेवो ऽपि निर्जित्य जाम्बवन्तं महाबलम्
लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य संमताम् ॥

16.42

मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये
अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥

16.43

उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः
एवं स मणिम् आहृत्य विशोध्यात्मानम् अच्युतः ॥

16.44

ददौ सत्राजिते तं वै सर्वसात्वतसंसदि
एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥

16.45

आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम्
सत्राजितो दश त्व् आसन् भार्यास् तासां शतं सुताः ॥

16.46

ख्यातिमन्तस् त्रयस् तेषां भगंकारस् तु पूर्वजः
वीरो वातपतिश् चैव वसुमेधस् तथैव च ॥

16.47

कुमार्यश् चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः
सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥

16.48

तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ
सभाक्षो भङ्गकारिस् तु नावेयश् च नरोत्तमौ ॥

16.49

जज्ञाते गुणसंपन्नौ विश्रुतौ रूपसंपदा
माद्र्याः पुत्रो ऽथ जज्ञे ऽथ वृष्णिपुत्रो युधाजितः ॥

16.50

जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा
श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत ॥

16.51

गान्दिनीं नाम तस्याश् च गाः सदा प्रददौ पिता
तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः ॥

16.52

अक्रूरो ऽथ महाभागो जज्ञे विपुलदक्षिणः
उपमद्गुस् तथा मद्गुर् मुदरश् चारिमर्दनः ॥

16.53

आरिक्षेपस् तथोपेक्षः शत्रुहा चारिमेजयः
धर्मभृच् चापि धर्मा च गृध्रभोजान्धकस् तथा ॥

16.54

आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना
विश्रुताश्वस्य महिषी कन्या चास्य वसुंधरा ॥

16.55

रूपयौवनसंपन्ना सर्वसत्त्वमनोहरा
अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥

16.56

वसुदेवश् चोपदेवश् च जज्ञाते देववर्चसौ
चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च ॥

16.57

अश्वग्रीवो ऽश्वबाहुश् च सुपार्श्वकगवेषणौ
अरिष्टनेमिश् च सुता धर्मो धर्मभृद् एव च ॥

16.58

सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ
इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥

16.59

वेद मिथ्याभिशापास् तं न स्पृशन्ति कदाचन ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc