भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 17

17.1

यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्
ददाव् अहारयद् बभ्रुर् भोजेन शतधन्वना ॥

17.2

सदा हि प्रार्थयाम् आस सत्यभामाम् अनिन्दिताम्
अक्रूरो ऽन्तरम् अन्विष्यन् मणिं चैव स्यमन्तकम् ॥

17.3

सत्राजितं ततो हत्वा शतधन्वा महाबलः
रात्रौ तं मणिम् आदाय ततो ऽक्रूराय दत्तवान् ॥

17.4

अक्रूरस् तु तदा विप्रा रत्नम् आदाय चोत्तमम्
समयं कारयां चक्रे नावेद्यो ऽहं त्वयेत्य् उत ॥

17.5

वयम् अभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम्
ममाद्य द्वारका सर्वा वशे तिष्ठत्य् असंशयम् ॥

17.6

हते पितरि दुःखार्ता सत्यभामा मनस्विनी
प्रययौ रथम् आरुह्य नगरं वारणावतम् ॥

17.7

सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः
भर्तुर् निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्य् अवर्तयत् ॥

17.8

पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम्
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥

17.9

ततस् त्वरितम् आगम्य द्वारकां मधुसूदनः
पूर्वजं हलिनं श्रीमान् इदं वचनम् अब्रवीत् ॥

17.10

हतः प्रसेनः सिंहेन सत्राजिच् छतधन्वना
स्यमन्तकस् तु मद्नामी तस्य प्रभुर् अहं विभो ॥

17.11

तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम्
स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥

17.12

ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः
शतधन्वा ततो ऽक्रूरं सर्वतोदिशम् ऐक्षत ॥

17.13

संरब्धौ ताव् उभौ तत्र दृष्ट्वा भोजजनार्दनौ
शक्तो ऽपि शापाद् धार्दिक्यम् अक्रूरो नान्वपद्यत ॥

17.14

अपयाने ततो बुद्धिं भोजश् चक्रे भयार्दितः
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥

17.15

विख्याता हृदया नाम शतयोजनगामिनी
भोजस्य वडवा विप्रा यया कृष्णम् अयोधयत् ॥

17.16

क्षीणां जवेन हृदयाम् अध्वनः शतयोजने
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानम् अर्दयत् ॥

17.17

ततस् तस्या हतायास् तु श्रमात् खेदाच् च भो द्विजाः
खम् उत्पेतुर् अथ प्राणाः कृष्णो रामम् अथाब्रवीत् ॥

17.18

तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥

17.19

पद्भ्याम् एव ततो गत्वा शतधन्वानम् अच्युतः
मिथिलाम् अभितो विप्रा जघान परमास्त्रवित् ॥

17.20

स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम्
निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली ॥

17.21

नास्तीति कृष्णश् चोवाच ततो रामो रुषान्वितः
धिक्शब्दपूर्वम् असकृत् प्रत्युवाच जनार्दनम् ॥

17.22

भ्रातृत्वान् मर्षयाम्य् एष स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥

17.23

प्रविवेश ततो रामो मिथिलाम् अरिमर्दनः
सर्वकामैर् उपहृतैर् मिथिलेनाभिपूजितः ॥

17.24

एतस्मिन्न् एव काले तु बभ्रुर् मतिमतां वरः
नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥

17.25

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥

17.26

अथ रत्नानि चान्यानि धनानि विविधानि च
षष्टिं वर्षाणि धर्मात्मा यज्ञेष्व् एव न्ययोजयत् ॥

17.27

अक्रूरयज्ञा इति ते ख्यातास् तस्य महात्मनः
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥

17.28

अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः
गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान् ॥

17.29

संप्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः
आनीतो द्वारकाम् एव कृष्णेन च महात्मना ॥

17.30

अक्रूरश् चान्धकैः सार्धम् आयातः पुरुषर्षभः
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥

17.31

ज्ञातिभेदभयात् कृष्णस् तम् उपेक्षितवांस् तदा
अपयाते तदाक्रूरे नावर्षत् पाकशासनः ॥

17.32

अनावृष्ट्या तदा राष्ट्रम् अभवद् बहुधा कृशम्
ततः प्रसादयाम् आसुर् अक्रूरं कुकुरान्धकाः ॥

17.33

पुनर् द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः
प्रववर्ष सहस्राक्षः कक्षे जलनिधेस् तदा ॥

17.34

कन्यां च वासुदेवाय स्वसारं शीलसंमताम्
अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः ॥

17.35

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्
सभामध्यगतः प्राह तम् अक्रूरं जनार्दनः ॥

17.36

यत् तद् रत्नं मणिवरं तव हस्तगतं विभो
तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥

17.37

षष्टिवर्षगते काले यो रोषो ऽभून् ममानघ
स संरूढो ऽसकृत् प्राप्तस् ततः कालात्ययो महान् ॥

17.38

स ततः कृष्णवचनात् सर्वसात्वतसंसदि
प्रददौ तं मणिं बभ्रुर् अक्लेशेन महामतिः ॥

17.39

ततस् तम् आर्जवात् प्राप्तं बभ्रोर् हस्ताद् अरिंदमः
ददौ हृष्टमनाः कृष्णस् तं मणिं बभ्रवे पुनः ॥

17.40

स कृष्णहस्तात् संप्राप्तं मणिरत्नं स्यमन्तकम्
आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc