भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 15

15.1

क्रोष्टोर् अथाभवत् पुत्रो वृजिनीवान् महायशाः
वार्जिनीवतम् इच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥

15.2

स्वाहिपुत्रो ऽभवद् राजा उषद्गुर् वदतां वरः
महाक्रतुभिर् ईजे यो विविधैर् भूरिदक्षिणैः ॥

15.3

ततः प्रसूतिम् इच्छन् वै उषद्गुः सो ऽग्र्यम् आत्मजम्
जज्ञे चित्ररथस् तस्य पुत्रः कर्मभिर् अन्वितः ॥

15.4

आसीच् चैत्ररथिर् वीरो यज्वा विपुलदक्षिणः
शशबिन्दुः परं वृत्तं राजर्षीणाम् अनुष्ठितः ॥

15.5

पृथुश्रवाः पृथुयशा राजासीच् छाशिबिन्दवः
शंसन्ति च पुराणज्ञाः पार्थश्रवसम् अन्तरम् ॥

15.6

अन्तरस्य सुयज्ञस् तु सुयज्ञतनयो ऽभवत्
उषतो यज्ञम् अखिलं स्वधर्मे च कृतादरः ॥

15.7

शिनेयुर् अभवत् पुत्र उषतः शत्रुतापनः
मरुतस् तस्य तनयो राजर्षिर् अभवन् नृपः ॥

15.8

मरुतो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम्
चचार विपुलं धर्मम् अमर्षात् प्रत्यभाग् अपि ॥

15.9

स सत्प्रसूतिम् इच्छन् वै सुतं कम्बलबर्हिषः
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥

15.10

निहत्य रुक्मकवचः शतं कवचिनां रणे
धन्विनां निशितैर् बाणैर् अवाप श्रियम् उत्तमाम् ॥

15.11

जज्ञे च रुक्मकवचात् परजित् परवीरहा
जज्ञिरे पञ्च पुत्रास् तु महावीर्याः पराजिताः ॥

15.12

रुक्मेषुः पृथुरुक्मश् च ज्यामघः पालितो हरिः
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥

15.13

रुक्मेषुर् अभवद् राजा पृथुरुक्मस्य संश्रयात्
ताभ्यां प्रव्राजितो राजा ज्यामघो ऽवसद् आश्रमे ॥

15.14

प्रशान्तश् च तदा राजा ब्राह्मणैश् चावबोधितः
जगाम धनुर् आदाय देशम् अन्यं ध्वजी रथी ॥

15.15

नर्मदाकूलम् एकाकीम् एकलां मृत्तिकावतीम्
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्याम् उवास सः ॥

15.16

ज्यामघस्याभवद् भार्या शैब्या बलवती सती
अपुत्रो ऽपि स राजा वै नान्यां भार्याम् अविन्दत ॥

15.17

तस्यासीद् विजयो युद्धे तत्र कन्याम् अवाप सः
भार्याम् उवाच संत्रस्तः स्नुषेति स जनेश्वरः ॥

15.18

एतच् छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै
अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः ॥

15.19

यस् ते जनिष्यते पुत्रस् तस्य भार्योपपादिता ॥

15.20

उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत
पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥

15.21

राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ
पश्चाद् विदर्भो ऽजनयच् छूरौ रणविशारदौ ॥

15.22

भीमो विदर्भस्य सुतः कुन्तिस् तस्यात्मजो ऽभवत्
कुन्तेर् धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥

15.23

धृष्टस्य जज्ञिरे शूरास् त्रयः परमधार्मिकाः
आवन्तश् च दशार्हश् च बली विषहरश् च सः ॥

15.24

दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते
जीमूतपुत्रो विकृतिस् तस्य भीमरथः स्मृतः ॥

15.25

अथ भीमरथस्यासीत् पुत्रो नवरथस् तथा
तस्य चासीद् दशरथः शकुनिस् तस्य चात्मजः ॥

15.26

तस्मात् करम्भः कारम्भिर् देवरातो ऽभवन् नृपः
देवक्षत्रो ऽभवत् तस्य वृद्धक्षत्रो महायशाः ॥

15.27

देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः
मधूनां वंशकृद् राजा मधुर् मधुरवाग् अपि ॥

15.28

मधोर् जज्ञे ऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः
ऐक्ष्वाकी चाभवद् भार्या मधोस् तस्यां व्यजायत ॥

15.29

सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः
युज्यते परमप्रीत्या प्रजावांश् च भवेत् सदा ॥

15.30

सत्वतः सत्त्वसंपन्नान् कौशल्या सुषुवे सुतान्
भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥

15.31

अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम्
तेषां विसर्गाश् चत्वारो विस्तरेणेह कीर्तिताः ॥

15.32

भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका
आस्तां भार्ये तयोस् तस्माज् जज्ञिरे बहवः सुताः ॥

15.33

क्रिमिश् च क्रमणश् चैव धृष्टः शूरः पुरंजयः
एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥

15.34

आयुताजित् सहस्राजिच् छताजित् त्व् अथ दासकः
उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥

15.35

यज्वा देवावृधो राजा चचार विपुलं तपः
पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः ॥

15.36

संयुज्यमानस् तपसा पर्णाशाया जलं स्पृशन्
सदोपस्पृशतस् तस्य चकार प्रियम् आपगा ॥

15.37

चिन्तयाभिपरीता सा न जगामैव निश्चयम्
कल्याणत्वान् नरपतेस् तस्य सा निम्नगोत्तमा ॥

15.38

नाध्यगच्छत् तु तां नारीं यस्याम् एवंविधः सुतः
भवेत् तस्मात् स्वयं गत्वा भवाम्य् अस्य सहानुगा ॥

15.39

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः
वरयाम् आस नृपतिं ताम् इयेष च स प्रभुः ॥

15.40

तस्याम् आधत्त गर्भं स तेजस्विनम् उदारधीः
अथ सा दशमे मासि सुषुवे सरितां वरा ॥

15.41

पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥

15.42

गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः
यथैवाग्रे तथा दूरात् पश्यामस् तावद् अन्तिकात् ॥

15.43

बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः
षष्टिश् च षट् च पुरुषाः सहस्राणि च सप्त च ॥

15.44

एते ऽमृतत्वं प्राप्ता वै बभ्रोर् देवावृधाद् अपि
यज्वा दानपतिर् धीमान् ब्रह्मण्यः सुदृढायुधः ॥

15.45

तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः
अन्धकात् काश्यदुहिता चतुरो ऽलभतात्मजान् ॥

15.46

कुकुरं भजमानं च ससकं बलबर्हिषम्
कुकुरस्य सुतो वृष्टिर् वृष्टेस् तु तनयस् तथा ॥

15.47

कपोतरोमा तस्याथ तिलिरिस् तनयो ऽभवत्
जज्ञे पुनर् वसुस् तस्माद् अभिजिच् च पुनर् वसोः ॥

15.48

तथा वै पुत्रमिथुनं बभूवाभिजितः किल
आहुकः श्राहुकश् चैव ख्यातौ ख्यातिमतां वरौ ॥

15.49

इमां चोदाहरन्त्य् अत्र गाथां प्रति तम् आहुकम्
श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥

15.50

अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत्
नापुत्रवान् नाशतदो नासहस्रशतायुषः ॥

15.51

नाशुद्धकर्मा नायज्वा यो भोजम् अभितो व्रजेत्
पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥

15.52

सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम्
रथानां मेघघोषाणां सहस्राणि दशैव तु ॥

15.53

रौप्यकाञ्चनकक्षाणां सहस्राण्य् एकविंशतिः
तावत्य् एव सहस्राणि उत्तरस्यां तथा दिशि ॥

15.54

आभूमिपाला भोजास् तु सन्ति ज्याकिङ्किणीकिनः
आहुः किं चाप्य् अवन्तिभ्यः स्वसारं ददुर् अन्धकाः ॥

15.55

आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः
देवकश् चोग्रसेनश् च देवगर्भसमाव् उभौ ॥

15.56

देवकस्याभवन् पुत्राश् चत्वारस् त्रिदशोपमाः
देववान् उपदेवश् च संदेवो देवरक्षितः ॥

15.57

कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ
देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥

15.58

वृकदेव्य् उपदेवी च सुनाम्नी चैव सप्तमी
नवोग्रसेनस्य सुतास् तेषां कंसस् तु पूर्वजः ॥

15.59

न्यग्रोधश् च सुनामा च तथा कङ्कः सुभूषणः
राष्ट्रपालो ऽथ सुतनुर् अनावृष्टिस् तु पुष्टिमान् ॥

15.60

तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥

15.61

उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः
कुकुराणाम् इमं वंशं धारयन्न् अमितौजसाम् ॥

15.62

आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc