ब्रह्म पुराण · अध्याय 158
व्यासतीर्थम् इति ख्यातं प्राचेतसम् अतः परम्
नातः परतरं किंचित् पावनं सर्वसिद्धिदम् ॥
दश मे मानसाः पुत्राः स्रष्टारो जगताम् अपि
अन्तं जिज्ञासवस् ते वै पृथिव्या जग्मुर् ओजसा ॥
पुनः सृष्टाः पुनस् ते ऽपि यातास् तान् समवेक्षितुम्
नैव ते ऽपि समायाता ये गतास् ते गता गताः ॥
तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥
ते ऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः
तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥
सर्वेभ्यो ह्य् अधिका माता गुरुभ्यो गौरवेण हि
तदा नारद कोपेन सा शशाप तदात्मजान् ॥
माम् अनादृत्य ये पुत्राः प्रवृत्ताश् चरितुं तपः
सर्वैर् अपि प्रकारैस् तन् न तेषां सिद्धिम् एष्यति ॥
नानादेशांश् च चिन्वानास् तपःसिद्धिं न यान्ति च
विघ्नम् अन्वेति तान् सर्वान् इतश् चेतश् च धावतः ॥
क्वापि तद् राक्षसैर् विघ्नं क्वापि तन् मानुषैर् अभूत्
प्रमदाभिः क्वचिच् चापि क्वापि तद्देहदोषतः ॥
एवं तु भ्रममाणास् ते ययुः सर्वे तपोनिधिम्
अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥
नमस्कृत्वा ह्य् आङ्गिरसा ह्य् अग्निवंशसमुद्भवाः
दक्षिणाशापतिं शान्तं विनीताः प्रष्टुम् उद्यताः ॥
भगवन् केन दोषेण तपो ऽस्माकं न सिध्यति
नानाविधैर् अप्य् उपायैः कुर्वतां च पुनः पुनः ॥
किं कुर्मः कः प्रकारो ऽत्र तपस्य् एव भवाम किम्
उपायं ब्रूहि विप्रेन्द्र ज्येष्ठो ऽसि तपसा ध्रुवम् ॥
ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः
शान्तो ऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा ॥
अक्रोधनश् च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम्
साहंकारा दयाहीना गुरुसेवाविवर्जिताः
असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥
अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा शनैः शनैः ॥
शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः
न पर्याप्तं तपश् चाभूत् स्मरध्वं स्मयकारणम् ॥
ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखम् एधते
ये गताः पुनर् अन्वेष्टुं ते च त्व् आङ्गिरसो ऽभवन् ॥
ते यूयं च पुनः काले याता याताः शनैः शनैः
प्रजापतेर् अप्य् अधिका भवितारो न संशयः ॥
इतो यान्तु तपस् तप्तुं गङ्गां त्रैलोक्यपावनीम्
नोपायो ऽन्यो ऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥
तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ
स च्छेदयिष्यत्य् अखिलं संशयं वो महामतिः
न सिद्धिः क्वापि केषांचिद् विना सद्गुरुणा यतः ॥
ते तम् ऊचुर् मुनिवरं ज्ञानदः को ऽभिधीयते
ब्रह्मा विष्णुर् महेशो वा आदित्यो वापि चन्द्रमाः ॥
अग्निश् च वरुणः कः स्याज् ज्ञानदो मुनिसत्तम
अगस्त्यः पुनर् अप्य् आह ज्ञानदः श्रूयताम् अयम् ॥
या आपः सो ऽग्निर् इत्य् उक्तो यो ऽग्निः सूर्यः स उच्यते
यश् च सूर्यः स वै विष्णुर् यश् च विष्णुः स भास्करः ॥
यश् च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वम् एव तत्
यस्य सर्वं तु तज् ज्ञानं ज्ञानदः सो ऽत्र कीर्त्यते ॥
देशिकप्रेरकव्याख्या कृदुपाध्यायदेहदाः
गुरवः सन्ति बहवस् तेषां ज्ञानप्रदो महान् ॥
तद् एव ज्ञानम् अत्रोक्तं येन भेदो विहन्यते
एक एवाद्वयः शंभुर् इन्द्रमित्राग्निनामभिः
वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥
एतच् छ्रुत्वा मुनेर् वाक्यं गाथा गायन्त एव ते
जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश् च दक्षिणाम् ॥
अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि
आसनेषु विशेषेण ह्य् आसीनास् तत्त्वचिन्तकाः ॥
तेषां सर्वे सुरगणाः प्रीतिमन्तो ऽभवन् मुने
स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना ॥
अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च
लोकानाम् उपकारार्थं धर्मकामार्थसिद्धये ॥
पुराणस्मृतिवेदार्थ धर्मशास्त्रार्थनिश्चये
स्रष्टृत्वं जगताम् इष्टं तादृग्रूपा भविष्यथ ॥
प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात्
यदा ह्य् अधर्मो भविता वेदानां च पराभवः ॥
वेदानां व्यसनं तेभ्यो भाविव्यासास् ततस् तु ते
यदा यदा तु धर्मस्य ग्लानिर् वेदस्य दृश्यते ॥
तदा तदा तु ते व्यासा भविष्यन्त्य् उपकारिणः
तेषां यत् तपसः स्थानं गङ्गायास् तीरम् उत्तमम् ॥
तत्र तत्र शिवो विष्णुर् अहम् आदित्य एव च
अग्निर् आपः सर्वम् इति तत्र संनिहितं सदा ॥
नैतेभ्यः पावनं किंचिन् नैतेभ्यस् त्व् अधिकं क्वचित्
तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥
सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक्
विशेषतस् तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥
सर्वैर् देवैर् अनुवृतस् तदनुग्रहकारकः
धर्मव्यासास् तु ते ज्ञेया वेदव्यासास् तथैव च ॥
तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये
पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम्
सर्वसिद्धिप्रदं पुंसां व्यासतीर्थम् अनुत्तमम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0