भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 156

156.1

शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः
तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥

156.2

तत्रेदं वृत्तम् आख्यास्ये भुक्तिमुक्तिप्रदायकम्
पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः ॥

156.3

ब्रह्माण्डागारसंभूता राक्षसा बहुरूपिणः
ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥

156.4

तदाहम् अब्रवं विष्णुं रक्षणाय जगद्गुरुम्
स विष्णुस् तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥

156.5

छित्त्वा चक्रेण रक्षांसि शङ्खम् आपूरयत् तदा
निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरम् एव च ॥

156.6

ततो हर्षप्रकर्षेण शङ्खम् आपूरयद् धरिः
ततो रक्षांसि सर्वाणि ह्य् अनीनशुर् अशेषतः ॥

156.7

यत्रैतद् वृत्तम् अखिलं विष्णुशङ्खप्रभावतः
शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम् ॥

156.8

सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम्
आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥

156.9

स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात्
तीर्थानाम् अयुतं तत्र सर्वपापनुदं मुने ॥

156.10

तीर्थान्य् अयुतसंख्यानि सर्वपापहराणि च
येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥

156.11

पापक्षयप्रतिनिधिर् नैतेभ्यो ऽस्त्य् अपरः क्वचित् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc